________________
१६४]
[प्रबुद्ध रौहिणेय नाटक प्रबन्धः वात्यावर्तित[वारािवारिधिमहावर्तातिगूढोल्लसन्मबुद्ध्यारचितप्रपञ्चपतितः कः कः क्षयं नो ययौ ? । काण्डीरप्रतिवीरविक्रमकथाकन्थाप्रथापावकं
त्यक्त्वैकं त्वमसंख्यसाहसवशप्रौढाभिमानोन्नतम् ॥२९॥ रौहिणेयः- सचिवशार्दूल !
एतन्मेऽखिलचेष्टितं यदगमनिर्वाहकोटिं परां पण्डाताण्डवशौण्ड ! यच्च भवतो बुद्धिर्न निष्ठां ययौ । शौण्डीरस्मरवीरदुर्धरशरप्रध्वंसचञ्चुर्जग
द्वन्द्यो वीरजिनः कृपैकवसतिस्तत्तत्र हेतुः परः ॥३०॥ अभयः- (सजुगुप्सं कर्णौ पिधाय) असांप्रतमसांप्रतमभिहितवानसि । यतः
किं कदाचित्तीर्थङ्करा अपि चौर्यनिष्ठां नयन्ति ? । रौहिणेयः- सामवायिक ! सत्यमदः, किन्त्वन्यः परमार्थोऽस्ति ।
भगवद्वचसैकेन दुर्लक्या लङ्घिता मया ।
सद्बुद्धे ! ते महद्बुद्धिस्तरण्डेनेव निम्नगाः ॥३१॥ अभयः- (साश्चर्य) कथं लङ्घिता मगुद्धिः ? । रौहिणेयः- श्रूयताम् । वैभारगिरिनिवासिना स्वपित्रा चौर्योपसंहृतसमस्तपरद्रव्येण
लोहखुराख्येण मुमूर्षुणाऽहं निवारितः । यदि वा मत्पुत्रोऽसि तदा
श्रीमहावीरवचः क्षणमपि न श्रोतव्यम् । सर्वेऽपि- (ससंभ्रमं) ततस्ततः ? ।। रौहिणेयः- ततः स्वपितुर्वचः प्राणितमिव परिपालयता निरन्तरं मुषितं भवत्पुरं
चिरम् । अभयः- ततस्ततः ? । रौहिणेयः- अन्यदा समवसरणं निकषाऽगमम् । ततस्तद्वाक्यमशुश्रूषुरत्यन्त
प्रयोजनतया निबिडमङ्गलीभ्यां कौँ पिधायाहं त्वरिततरं प्रस्थितः । अभयः- ततस्ततः ? ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org