________________
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं
[ दशमं पर्व
शुशुभे भगवांस्तत्र मेरुशृङ्ग इवाऽर्यमा । लम्बमाना बभुः शाखास्वन्ये शाखमृगा इव ॥११०॥ जिग्ये भगवता तत्र कृतश्चाऽऽसीदयं पर्णः । जयेद्य इह स ह्यन्यान् पृष्ठमारुह्य वाहयेत् ॥१११॥ आरुह्याऽवाहयद्वहानिव वीरः कुमारकान् । आरुरोह सुरस्यापि पृष्ठं प्रष्ठो महौजसाम् ॥११२॥ ततः करालं वेतालरूपमाधाय दुष्टधीः । भूधरानप्यधरयन् प्रारब्धो वर्धितुं सुरः ॥११३॥ पातालकल्पे तस्याऽऽस्ये जिह्वया तक्षकायितम् । पिङ्गैस्तुङ्गे शिरः शैले केशैर्दावानलायितम् ॥११४॥ तस्याऽतिदारुणे दंष्ट्रे अभूतां क्रकचाकृती । जाज्वल्यमाने अङ्गारशकट्याविव लोचने ॥११५॥ घोणारन्ध्रे महाघोरे महीधरगुहे इव । भृकुटीभङ्गुरे भीमे महोरग्याविव भ्रुवौ ॥११६॥ स व्यरंसीद्वर्धनान्न यावत्तावन्महौजसा । आहत्य मुष्टिना पृष्ठे स्वामिना वामनीकृतः ॥११७॥ एवं च भगवद्धैर्यं साक्षात्कृ त्येन्द्रवर्णितम् । प्रभुं नत्वाऽऽत्मरूपेण निजं धाम जगाम सः ॥११८॥ q[पित्रा साग्राष्टवर्षस्याऽऽरब्धेऽथाऽध्यापने प्रभोः । सिंहासनं क्षणेनाऽपि कम्पते स्म बिडौजसः ॥११९॥ अवधिज्ञानतो ज्ञात्वा पित्रोरार्जवमद्भुतम् । आः सर्वज्ञस्य शिष्यत्वमितीन्द्रस्तमुपास्थित ॥ १२० ॥ उपाध्यायासने तस्मिन् वासवेनोपवेशितः । प्रणम्य प्रार्थितः स्वामी शब्दपारायणं जगौ ॥१२१॥ इदं भगवतेन्द्राय प्रोक्तं शब्दानुशासनम् । उपाध्यायेन तच्छ्रुत्वा लोकेष्वैन्द्रमितीरितम् ॥१२२॥ सप्तहस्तोच्छ्रितवपुः क्रमात् प्राप च यौवनम् । वनद्विप इव स्वामी लीलागमनभूषणः ॥ १२३॥ रूपं जगत्त्रयोत्कृष्टं प्रभुत्वं त्रिजगत्यपि । यौवनं च नवं भर्तुर्विकारोऽभूत्तथापि न ॥ १२४॥ [राजा समरवीरोऽथ यशोदां कन्यकां निजाम् । प्रदातुं वर्धमानाय प्राहिणोन्मन्त्रिभिः सह ॥ १२५ ॥ ते मन्त्रिणोऽथ सिद्धार्थं नत्वोचुर्नः क्षमापतिः । प्रदातुं वर्धमानाय यशोदां प्राहिणोत् सुताम् ॥ १२६॥ अग्रेऽपि भवतो भृत्योऽस्मत्स्वामी स विशेषतः । सम्बन्धेनाऽमुना भूयात् प्रसीदाऽनुगृहाण नः ॥१२७॥ ऊचे सिद्धार्थराजोऽपि त्रिशलाया ममापि च । मनोरथो भृशमस्ति कुमारोद्वाहलक्षणः ॥१२८॥ परं कुमारः संसारविरक्तो जन्मतोऽपि हि । न शक्यते वक्तुमपि विवाहादिप्रयोजने ॥१२९॥ तथापि ह्युपरोधाद्वस्तत्तद्वचनभङ्गिभिः । ब्रूमस्तन्मित्रर्मुखेन विवाहायाऽद्य नन्दनम् ॥१३०॥ इत्युक्त्वा त्रिशलादेवीमापृच्छ्य च महीपतिः । प्रैषीदुपवर्धमानं तद्वयस्यान् महामतीन् ॥१३१॥ तेऽपि गत्वा सविनयं नमस्कृत्याऽऽचचक्षिरे । वर्धमानकुमाराय सिद्धार्थनृपशासनम् ॥१३२॥ भगवानप्युनवाचैवं यूयं मदनुगा अपि । मम भावं नैं जानीथ गृहवासपराङ्मुखम् ॥१३३॥ तेऽप्यूचुस्त्वां भवोद्विग्नं मन्महे सर्वदापि हि । आज्ञा पित्रोरलङ्घ्या ते विद्मः परमदोऽपि च ॥ १३५ ॥ किं च नः प्रणययाञ्चां कदाचिन्नाऽवमन्यसे । कथमेकपदे सर्वानस्मानद्याऽवमन्यसे ? ॥१३५॥ अथो बभाषे भगवान् मूढाः ! को वोऽयमादरः ? । परिग्रहो हि दारादेर्भवभ्रमणकारणम् ॥१३६॥ मा स्म भूज्जीवतोर्दुःखं मत्पित्रोर्मद्वियोगजम् । इति हेतोर्नाऽधुनैव प्रव्रजाम्युत्सुकोऽपि हि ॥१३७॥ एवं प्रभौ भाषमाणे विवाहाय नृपाज्ञया । स्वामिनी त्रिशलादेवी स्वयं तत्र समाययौ ॥१३८॥
१६
१. वानराः । २. प्रतिज्ञा, नियमो वा । ३. अश्वानिव । ४. तक्षको नागराजः, तद्वदाचरितम् । ५. पिङ्गाः केशा दावानलसमाः । ६. करपत्र(करवत)समे । ७. नासिकारन्ध्रे । ८. साष्टाग्र० खं. ४ । ९ इन्द्रस्य । १०. ०मुपास्थितः नूतनमुद्रिते । ११. व्याकरणम् । १२. ० मुखेण खं. १-३-४ । १३. इति मु. । १४. तु मु. ।