________________
द्वितीयः सर्गः]
श्रीत्रिषष्टिशलाकापुरुषचरितम् । उत्थाय वक्ष आघ्नाना नि:स्थामा ज्वरजर्जरा । केनाऽपि जहे मे गर्भ इति चुक्रोश सा चिरम् ॥२८॥ कृष्णाश्विनत्रयोदश्यां चन्द्रे हस्तोत्तरास्थिते । स देवस्त्रिशलागर्भे स्वामिनं निभृतं न्यधात् ॥२९॥ पागजो वृषो हरिः साभिषेकश्रीः स्रक् शशी रविः । महाध्वजः पूर्णकुम्भः पद्मसरः सरित्पतिः ॥३०॥ विमानं रत्नपुञ्जश्च निघूमोऽग्निरिति क्रमात् । ददर्श स्वामिनी स्वप्नान् मुखे प्रविशतस्तदा ॥३१॥ इन्द्रैः पत्या च तज्ज्ञैश्च तीर्थकृज्जन्मलक्षणे । उदीरिते स्वप्नफले त्रिशला देव्यमोदत ॥३२॥ दधार त्रिशलादेवी मुदिता गर्भमद्भुतम् । अप्रमत्तं विहरन्ती लीलासद भूष्वपि ॥३३॥ पागर्भस्थेऽथ प्रभौ शक्राऽऽज्ञया जृम्भकनाकिनः । भूयो भूयो निधानानि न्यधुः सिद्धार्थवेश्मनि ॥३४|| सर्वं ज्ञातकुलं भूरिधनधान्यादिऋद्धिभिः । गर्भावतीर्णभगवत्प्रभावाद्ववृधेतराम् ॥३५॥ सिद्धार्थस्यापि नृपतेर्दादप्रणताः पुरा । प्रणेमुर्भूभुजोऽभ्येत्य स्वयं प्राभृतपाणयः ॥३६।। पामयि प्रस्पन्दमानेऽत्र मातुर्मा वेदना स्म भूत् । इत्यस्थानिभृतः स्वामी गर्भवासेऽपि योगिवत् ॥३७॥ स्वामी संवृतसर्वाङ्गव्यापारोऽस्थात्तथोदरे । नाऽलक्ष्यत यथा मात्राऽप्यन्तस्तिष्ठति वा न वा ॥३८॥ तदा च त्रिशला दध्यौ किं गर्भो गलितो मम ?। केनाप्यपहृतः किं वा विनष्ट: स्तम्भितोऽथवा ? ॥३९॥ यद्येतदपि सञ्जातं तदलं जीवितेन मे । सह्यं हि मृत्युजं दुःखं गर्भभ्रंशभवं न तु ॥४०॥ इत्यार्त्तध्यानभाग्देवी रुदती लुलितालका । त्यक्ताङ्गरागा हस्ताब्जविन्यस्तमुखपङ्कजा ॥४१।। त्यक्ताभरणसम्भारा निःश्वासविधुराधरा । सखीष्वपि हि तूष्णीका नाऽशेत बुभुजे न च ॥४२॥ तत्तु विज्ञाय सिद्धार्थमहीपतिरखिद्यत । तत्पुत्रभाण्डे च नन्दिवर्धनोऽथ सुदर्शना ॥४३|| पित्रोविज्ञाय तद् दु:खं ज्ञानत्रयधरः प्रभुः । अङ्गुलिं सारयामास गर्भज्ञापनहेतवे ॥४४||
मद्गर्भोऽक्षत एवेति ज्ञात्वा स्वामिन्यमोदत । अमोदयच्च सिद्धार्थं गर्भस्पन्दनशंसनात् ॥४५॥ पाअचिन्तयच्च भगवान् मय्यदृष्टेऽपि कोऽप्यहो ! । मातापित्रोर्महान् स्नेहो जीवतोरनयोर्यदि ॥४६।। प्रव्रजिष्याम्यहं स्नेहमोहादेतौ तदा ध्रुवम् । आर्तध्यानगतौ कर्माऽशुभं बह्वर्जयिष्यतः ॥४७॥ (युग्मम्) अथैवं सप्तमे मासि जग्राहाऽभिग्रहं प्रभुः । “उपादास्ये परिव्रज्यां न पित्रोर्जीवतोरहम्" ॥४८॥ [अथ दिक्षु प्रसन्नासु स्वोच्चस्थेषु ग्रहेषु च । प्रदक्षिणेऽनुकूले च भूमिसर्पिणि मारुते ॥४९॥ प्रमोदपूर्णे जगति शकुनेषु जयिष्वलम् । अर्धाष्टमदिनाग्रेषु मासेषु नवसूच्चकैः ॥५०॥ चैत्रशुक्लत्रयोदश्यां चन्द्रे हस्तोत्तरागते । सिंहाङ्कं काञ्चनरुचि स्वामिनी सुषुवे सुतम् ॥५१॥
॥ त्रिभिविशेषकम् ॥ पाषट्पञ्चाशद्दिक्कुमार्योऽभ्येत्य भोगङ्करादयः । स्वामिनः स्वामिमातुश्च सूतिकर्माणि चक्रिरे ॥५२॥ शक्रोऽप्यासनकम्पेन तत्कालं सपरिच्छदः । विज्ञाय स्वामिनो जन्म सूतिकागृहमाययौ ॥५३॥
१. विनयसहितं यथा स्यात् तथा । २. प्राविशत० खं. १-२ । ३. "सिद्धार्थेन स्वप्नपाठकैश्च" इति खं. ४ टि. । ४. देव्यमोदयत् खं. १-२ । ५. विहरती खं. १-२ । ६. क्रीडागृहभूमिषु । ७. 'जृम्भक' संज्ञा देवाः कुबेरस्य वशवर्तिनः । ८. निलीनः, 'निश्चलः' खं. ४ टि. । ९. तस्य पुत्रः भाण्डं च पुत्रभाण्डे । 'भाण्ड' शब्द: 'भांडरडां' इति भाषायां प्रयुज्यमानो दृश्यते । अत्र तु स 'पुत्री' वाचकतया गृहीतो दृश्यते । १०. चालयामास खं. ३-४, मु. । ११. ०न्यमोदयत् खं. १-२ । १२. मातृपित्रो० खं. ४ । १३. ०मोहाहतौ खं. १-२ । १४. शुक्लचैत्र० मु. । १५. सुवर्णवर्णदेहम् । १६. 'छप्पन दिशाकुमरी' खं. ४ टि. ।