________________
TOR
eapes
MAR
॥१॥
मुनिसुव्रतजिनस्तुतयः
........ ...... अश्वावबोधप्रभवं शकुन्ति - विहारसारं जयति प्रतीतम् । तीर्थं जिनं यन्मुनिसुव्रतस्य विहारसा रञ्जयति प्रतीतम्
॥१॥ उत्सृज्य राज्यं श्रितसंयमाय, निरन्तरायाऽसमरागमाय !। नमोस्तु ते सुव्रत ! सत्तमाय, निरन्तरायाऽसमराऽऽगमाय ॥१॥ श्रये त्वां शरणं दोषाऽ-जित ! पद्मातनूद्भव!। श्रीसुव्रत ! जगज्जैत्र - जितपद्मातनूद्भव!
॥१॥ भगवता भवभीमतरङ्गिणी - प्रणयिनस्तटमप्यतिदुस्तरम् । स मुनिसुव्रत ! सव्रतमङ्गिनां वितर सातरसारुहवारिद ! स कलहंस इवामलपक्षभाक्, श्रयतु हृत्कमलं मम सुव्रतः। मतिरमोहि न यस्य दमाऽऽदरो - त्सवलयाऽवलया वलयाऽऽढ्यया ॥१॥ अभिनवोऽभिनवो मुनितीर्थकृत् - हिमकरोऽमकरोदयनिर्गतः। समुदितो मुदितोदितमङ्गिनं, प्रकुरुतां कुरुताऽम्बुहृदन्वहम् घनरसोघघनाघतभूघना, ककमठाकमठाकमठाकृति। त्वदुपचारपरा नरपुङ्गवाः, सुविलसन्ति सुराक्षरसम्पदा
॥१॥ नभश्यामः श्यामच्छविमविरतं सुव्रतविभुं
भवव्याधिग्रस्तं त्रिजगदगदंकारचरितम् । क्षमाधारी स्फारीकृतरतिरिव श्रायससुखे
सिषेवे यं कूर्माधिपतिरतिगुप्तेन्द्रियगणः विगणितभवकारं ध्वस्तमोहान्धकारं,
कविपिकसहकारं सर्वसम्पत्तिकारम् । कृतमदननिकारं सुव्रतं निर्विकारं,
हृदि धर भविकाऽरं कृत्तकर्मप्रकारम्
॥१॥
॥१॥
॥१॥
॥१॥
छाया
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org