________________
भरत:
१५६]
[ प्रबुद्ध रौहिणेय नाटक प्रबन्धः (ततः प्रविशति व्यपनीतनिगड: कादम्बरीसंवृतचैतन्यः प्रशस्यदेवदूष्यः प्रसाधितप्रसाधनः शय्यातलमधिशयितो रौहिणेयः सर्वगन्धर्ववर्गपरिवृतो भरतः प्रतीहारश्च ।) (सहर्ष) प्रविष्टा एव प्रासादमध्यम् । अहो ! चारिमा प्रासादस्य। चञ्चच्चामीकरार्चिनिचयनिचुलितानन्तरत्रासपत्नस्फूर्जद्दण्डप्रणद्धध्वजपटविकटोद्वेलदग्राङ्गुलीभिः । स्नेहेनेव प्रकामं त्रिदशविसरमाकारयन्निःसमश्रीः रम्यं हयं तदेतत्कलयति सकलां सद्विमानैकलीलाम् ॥३॥ (वारविलासिनीरवलोक्य च सानन्द) अहो ! सुसदृशीं स्वर्नायिकाभूमिका गृहीतवत्यो भवत्यः । विस्पष्टहाटककिरीटविटङ्कि शीर्ष
दोर्वल्लरी वलयिता वलयावलीभिः । हारस्त्रगुद्धरपयोधरभारहारि
वक्षस्तनुः प्रतनुदैवतवस्त्रचित्रा ॥४॥ चन्द्रलेखे ! पत्रलेखासहितया भवत्या तस्करस्य दक्षिणाङ्गे स्थेयम्। ज्योतिप्रभे ! विद्युत्प्रभासहितया भवत्या तस्करस्य वामाङ्गे स्थेयम् । शृङ्गारवति ! त्वया समादिष्टनर्तकीभिः सह तस्य पुरो नृत्यं विधेयम्। (गन्धर्वकान् प्रति) अरे ! भवद्भिः संगीतकाय प्रगुणैर्भाव्यम् । यस्मिन्नवसरे लब्धचैतन्योऽयमुत्तिष्ठते ततः सर्वैरपि स्वस्वनियोगः कार्य : ।
(प्रविश्य) पुरुषः- मञ्जीरक ! सचिवः समाकारयति ।
(मञ्जीरकः पुरुषेण सह निष्कान्तः ।) (रौहिणेयः किञ्चिच्चेतनामास्थाय सहसोत्थानं नाटयति ।) सर्वेऽपि- (ससंभ्रममुच्चेःस्वर) अहो ! अद्यास्माकमनिर्वचनीया काचित्पुण्य
परिणतिः । सफलीजातश्चाद्य त्रिदशावासः । यतस्त्व
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org