________________
द्वितीयः सर्गः]
श्रीत्रिषष्टिशलाकापुरुषचरितम् । नमः सर्वजनीनाय सर्वार्थ्यायाऽमृताय च । उदितब्रह्मचर्यायाऽऽप्ताय पारंगताय ते ॥८३।। नमस्ते दक्षिणीयाय निर्विकाराय तायिने । वज्रऋषभनाराचवपुषे तत्त्वदृश्वने ॥८४|| नमः कालत्रयज्ञाय जिनेन्द्राय स्वयम्भुवे । ज्ञान-बल-वीर्य-तेजः-शक्त्यैश्वर्यमयाय ते ॥८५।। आदिपुंसे नमस्तुभ्यं नमस्ते परमेष्ठिने । नमस्तुभ्यं महेशाय ज्योतिस्तत्त्वाय ते नमः ॥८६।। तुभ्यं सिद्धार्थराजेन्द्रकुलक्षीरोदधीन्दवे । महावीराय धीराय त्रिजगत्स्वामिने नमः ॥८७॥ पाइति स्तुत्वा गृहीत्वेशं मातुः पार्श्वे निधाय च । संहृत्य तत्प्रतिच्छन्दमपस्वापनिकामपि ॥८८|| निधायोच्छीर्षके क्षौमं कुण्डले चोपरि प्रभोः । श्रीदामगण्डकं शक्रः कृत्वा चाऽगात् स्वमाश्रयम् ॥८९।।
(युग्मम्) तदेन्द्रादिष्टधनदप्रेरिता जृम्भकामराः । ववृषुः स्वर्णमाणिक्यवसुधारा नृपौकसि ॥९०॥ पाकाराभ्योऽमोचयज्जन्तून् सूनोर्जन्मोत्सवे नृपः । अर्हज्जन्म हि मोक्षाय भवभाजां भवादपि ॥९१।। तृतीये दिवसे सूनोश्चन्द्र-मार्तण्डबिम्बयोः । दर्शनं पितरौ प्रीतौ कारयामासतुः स्वयम् ॥९२।। षष्ठेऽहन्यविधवाभिः कलमङ्गलगीतिभिः । सकुङ्कमाङ्गरागाभिरनल्पाकल्पचारुभिः ॥९३।। कण्ठालम्बितमाल्याभिः कुलस्त्रीभिरनेकशः । राजा राज्ञी चाऽकृषातां रात्रिजागरणोत्सवम् ॥९४॥ (युग्मम्) सिद्धार्थ-त्रिशलादेव्यौ प्राप्त एकादशे दिने । निर्वतयामासतुश्च जातकर्ममहोत्सवम् ॥९५।। दिने तु द्वादशे राजा सिद्धार्थः सिद्धवाञ्छितः । आजूहवत् समस्तान्स्वाञाति-सम्बन्धिं-बान्धवान् ॥९६।। मङ्गलोपायनकरान् सच्चक्रे तान् महीपतिः । यथोचितप्रतिदानव्यवहारपरो हि सः ॥९७|| सिद्धार्थस्तानुवाचैवं गर्भस्थेऽस्मिन् सुते मम । गृहे पुरे मण्डले च व्यवर्धिष्ट धनादिकम् ॥९८|| वर्धमान इत्यभिख्या सूनोरस्य तदस्तु भोः ! । प्रत्यभाषि प्रमुदितैरेवमस्त्विति तैरपि ॥९९॥ (युग्मम्) महोपसगैरप्येष न कम्प्य इति वज्रिणा । महावीर इत्यपरं नाम चक्रे जगत्पतेः ॥१००|| सोऽहपूर्विकया भक्तै : सेव्यमानः सुरासुरैः । दृशा पीयूषवर्षिण्या सिञ्चन्निव वसुन्धराम् ॥१०१॥
अष्टोत्तरसहस्रेण लक्षणैरुपलक्षितः । निसर्गेण गुणैर्वृद्धो वयसा ववृधे क्रमात् ॥१०२।। पाराजपुत्रैः सवयोभिः समं न्यूनाष्टवत्सरः । वयोऽनुरूपक्रीडाभिः सोऽन्यदा क्रीडितुं ययौ ॥१०३।। तदा ज्ञात्वाऽवधिज्ञानान्मध्येसुरसभं हरिः । वीरा अनुमहावीरमिति वीरमवर्णयत् ॥१०४।। क्षोभयिष्यामि तं वीरमेषोऽहमिति मत्सरी । आजगामाऽमरः कोऽपि यत्र क्रीडन्नभूद्विभुः ॥१०५।। कुर्वत्यामलकी क्रीडां राजपुत्रैः सह प्रभौ । सोऽधस्तस्थौ विटपिनो भुजगीभूय मायया ॥१०६।। तत्कालं राजपुत्रेषु वित्रस्तेषु दिशो दिशि । स्मित्वा रज्जुमिवोत्क्षिप्य तं चिक्षेप क्षितौ विभुः ॥१०७|| सव्रीडाः क्रीडितुं तत्र कुमाराः पुनराययुः । कुमारीभूय सोऽप्यागात् सर्वेऽप्यारुरुहुस्तरुम् ॥१०८।। पादपाग्रं कुमारेभ्यः प्राप प्रथमतः प्रभुः । यद्वा कियदिदं तस्य यो लोकाग्रं गमिष्यति ॥१०९।।
१. सर्वार्था० खं. २-३-४, मु. । २. ०याऽगदाय खं. १ । ३. पारं० खं. २, मु. । ४. ०मवस्वा० खं. २, मु. । ५. चाकृषतां खं. १-२ । ६. निवर्तया० खं. ३-४ विना । ७. ०सम्बन्ध० मु. । ८. माङ्गल्यो० मु. । मङ्गल्यो० खं. १-२ । ९. ०रप्येवं खं. २। १०. धीरा० खं. ३-४, मु. । ११. ०मलकीक्रीडां खं. १-२-३ । १२. सोऽपि तस्थौ खं. १-२ । सोऽथ तस्थौ खं. ३ । १३. स देवः ।