________________
प्रथमः सर्गः]]
श्रीत्रिषष्टिशलाकापुरुषचरितम् । पानीत्या पालयतस्तस्य पृथिवीं पृथिवीपतेः । एकदा पोट्टिलाचार्य उद्याने समवासरत् ॥२१४||
धर्मं तदन्तिके श्रुत्वा राज्ये न्यस्य स्वमात्मजम् । स प्रवव्राज तेपे च वर्षकोटीं तपः परम् ॥२१५।। पूर्वलक्षचतुरशीत्यायुः संन्यासपूर्वकम् । मृत्वा शुक्रे स सर्वार्थविमाने त्रिदशोऽभवत् ॥२१६।। च्युत्वेह भरते छत्रायां पुर्यां जितशत्रुतः । भद्रादेव्यां सोऽजनिष्ट नन्दनो नाम नन्दनः ॥२१७।। तं न्यस्योद्यौवनं राज्ये जितशत्रुर्महीपतिः । संसारवासनिविण्णः परिव्रज्यामुपाददे ॥२१८||
लोकानां हृदयानन्दो नन्दनोऽपि वसुन्धराम् । यथाविधि शशासैनां पाकशासनशासनः ॥२१९।। पाचतुर्विंशत्यब्दलक्षी जन्मतोऽतीत्य नन्दनः । विरक्तः पोट्टिलाचार्यसमीपे व्रतमाददे ॥२२०।। मासोपवासैः सततैः श्रामण्यं स प्रकर्षयन् । व्यहार्षीद् गुरुणा सार्धं ग्रामाकरपुरादिषु ॥२२१।। उभाभ्यामपध्यानाभ्यां बन्धनाभ्यां च वर्जितः । त्रिभिर्दण्डैारवैश्च शल्यैश्च रहितः सदा ॥२२२।। प्रक्षीणचतुःकषायश्चतुःसंज्ञाविवर्जितः । चतुर्विकथारहितश्चतुर्धर्मपरायणः ॥२२३॥ चतुर्विधैरुपसर्गरपरिस्खलितोद्यमः । व्रतेषु पञ्चसूद्युक्तो द्वेषी कामेषु पञ्चसु ॥२२४।। पञ्चप्रकारस्वाध्यायप्रसक्तः प्रतिवासरम् । बिभ्राणः समिती: पञ्च जेता पञ्चेन्द्रियाणि च ॥२२५।। षड्जीवनिकायत्राता सप्तभीस्थानवर्जितः । विमुक्ताष्टमदस्थानः स नवब्रह्मगुप्तिकः ॥२२६।। दधद्दशविधं धर्मं सम्यगेकादशाङ्गभृत् । तपो द्वादशधा कुर्वन् द्वादशप्रतिमारुचिः ॥२२७|| दुःसहामपि सहिष्णुः परीषहपरम्पराम् । निरीहो नन्दनमुनिर्वर्षलक्षं तपोऽकरोत् ।।२२८।।
|| सप्तभिः कुलकम् ॥ पाअर्हद्भक्त्यादिभिः स्थानविंशत्याऽपि महातपाः । दुरर्जमर्जयामास तीर्थकृन्नामकर्म सः ॥२२९|| स निष्कलङ्कं श्रामण्यं चरित्वा मूलतोऽपि हि । आयु:पर्यन्तसमये व्यधादाराधनामिति ॥२३०|| "ज्ञानाचारोऽष्टधा प्रोक्तो यः काल-विनयादिकः । तत्र मे कोऽप्यतीचारो योऽभून्निन्दामि तं त्रिधा ॥२३१।। यः प्रोक्तो दर्शानाचारोऽष्टधा निःशङ्कितादिकः । तत्र मे योऽतिचारोऽभूत् त्रिधापि व्युत्सृजामि तम् ॥२३२।। या कृता प्राणिनां हिंसा सूक्ष्मा वा बादरापि वा । मोहाद्वा लोभतो वापि व्युत्सृजामि त्रिधापि ताम् ॥२३३।। हास्यभीक्रोधलोभाद्यैर्यन्मृषा भाषितं मया । तत्सर्वमपि निन्दामि प्रायश्चित्तं चरामि च ॥२३४|| अल्पं भूरि च यत् क्वापि परद्रव्यमदत्तकम् । आत्तं रागादथ द्वेषात् तत्सर्वं व्युत्सृजाम्यहम् ॥२३५।। तैरश्चं मानुषं दिव्यं मैथुनं मयका पुरा । यत्कृतं त्रिविधेनापि त्रिविधं व्युत्सृजामि तत् ।।२३६।। बहुधा यो धनधान्यपश्वादीनां परिग्रहः । लोभदोषान्मयाऽकारि व्युत्सृजामि त्रिधापि तम् ॥२३७|| पुत्रे कलत्रे मित्रे च बन्धौ धान्ये धने गृहे । अन्येष्वपि ममत्वं यत् तत्सर्वं व्युत्सृजाम्यहम् ॥२३८।। इन्द्रियैरभिभूतेन य आहारश्चतुर्विधः । मया रात्रावुपाभोजि निन्दामि तमपि त्रिधा ॥२३९॥
१. छत्राग्रापुर्यां खं. १-२ । २. ० मुपाददौ खं. १ । ३. शशासेनां मु. । ४. पाकशासन इन्द्रः, तस्येव शासनं यस्य सः । ५. आर्तध्यानं रौद्रध्यानं अपध्याने। ६. रागश्च द्वेषश्च द्वे बन्धने । ७. मनोवाक्कायजैर्दण्डै:, ऋद्धि-रस-सातरू पैर्गारवैः, माया-निदानमिथ्यात्वाख्यैः शल्यैः । ०ौरवै० मु. । ८. ०चतुष्क० मु. । ९. देवकृत, मनुष्यकृत, अनुकूल, प्रतिकूल-एवं ४ उपद्रवाः । १०. पञ्चेन्द्रियविषयेषु । ११. ईर्याद्याः पञ्च साधूनां समितयः । १२. ०गुप्तिषु खं. १ । १३. ०भीलोभक्रोधाद्यै० मु. । १४. २३३ तः २३७ तमपद्यानामेवं क्रमः खं. ४ मध्ये-२३५, २३६, २३७, २३३, २३४ ।