________________
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं
[दशमं पर्व क्रोधो मानो माया लोभो रागो द्वेषः कलिस्तथा । पैशून्यं परनिर्वादोऽभ्याख्यानमपरं च यत् ॥२४०।। चारित्राचारविषयं दुष्टमाचरितं मया । तदहं त्रिविधेनापि व्युत्सृजामि समन्ततः ॥२४१।। यस्तप:स्वतिचारोऽभूद् बाह्येष्वाभ्यन्तरेषु च । त्रिविधं त्रिविधेनापि निन्दामि तमहं खलु ॥२४२॥ धर्मानुष्ठानविषये यद्वीर्यं गोपितं मया । वीर्याचारातिचारं च निन्दामि तमपि त्रिधा ॥२४३।। हतो दुरुक्तश्च मया यो यस्याऽहारि किञ्चन । यस्याऽपाकारि किञ्चिद्वा मम क्षाम्यतु सोऽखिलः ॥२४४॥ यश्च मित्रममित्रो वा स्वजनोऽरिजनोऽपि वा । सर्वः क्षम्यतु मे सर्वं सर्वेष्वपि समोऽस्म्यहम् ॥२४५।। तिर्यक्त्वे सति तिर्यञ्चो नारकत्वे च नारकाः । अमरा अमरत्वे च मानुषत्वे च मानुषाः ॥२४६।। ये मया स्थापिता दुःखे सर्वे क्षाम्यन्तु ते मम । क्षाम्याम्यहमपि तेषां मैत्री सर्वेषु मे खलु ॥२४७।। जीवितं यौवनं लक्ष्मीः रूपं प्रियसमागमः । चलं सर्वमिदं वात्यानतिताब्धितरङ्गवत् ॥२४८॥ व्याधि-जन्म-जरा-मृत्युग्रस्तानां प्राणिनामिह । विना जिनोदितं धर्मं शरणं कोऽपि नाऽपरः ॥२४९।। सर्वेऽपि जीवाः स्वजना जाताः परजनाश्च ते । विदधीत प्रतिबन्धं तेषु को हि मनागपि ? ॥२५०|| एक उत्पद्यते जन्तुरेक एक विपद्यते । सुखान्यनुभवत्येको दु:खान्यपि स एव हि ॥२५१।। अन्यद् वपुरिदं तावदन्यद्धान्यधनादिकम् । विभवोऽन्योऽन्यश्च जीवो वृथा मुह्यति बालिशः ॥२५२॥ वसा-रुधिर-मांसाऽस्थि-यकृ-द्विण्मूत्रपूरिते । वपुष्यशुचिनिलये मूर्छा कुर्वीत कः सुधी: ? ||२५३।। अवक्रयात्तवेश्मेव मोक्तव्यमचिरादपि । लालितं पालितं चाऽपि विनश्वरमिदं वपुः ॥२५४|| धीरेण कातरेणापि मर्तव्यं खलु देहिना । तन्नियेत तथा धीमान्न म्रियेत यथा पुनः ॥२५५।। अर्हन्तो मम शरणं शरणं सिद्ध-साधवः । उदीरितः केवलिभिर्धर्मः शरणमुच्चकैः ॥२५६।। जिनधर्मो मम माता गुरुस्तातोऽथ सोदराः । साधवः साधर्मिकाश्च बन्धवोऽन्यत्तु जालवत् ॥२५७।। ऋषभादींस्तीर्थकरान्नमस्याम्यखिलानपि । भरतैरवतविदेहार्हतोऽपि नमाम्यहम् ॥२५८।। तीर्थकृद्भयो नमस्कारो देहभाजां भवच्छिदे । भवति क्रियमाणः सन् बोधिलाभाय चोच्चकैः ॥२५९।। सिद्धेभ्यश्च नमस्कारं भगवद्भयः करोम्यहम् । कमैंधोऽदाहि यैानाग्निना भवसहस्रजम् ॥२६०।। आचार्येभ्यः पञ्चविधाचारेभ्यश्च नमो नमः । यैर्धार्यते प्रवचनं भवच्छेदसदोद्यतैः ॥२६१॥ श्रुतं बिभ्रति ये सर्वं शिष्येभ्यो व्याहरन्ति च । नमस्येभ्यो महात्मभ्य उपाध्यायेभ्य उच्चकैः ॥२६२।। शीलव्रतसनाथेभ्यः साधुभ्यश्च नमो नमः । भवलक्षसन्निबद्धं पापं निर्नाशयन्ति ये ॥२६३।। सावद्यं योगमुपछि बाह्यमाभ्यन्तरं तथा । यावज्जीवं त्रिविधेन त्रिविधं व्युत्सृजाम्यहम् ॥२६४|| चतुर्विधाहारमपि यावज्जीवं त्यजाम्यहम् । उच्छवासे चरमे देहमपि हि व्यत्सजाम्यहम् ॥२६५॥"
१. मया खं. १ । २. चारित्राचारि० खं. १-२ । ३. तदहं खं. ४ । ४. क्षमाम्य० खं. १-२ । क्षम्याम्य० खं. ४ । ५. वातानां समूहो वात्या, तया नर्तिता ये अब्धितरङ्गास्तद्वत् । ६. बन्धवोऽन्ये० खं. ३-४, मु. । ७. भाटकेन गृहीतं गृहं यथा मोक्तव्यमेव तथा । ८. वापि मु. । ९. भरतैरावत० मु., खं. ३-४ । १०. ०माणः स बोधि० मु. । ११. कर्मेन्धो० खं. १-२ । कर्माण्येव एध:-काष्ठम् । १२. भवच्छेदे स० मु. । १३. कथयन्ति ।