________________
द्वितीयः सर्गः]
श्रीत्रिषष्टिशलाकापुरुषचरितम् । अभ्युत्तस्थौ जगन्नाथो गौरवेण स्वमातरम् । रत्नसिंहासने चोच्चैरासयित्वेत्युवाच च ॥१३९|| दिष्ट्या मातस्त्वमायासी: किमागमनकारणम् ? । आहूतोऽप्यहमायामि सद्यो युष्माकमाज्ञया ॥१४०।। उवाच त्रिशलादेवी सदने नस्त्वमागमः । अस्मत्पुण्यैर्न खल्वल्पैरनल्पोदयकारणम् ॥१४१।। भवन्तं वीक्षमाणानां न तृप्तिर्जगतामपि । त्वदर्शनमहाद्रव्यतद्धनानां किमङ्ग ! न: ? ॥१४२॥ जानीमश्च सदैवेदमस्माकमनुकम्पया । भववासविरक्तोऽपि गृहवासेऽत्र तिष्ठसि ॥१४३॥ अकार्षीर्दुष्करमिदं स्वमनोवृत्तिबाधया । एतावता न तृप्यामो वयं ते विनयालय ! ॥१४४|| वधूयुक्तं यथाऽद्य त्वां पश्यामस्त्वं तथा कुरु । राजपुत्री यशोदाख्यां समायातां समुद्वह ॥१४५।। उत्कण्ठितस्ते पितापि त्वद्विवाहोत्सवेक्षणे । कुरुष्व दुष्करमदोऽप्यावयोरुपरोधतः ॥१४६।। पाभगवानप्यथो दध्यौ किमापतितमद्य मे ? । साग्रहेयमितो माता भवभ्रमणभीरितः ॥१४७|| गर्भेऽपि संवृताङ्गोऽस्थां मातृदुःखाभिशङ्कया । स्थास्यामि गृहवासेऽपि तन्मनोवृत्तिबाधया ॥१४८।। कर्म भोगफलं चास्ति मान्यौ च पितरौ मम । एवं विचिन्त्य भगवांस्तन्मेने मातृशासनम् ॥१४९।। गत्वा च त्रिशलादेवी स्वयं सिद्धार्थभूभुजे । विवाहानुमतिं सूनोराचचक्षे प्रमोदभाक् ॥१५०।। पुण्येऽहनि महीनाथो जन्मोत्सवसमोत्सवम् । विवाहं कारयामास महावीर-यशोदयोः ॥१५१।। त्रिशला-सिद्धार्थराजौ तत्पश्यन्तौ वधूवरम् । धन्यंमन्यौ मुमुदाते पीतामृतरसाविव ॥१५२।। पासमं यशोदया देव्या स्वामी वैषयिकं सुखम् । अनासक्तोऽनुबभूव पित्रोर्नेत्रनिशाकरः ॥१५३।। कालेन गच्छता भर्तुर्यशोदायामजायत । नामतो रूपतश्चापि दुहिता प्रियदर्शना ||१५४|| महाकुलो राजपुत्रो महद्धिर्नवयौवनः । जमालिः परिणिनायोद्यौवनां प्रियदर्शनाम् ॥१५५॥ प[अष्टाविंशे जन्मतोऽब्दे स्वामिनः पितरावथ । विहितानशनौ मृत्वा जग्मतुः कल्पमच्युतम् ॥१५६।। सिद्धार्थराज-त्रिशलाजीवावच्युततश्च्युतौ । क्षेत्रेऽपरविदेहाख्ये प्राप्स्यतः पदमव्ययम् ॥१५७|| पापित्रोः कृतेऽङ्गसंस्कारे तत्राऽतीते च वासरे । सान्तःपुरं शोकमग्नं स्वाम्यूचे नन्दिवर्धनम् ॥१५८|| सदा सन्निहितो मृत्युर्जीवितं नश्वरं सदा । उपस्थिते वास्तवेऽस्मिन्न हि शोकः प्रतिक्रिया ॥१५९।। धैर्यालम्बनपूर्वं च धर्मानुष्ठानमेव हि । युज्यते न तु शोकादि भ्रातः ! कापुरुषोचितम् ॥१६०।। स्वामिना बोधितश्चैवं स्वस्थोऽभून्नन्दिवर्धनः । पित्र्यं राज्यमलङ्कर्तुं सोऽभ्यर्थयत च प्रभुम् ॥१६१।। पित्र्यं राज्यं यदा वीरो भवोद्विग्नो न शिश्रिये । राजा चक्रे तदाऽमात्यैः साग्रहैनन्दिवर्धनः ॥१६२।। चिरेप्सितपरिव्रज्याग्रहणायाथ सादर: । आपप्रच्छे महावीरो भ्रातरं नन्दिवर्धनम् ॥१६३|| शोकस्खलितवाग्नन्दिवर्धनोऽप्यभ्यधादिति । अद्यापि पितरौ भ्रातर्गच्छतो विस्मृतिं न हि ॥१६४|| सर्वोऽप्यहमिवाऽद्यापि स्वजनः शोकपूरितः । क्षते क्षारं निक्षिपसि स्ववियोगेन किं मयि ? ॥१६५।। एवं च ज्यायसो भ्रातुः सशोकस्योपरोधतः । जगत्पतिर्भावयतिरलङ्कारैरलङ्कृतः ॥१६६।। कायोत्सर्गधरो नित्यं ब्रह्मचर्यपरायणः । स्नानाङ्गरागरहितो विशुद्धध्यानतत्परः ॥१६७।।
१. त्वद्दर्शनमेव महद् द्रव्यं तदेव धनं येषां तेषाम् । २. यथा हि खं. १ । ३. स्वमनो० खं. १-३-४ । तस्या मनोवृत्तेबर्बाधामाशक्य । ४. भूयः सि० खं. १ । ५. शुभे० खं. १ । ६. ०सक्तोऽपि बुभुजे खं. ४ । ७. वासरे० मु. । ८. सोऽभ्यार्थ० खं. ३-४। ९. सर्वोऽप्येष तवा० खं. ४ ।।