________________
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं
[दशमं पर्व ॥ अथ द्वितीयः सर्गः ॥ पाइतश्च जम्बूद्वीपेऽस्मिन् क्षेत्रेऽस्ति भरताभिधे । ब्राह्मणकुण्डग्रामाख्यः संनिवेशो द्विजन्मनाम् ॥१॥ तत्र चर्षभदत्तोऽभूत् कोडालसकुलो द्विजः । देवानन्दा च तद्भार्या जालन्धरकुलोद्भवा ॥२॥ च्युत्वा च नन्दनो हस्तोत्तरक्षस्थे निशाकरे । आषाढस्य श्वेतषष्ठ्यां तस्याः कुक्षाववातरत् ॥३॥ देवानन्दा सुखसुप्ता महास्वप्नांश्चतुर्दश । ददर्श प्रातराख्यत् स्वपत्ये सोऽपि व्यचारयत् ॥४|| चतुर्णां छन्दसां पारदृश्वा परमनैष्ठिकः । सूनुर्भवत्या भविता स्वप्नैरेभिर्न संशयः ॥५॥ देवानन्दागर्भगते प्रभौ तस्य द्विजन्मनः । बभूव महती ऋद्धि: कल्पद्रुम इवाऽऽगते |६|| पातस्या गर्भस्थिते नाथे द्वयशीतिदिवसात्यये । सौधर्मकल्पाधिपतेः सिंहासनमकम्पत ॥७॥
ज्ञात्वा चाऽवधिना देवानन्दागर्भगतं प्रभुम् । सिंहासनात् समुत्थाय शक्रो नत्वेत्यचिन्तयत् ॥८॥ पात्रिजगद्गुरवोऽर्हन्तो नोत्पद्यन्ते कदाचन । तुच्छकुले रोस्कुले भिक्षावृत्तिकुलेऽपि वा ॥९।। इक्ष्वाकुवंशप्रभृतिक्षत्रवंशेषु किं त्वमी । जायन्ते पुरुषसिंहा मुक्ताः शुक्त्यादिकेष्विव ॥१०॥ तदसङ्गतमापन्नं जन्म नीचकुले प्रभोः । प्राच्यं कर्माऽन्यथा कर्तुं यद्वाऽर्हन्तोऽपि नेशते ॥११॥ मरीचिजन्मनि कुलमदं नाथेन कुर्वता । अजितं नीचकैर्गोत्रकर्माऽद्यापि युपस्थितम् ॥१२॥ कर्मवशान्नीचकुलेषूत्पन्नानर्हतोऽन्यतः । क्षेप्तुं महाकुलेऽस्माकमधिकारोऽस्ति सर्वदा ॥१३|| कोऽधुनाऽस्ति महावंश्यो राजा राज्ञी च भारते । यत्र संचार्यते स्वामी कुन्दाद् भृङ्ग इवाऽम्बुजे ? ॥१४|| ज्ञातमस्तीह भरते महीमण्डलमण्डनम् । क्षत्रियकुण्डग्रामाख्यं पुरं मत्पुरसोदरम् ॥१५॥ स्थानं विविधचैत्यानां धर्मस्यैकं निबन्धनम् । अन्यायैरपरिस्पृष्टं पवित्रं तच्च साधुभिः ॥१६॥ मृगया-मद्यपानादिव्यसनाऽस्पृष्टनागरम् । तदेव भरतक्षेत्रपावनं तीर्थवद् भुवः ॥१७॥ तत्रैवाको ज्ञातवंश्य: सिद्धार्थोऽस्ति महीपतिः । धर्मेणैव हि सिद्धार्थं सदाऽऽत्मानममंस्त यः ॥१८॥ जीवाजीवादितत्त्वज्ञो न्यायवर्त्ममहाध्वगः । प्रजाः पथि स्थापयिता हितकामी पितेव सः ॥१९॥ दीनानाथादिलोकानां समुद्धरणबान्धवः । शरण्यः शरणेच्छूनां स क्षत्रियशिरोमणिः ॥२०॥ तस्यास्ति त्रिशला नाम सतीजनमतल्लिका । पुण्यभूरग्रमहिषी महनीयगुणाकृतिः ॥२१॥ निसर्गतो निर्मलया तत्तद्गुणतरङ्गया । तया पवित्र्यते धात्री मन्दाकिन्येव संप्रति ॥२२॥ मायया स्त्रीजन्मसहचारिण्याऽप्यकलङ्किता । सा निसर्गऋजुर्देवी सुगृहीताभिधा भुवि ॥२३।। सा चाऽस्ति साम्प्रतं गुर्वी कार्यः संचारणाद् द्रुतम् । तस्या देवानन्दायाश्च गर्भयोर्व्यत्ययो मया ॥२४॥ पाविमृश्यैवं शतमख: समाहूय झगित्यपि । आदिदेश तथा कर्तुं सेनान्यं नैगमेषिणम् ॥२५॥ विदधे नैगमेषी च तथैव स्वामिशासनम् । देवानन्दा-त्रिशलयोर्गर्भव्यत्ययलक्षणम् ॥२६।। देवानन्दा ब्राह्मणी सा शयिता पूर्ववीक्षितान् । मुखान्निःसरतोऽद्राक्षीन्महास्वप्नांश्चतुर्दश ॥२७॥
१. ०ग्रामाख्यस० मु. । २. द्विजात्मनाम् खं. १ । ३. कौडाल० मु. । ४. ०राख्यच्च पत्ये खं. ३-४, मु. । ५. दीनो रोरः । ६. प्राज्यं मु. । ७. इन्द्रस्य पुरं-अलका, तत्समानम् । ८. मतल्लिका श्रेष्ठा । ९. "अनृतं साहसं माया मूर्खत्वमतिलोभता । अशौचं निर्दयत्वं च स्त्रीणां दोषाः स्वभावजाः ॥" खं. ४ टि. । १०. "स्वभावसरला" खं. ४ टि. । ११. इन्द्रः ।