________________
८
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं
प्रियमित्र इति नाम पितरौ तस्य चक्रतुः । पित्रोर्मनोरथैः सार्धं क्रमेण ववृधे च सः ॥१८६॥ q[अथ संसारनिर्विण्णो धनञ्जयमहीपतिः । प्रियमित्रं सुतं राज्ये निधाय व्रतमाददे ॥ १८७॥ प्रियामिव भुवं पातुः प्रियमित्रस्य भूपतेः । चतुर्दश महारत्नान्युदपद्यन्त च क्रमात् ॥१८८॥ षट्खण्डं विजयं जेतुं चक्रमार्गानुगोऽचलत् । गत्वा च पूर्वाभिमुखं मागधं तीर्थमासदत् ॥ १८९ ॥ कृत्वाऽष्टमतपस्तत्र चतुरङ्गचमूवृतः । चतुर्थान्ते रथारूढः किञ्चिद् गत्वाऽग्रहीद्धनुः ॥ १९०॥ मागधतीर्थकुमारं समुद्दिश्य महाभुजः । कङ्कपत्रं स्वनामाङ्कं गरुत्मन्तमिवाऽक्षिपत् ॥१९१॥ योजनानि द्वादशेषुः स लङ्घित्वा विहायसा । पुरो मागधदेवस्य पपातोत्पातवज्रवत् ॥१९२॥ बाणो मुमूर्षुणा केन क्षिप्त इत्यभिचिन्तयन् । मागधेशो रुषोत्थाय तं जग्राह शिलीमुखम् ॥१९३॥ चक्रिनामाक्षरश्रेणीं वीक्ष्य शान्तीभवन् क्षणात् । उपायनान्युपादाय प्रियमित्रं स आयौ ॥१९४॥ आज्ञाधरस्तवाऽस्मीति जल्पन् व्योमस्थितो नृपम् । पूजयामास विविधोपायनैः स उपायवित् ॥१९५॥ तं सत्कृत्य विसृज्याथ वलित्वा पारणं व्यधात् । चक्री मागधदेवस्य चक्रे चाष्टाह्निकोत्सवम् ॥१९६॥। [ततो जगाम याम्यायां कर्कस्थित इवाऽर्यमा । वरदामानममरं नृपः प्राग्वदसाधयत् ॥१९७॥ गत्वा प्रतीच्यां प्रभासतीर्थेशमपि चक्रभृत् । विधिना साधयामास प्रति सिन्धुं जगाम च ॥ १९८ ।। कृताष्टमस्य प्रत्यक्षीभूय सिन्धुर्महीपतेः । रत्न - भद्रासने दिव्ये प्रददौ भूषणानि च ॥ १९९ ॥ तां विसृज्य स वैताढ्यं चक्ररत्नानुगो ययौ । वैताढ्याद्रिकुमारं चाऽसाधयद्विहिताष्टमः ॥२००॥ गतस्याऽभितर्मिंस्रं चाऽष्टमस्थस्य महीपतेः । कृतमालः स्त्रीरत्नार्हमन्यच्चाऽऽभरणं ददौ ||२०१|| उत्तीर्य चर्मणा सिन्धु सेनानीश्चक्रिशासनात् । लीलया साधयामास सिन्धोः प्रथमनिष्कुटम् ||२०२॥ भूयोऽप्यभ्येत्य सेनानीः प्रियमित्रस्य शासनात् । कृताष्टमो दण्डघातात् तमिस्रामुदघाटयत् ॥२०३॥ चक्रचारूढो गजरत्नं तत्कुम्भे न्यस्य दक्षिणे । मणिरत्नं प्रकाशाय तमिस्रां प्राविशद् गुहाम् ॥२०४॥ काकिण्या मण्डलान्यर्कमण्डलाभानि पार्श्वयोः । लिखन् गुहायां द्योताय चक्री चक्रानुगो ययौ ॥२०५॥ पेद्ययोन्मग्ना-निमग्ने नद्यौ तीर्त्वा महीपतिः । स्वयमुद्घटितेनोदग्द्वारेण निरयाद् गिरेः ॥२०६॥ आपातनाम्नः किरातानजैषीत्तत्र चक्रभृत् । असाधयच्च सेनान्या द्वितीयं सिन्धुनिष्कुटम् ॥२०७॥ चक्रानुगो निवृत्त्याऽथ भूयो वैताढ्यमभ्यगात् । वशीचक्रे द्वयोः श्रेण्योस्तत्र विद्याधरांश्च सः ॥२०८॥ साधयित्वा स सेनान्या गाङ्गं प्रथमनिष्कुटम् । स्वयमष्टंमभक्तेन गङ्गादेवीमसाधयत् ॥२०९॥ खण्डप्रपातया सेनान्युद्घाटितकपाटया । वैताढ्याद्रेर्निर्जगाम ससैन्योऽपि महीपतिः ॥२१०॥
अथाऽष्टमतपःस्थस्य प्रियमित्रस्य चक्रिणः । नवापि निधयोऽभूवन्नैसर्पाद्या वशंवदाः ॥२११ ॥
सेनान्या साधयित्वा च द्वितीयं गाङ्गनिष्कुटम् । जिर्तषट्खण्डविजयश्चक्री मूकां पुरीं ययौ ॥ २१२ ॥
१०
१२
चक्रभृत्त्वाभिषेकोऽस्य चक्रे द्वादशवार्षिकः । अमरैर्नृवरैश्चापि महोत्सवपुरःसरम् ॥२१३॥
[ दशमं पर्व
१. ० निर्विन्नो खं. १ । २. मगध० खं. १-२ । ३. कर्कराशिस्थितोऽर्यमा - सूर्यः यथा याम्यायां- दक्षिणस्यां दिशि गच्छति तथा। ४. ०तमिश्रं खं. १ । ५. पाल्या । ६. स्वयमुद्घाटि० खं. १ । ७. निरगाद् खं. १-२-४ । ८. भूपो० खं. ३, मु.। ९. अष्टम उपवासत्रयात्मकः । १०. तथा० खं. ४ । ११. कृतषट्० खं. १-२ । जितः षट्खण्डात्मको विजयः - क्षेत्रं येन सः । १२. ०र्नृपवरै० खं. १-२ ।