________________
प्रथमः सर्गः ]
श्रीत्रिषष्टिशलाकापुरुषचरितम् ।
इत्युक्त्वा पोतनपुरे तौ कुमारावुपेयतुः । ग्रामीणास्तेऽपि गत्वाऽऽख्यन् हयग्रीवस्य तत्तथा ॥१५७॥ [[हयग्रीवोऽपि साशङ्को जिघांसुर्माययाऽपि तौ । अनुशिष्याऽऽदिशद् दूतं प्रजापतिनृपं प्रति ॥१५८॥ गत्वा स दूतस्तं स्माऽऽहोपस्वामि प्रेषयाऽऽत्मजौ । राज्यं यदनयोः स्वामी प्रदास्यति पृथक् पृथक् ॥१५९॥ प्रजापतिर्बभाषेऽहं यास्यामि स्वामिनं स्वयम् । कृतं मम कुमाराभ्यां गताभ्यां तत्र सुन्दर ! ॥ १६०॥ दूतो भूयोऽवदत् पुत्रौ न चेत्त्वं प्रेषयिष्यसि । तत् सज्जीभव युद्धाय मा वादीः कथितं न यत् ॥१६१॥ इत्युक्तवन्तं तं दूतं तौ कुमारावमर्षिणौ । धर्षयित्वा निजपुरान्निरासयतां क्षणात् ॥१६२॥ दूतो गत्वा तदाचख्यौ हयग्रीवाय धर्षणम् । हयग्रीवोऽपि कोपेन हुताशन इवाऽज्वलत् ॥१६३॥ [[हयग्रीवः ससैन्योऽपि त्रिपृष्टश्चाचलोऽपि च । युयुत्सवः समभ्येयू रथावर्तमहागिरौ ॥ १६४ || मिथो युयुधिरे सैन्याः पक्षयोरुभयोरपि । सांवर्तिका इवाऽम्भोदा आस्फलन्तः परस्परम् ॥१६५॥ क्षीणक्षीणेषु सैन्येषु सैन्ययुद्धं निषिध्य तौ । अश्वग्रीवस्त्रिपृष्टश्चाऽयुध्येतां रथिनौ स्वयम् ॥१६६॥ मोघीकृतास्त्रोऽश्वग्रीवोऽरिग्रीवाच्छेदलम्पटम् । त्रिपृष्टायाऽमुचच्चक्रं हाहाकारिजनेक्षितम् ॥१६७|| त्रिपृष्टोरःस्थले चक्रं तुम्बेन निपपात तत् । शरभो रभसोद्भ्रान्त इव पर्वतसानुनि ॥१६८॥ वीरप्रष्ठस्त्रिपृष्टोऽथ तेन चक्रेण लीलया । चकर्त हयकण्ठस्य कण्ठमम्भोजनालवत् ॥१६९|| अचलश्च त्रिपृष्टश्च प्रथमौ हलि - शाङ्गिणौ । इत्याघोषि सुरैर्व्याम्नि पुष्पवृष्टिपुरस्सरम् ॥१७०॥ तयोः सर्वेऽपि राजानः सद्योऽपि प्रणतिं ययुः । ताभ्यां चाऽसाधि भरत क्षेत्रयाम्यार्धमोजसा ||१७१॥ शिलां कोटिशिलां दोष्णोत्पाट्य मूर्ध्यातपत्रवत् । प्रथमः पुण्डरीकाक्षो धारयामास लीलया ॥१७२॥ विक्रमाक्रान्तभूचक्रः स पोतनपुरं ययौ । अभिषिक्तश्चाऽर्धचक्रिपदे देवैर्नृपैरपि ॥१७३॥
७
यद्यद्रत्नं दूरतोऽपि त्रिपृष्टं तत्तदाश्रयत् । रत्नीभूता गायनेषु तमेयुः केऽपि सुस्वराः ॥१७४॥ एकदा तेषु गायत्सु शय्यापालं हरिर्निशि । ऊचे मयि शयानेऽमी विसृष्टव्यास्त्वया खलु ॥१७५॥ आमेत्यूचे तँल्पपाल आगान्निद्रा च शाङ्गिणः । तद्गीतलुब्धो व्यस्राक्षीद् गायनान् सोऽपि तान्न हि ॥१७६॥ तेषु गायत्सु चौत्तस्थौ विष्णुरूचे च ताल्पिकम् । त्वया विसृष्टाः किं नाऽमी ? सोऽप्यूचे गीतलोभतः || १७७|| तच्छ्रुत्वा कुपितो विष्णुः प्रभाते तस्य कर्णयोः । अक्षेपयत् त्रपु तप्तं शय्यापालो मृतश्च सः ॥१७८॥ त्रिपृष्टः कर्मणा तेन वेद्यं कर्म न्यैकाचयत् । प्रभुत्वादन्यदप्युग्रं कर्माबाद् दुरायति ॥ १७९॥ मैं हिंसादिष्वविरतो महारम्भपरिग्रहः । चतुरशीत्यब्दलक्षीं प्राजापत्योऽत्यवाहयत् ॥१८०॥ मृत्वा च सप्तमावन्यामुदपद्यत नारकः । तद्वियोगात् प्रव्रजितोऽचलो मृत्वा शिवं ययौ ॥१८१ ॥ [[त्रिपृष्टजीवो नरकादुद्द्द्वृत्त्याऽजनि केसरी । केसर्यपि विपन्नः संश्चतुर्थं नरकं ययौ ॥१८२॥ सोऽथ तिर्यङ्मनुष्यादिभवान् बभ्राम भूरिशः । लब्ध्वा च मानुषं जन्म शुभं कर्मैकदाऽऽर्जयत् ॥१८३॥ ततोऽपरविदेहेषु मूकायां पुरि भूपतेः । धनञ्जयस्य धारिण्याः पत्न्याः कुक्षाववातरत् ॥१८४॥ चतुर्दशमहास्वप्नाख्यातचक्रधरर्द्धिकः । काले तया च सुषुवे सूनुः सम्पूर्णलक्षणः ॥१८५॥
१. ० वमर्षणौ मु. । २. सैनिका: । ३. प्रलयकालीनाः । ४. ०ग्रीवोच्छेद० खं. ३-४, मु. ५. वीरपृष्ट० खं. १-२-३-४ । वीरेषु अग्रणीः । ६. भरतक्षेत्रस्य दक्षिणार्धम् । ७. मूर्ध्ना० खं. १-४ । ८. विष्णुः, वासुदेव इत्यर्थः । ९. विस्रष्टव्या० मु. । १०. तल्पं - शय्या । ११. दृढमूलमबध्नात् । १२. ०बध्नान् खं. १-२ । १३. अहिंसा० मु. । १४. नारकी खं. ४ । १५. ०दुद्धृत्या० मु.