________________
१४
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं
[दशमं पर्व अर्हन्तमर्हदम्बां च दूरतोऽपि प्रणम्य सः । उपसृत्याऽऽगतो देव्याश्चाऽपस्वापनिकां ददौ ॥५४|| देव्याः पार्श्वे च भगवत्प्रतिरूपं निधाय सः । विचक्रे पञ्चधाऽऽत्मानमतप्तो भक्तिकर्मणि ॥५५।। एकः शक्रः स्वपाणिभ्यां भगवन्तमुपाददे । उपरि स्वामिनश्छत्रं द्वैतीयीकस्त्वधारयत् ।।५६।। स्वामिनः पार्श्वयोर्की तु बिभ्रतुश्चारुचामरे । वज्रमुल्लालयन्नन्यो नृत्यंश्च पुरतो ययौ ॥५७॥ गत्वा मेरावतिपाण्डुकम्बलामासदच्छिलाम् । तत्र सिंहासनं भेजे शक्रोऽङ्कारोपितप्रभुः ॥५८|| तदा स्नपयितुं नाथं त्रिषष्टिरपरेऽपि हि । एयुरिन्द्रा आभियोग्यैस्तीर्थाऽऽनायितवारयः ॥५९|| पाइयन्तं वारिसम्भारं कथं स्वामी सहिष्यते ?! इत्याशशङ्के शक्रेण भक्तिकोमलचेतसा ॥६०।। तदाशङ्कानिरासाय लीलया परमेश्वरः । मेस्शैलं वामपादाऽङ्गुष्ठाग्रेण न्यपीडयत् ॥६१॥ शिरांसि मेरोरनमन्नमस्कर्तुमिव प्रभुम् । तदन्तिकमिवाऽऽयातुमचलंश्च कुलाचलाः ॥६२।। अतुच्छमुच्छलन्ति स्म स्नात्रं कर्तुमिवाऽर्णवाः । विवेपे सत्वरं तत्र नर्तनाभिमुखेव भूः ॥६३॥ किमेतदिति संचिन्त्याऽवधिज्ञानप्रयोगतः । लीलायितं भगवतो विदाञ्चक्रे बिडौजसा ॥६४|| स्वामिन्ननन्यसामान्यं सामान्यो मादृशो जनः । विदाङ्करोतु माहात्म्यं कथङ्कारं तवेदृशम् ! ॥६५॥ तन्मिथ्यादुष्कृतं भूयाच्चिन्तितं यन्मयाऽन्यथा । इतीन्द्रेण ब्रुवाणेन प्रणेमे परमेश्वरः ॥६६॥ पासानन्दं वादितातोद्यं चक्रे भर्तुः सुरेश्वरैः । तीर्थगन्धोदकैः पुण्यैरभिषेकमहोत्सवः ॥६७||
अभिषेकजलं तत्तु सुरासुरनरोरगाः । ववन्दिरे मुहुः सर्वाङ्गीणं च परिचिक्षिपुः ॥६८।। प्रभुस्नात्रजलालीढा वन्दनीया मृदप्यभूत् । गुरूणां किल संसर्गाद् गौरवं स्याल्लघोरपि ॥६९॥ निवेश्येशाननाथाङ्के सौधर्मेन्द्रोऽप्यथ प्रभुम् । स्नपयित्वाऽर्चयित्वाथ कृत्वाऽऽरात्रिकमस्तवीत् ॥७०|| पानमोऽर्हते भगवते स्वयंबुद्धाय वेधसे । तीर्थङ्करायाऽऽदिकृते पुरुषेषूत्तमाय ते ॥७१।। नमो लोकप्रदीपाय लोकप्रद्योतकारिणे । लोकोत्तमाय लोकाधीशाय लोकहिताय ते ॥७२।। नमस्ते पुरुषवरपुण्डरीकाय शम्भवे । पुरुषसिंहाय पुरुषैकगन्धद्विपाय ते ॥७३।। चक्षुर्दायाऽभयदाय बोधिदायाऽध्वदायिने । धर्मदाय धर्मदेष्ट्रे नमः शरणदाय ते ॥७४॥ धर्मसारथये धर्मनेत्रे धर्मैकचक्रिणे । व्यावृत्तच्छद्मने सम्यग्ज्ञानदर्शनधारिणे ॥७५।। जिनाय ते जापकाय तीर्णाय तारकाय च । विमुक्ताय मोचकाय नमो बुद्धाय बोधिने ॥७६।। सर्वज्ञाय नमस्तुभ्यं स्वामिने सर्वदर्शिने । सर्वातिशयपात्राय कर्माष्टकनिसूदिने ॥७७|| तुभ्यं क्षेत्राय पात्राय तीर्थाय परमात्मने । स्याद्वादवादिने वीतरागाय मुनये नमः ॥७८।। पूज्यानामपि पूज्याय महद्भ्योऽपि महीयसे । आचार्याणामाचार्याय ज्येष्ठानां ज्यायसे नमः ॥७९॥ नमो विश्वभुवे तुभ्यं योगिनाथाय योगिने । पावनाय पवित्रायाऽनुत्तरायोत्तराय च ॥८०|| संप्रक्षालनाय योगाचार्याय प्रवराय च । अग्राय वाचस्पतये मङ्गल्याय नमोऽस्तुते ॥८१।।
तम:परस्तांदुदितायैकवीराय भास्वते । ॐ भूर्भुवःस्वरितिवास्तवनीयाय ते नमः ॥८२॥ १. ०श्चावस्वा० मु.। २. चकम्पे । ३. शरणदायिने खं. २-३, मु. । ४. निषूदिने मु. । निसूदने खं. ३-४ । ५. विश्वम्भुवे खं. २, मु. । ६. माङ्गल्याय खं. २, मु. । ७. नमः० खं. १-२, मु. । ८. ०स्तादहिता० खं. ३ ।