SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ राजा षष्ठोऽङ्कः] [१६३ एवंविधैरपि कृतैर्विविधैरुपायै न ज्ञायते य इह बुद्धिमतां वरेण्यैः । मोक्तव्य एव नियतं स मलिम्लुचोऽपि शक्या न लवितुमहो ! खलु राजनीतिः ॥२५॥ राजा- तर्हि कथं मोक्तव्य एव ? | [अभयः-] देव ! अभयप्रदानेन यथावस्थितमापृच्छ्य मुच्यताम् । राजा- प्रतीहार ! तर्हि तस्करमस्मदन्तिकमानय । शेषपरिजनस्तु गच्छतु । (परिजनो निष्क्रान्तः ।) (प्रतीहारस्तथा करोति ।) (रौहिणेयो राजानं प्रणम्य राजपादान्तिकमुपविशति ।) (सप्रसादं) अरे ! यद्यप्युल्बणपारिपन्थिकतया हृत्वा हिरण्यं मुहुर्नीतं निर्धनतामिदं मम पुरं स्वःपू:सदृग्वैभवम् । सर्वं विष्टपचौरकुञ्जर ! तथाऽप्येतन्मया मर्षितं प्राणानामभयं च ते कथय तत्सत्यं भवांस्तस्करः ? ॥२६॥ रौहिणेयः- देव ! यथावस्थितं विज्ञपयामि ? । राजा- निःशङ्कं विज्ञपय । रौहिणेयः- युष्माकं नरनाथ ! येन नगरं लक्ष्मीविलासोल्लस लीलालास्यनिवेशपेशलजनं प्रौढप्रवृद्धयुत्सवम् । चक्रे रोरनिशान्तसोदरशिलालुण्टाकचेष्टाचणः सोऽहं लोहखुरात्मजः स्मितयशःश्रीरौहिणेयाभिधः ॥२७॥ किञ्च- निश्शेषमेतन्मुषितं पत्तनं भवतां मया । नान्वेषणीयः कोऽप्यन्यस्तस्करः पृथिवीपते ! ॥२८॥ अभयः- (सरोमाञ्चं) साधु भोः ! साहसैकनिधे ! साधु । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001461
Book TitlePrabuddha Rauhineyam
Original Sutra AuthorRambhadramuni
AuthorShilchandrasuri
PublisherJain Sahitya Academy
Publication Year2003
Total Pages206
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Literature, Drama, L000, & L040
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy