________________
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं
[दशमं पर्व गत्वा कुमारौ मार्गार्धे तमकुट्टयतां भटैः । पलायांचक्रिरे सद्यस्तत्सहायास्तु काकवत् ॥१३१।। तत्प्रजापतिना ज्ञात्वा भीतेनाऽऽनायितो गृहे । सत्कृत्य चाधिकं चण्डवेग एवमभाष्यत ॥१३२॥ कुमारयोर्दुविनयं मा स्माऽऽख्यः स्वामिनः खलु । अज्ञानजाद् दुर्विनयान्न कुप्यन्ति महाशयाः ॥१३३।। आमेत्युक्त्वा ययौ दूतस्तत्पौंस्नात्त्वग्रतो गतात् । विदाञ्चकाराऽश्वग्रीवस्तद्धर्षणमशेषतः ॥१३४|| तद्विदं च हयग्रीवं ज्ञात्वा दूतो यथातथम् । स्वधर्षणं तदाचख्यावलीकाख्यानकातरः ॥१३५।। अश्वग्रीवेण शिष्ट्वाऽन्यः प्रहितो ना प्रजापतिम् । गत्वाऽवोचद् रक्ष सिंहाच्छालीनाज्ञा प्रभोरियम् ॥१३६।। प्रजापतिः सुतावूचे युवाभ्यां कोपितः प्रभुः । प्रददौ यदवारेऽपि शासनं सिंहरक्षणे ॥१३७।। इत्युक्त्वा प्रस्थितं भूपं कुमारौ प्रतिषिध्य तौ । प्रजग्मतुः शङ्खपुरं सिंहयुद्धसकौतुकौ ॥१३८॥ पाअन्येऽरक्षन्नृपाः सिंहं कथङ्कारं कियच्चिरम् । इति पृष्टस्त्रिपृष्टेन शशंसुः शालिगोपकाः ॥१३९॥
चतुरङ्गचमूवप्रं कृत्वाऽरक्षन् क्षमाभुजः । आशालिग्रहणमहो वर्षवारक्रमागताः ॥१४०।। ऊचे त्रिपृष्टस्तानेवं स्थास्यतीयच्चिरं हि कः ? । तदर्शयत मे सिंहं यथैकाकी निहन्मि तम् ॥१४१।। ततस्तेऽदर्शयन् सिंहं तुङ्गाचलगुहागतम् । जग्मतुश्च रथारूढौ तां गुहां राम-शाङ्गिणौ ॥१४२।। चक्रुः कलकलं चोच्चैस्तद्गुहापार्श्वयोर्जनाः । तं श्रुत्वा निर्ययौ जृम्भादीर्णवक्त्रः स केसरी ॥१४३।। रथिकोऽहमसौ पत्तिरित्याजिन समाऽऽवयोः । इति त्रिपृष्टः फैलकासिधरोऽवातरद् रथात् ॥१४४ ।। दंष्ट्रा-करजेशस्त्रोऽयं फलकासिधरस्त्वहम् । नैतदप्युचितमिति चर्मासी व्यमुचद्धरिः ॥१४५।। तत्प्रेक्ष्य केसरी जातजातिस्मृतिरचिन्तयत् । एकं धा_महो एको यदागान्मद्गुहामसौ ॥१४६।। अन्यद् रथादुत्तरणं तृतीयं शस्त्रमोचनम् । दुर्मदं तन्निहन्म्येष मदान्धमिव सिन्धुरम् ॥१४७|| विचिन्त्यैवं क्षणं व्यात्ताननः पञ्चाननाग्रणी: । दत्वा फालामुत्पपातोपत्रिपृष्टं पपात च ॥१४८।। एकेन पाणिनो;ष्ठमपरेणाऽधरं पुनः । धृत्वा त्रिपृष्टस्तं सिंहं जीर्णवस्त्रमिवाऽदृणात् ॥१४९॥ पुष्पाभरणवस्त्राणि ववृषुर्देवता हरौ । लोकाश्च विस्मयस्मेराः साधु साध्विति तुष्टुवुः ॥१५०॥ अहो कथमनेनाऽहं कुमारेणाऽद्य मारितः ? । इत्यमर्षात् स्फुरंस्तस्थौ द्विधाभूतोऽपि केसरी ॥१५१।। गणभृद्गौतमजीवोऽन्त्यार्हज्जीवस्य शाङ्गिणः । तदानीं सारथिः सिंहं तं स्फुरन्तमदोऽवदत् ॥१५२।। नृष्वेष सिंह: पशुषु त्वं तु तन्मारितोऽमुना । मुधाऽपमानं किं धत्से ? न हीनेन हतोऽसि यत् ॥१५३।। सुधयेव तया वाचा प्रीतो मृत्वा स केसरी । चतुर्थ्यां नरकावन्यां नारकः समजायत ॥१५४|| पातच्चाऽऽदाय कुमारौ चलितौ स्वपुरं प्रति । ग्राम्यानित्यूचतुर्वाजिग्रीवस्यैतद्धि कथ्यताम् ॥१५५।। शालीन् खाद यथेष्टं त्वं विश्वस्तस्तिष्ठ सम्प्रति । असौ हृदयशल्यं ते केसरी यन्निपातितः ॥१५६।।
१. तस्य चण्डवेगस्य पुरुषसमूहात् । २. ०पौंस्नांस्त्वग्रतो गतान् खं. १-२-३-४ । ३. असत्यकथनभीरुः । ४. नरः । ५. वारकं विनापि । ६. बलदेव-वासुदेवौ । राम-लक्ष्मणौ खं. १-२ । ७. जृम्भा 'बगासुं' इति भाषायां, तया व्यात्तमुखः । ८. १२. केशरी खं. १-४ । ९. आजि:-युद्धम् । १०. फलकं 'ढाल', असिं-खड्गं च धारकः । ११. वर्मासी खं. १ । १३. जीर्ण खं. ४ । १४. अदारयत् । १५. शार्की–त्रिपृष्टः, स अन्त्यस्य अर्हतः-भगवतो महावीरस्य भाविजिनस्य जीवः । तस्य भावी गणभृत्प्रथम शिष्यो गौतमः, तस्य जीवः सारथिरिति भावः । * करजा:-नखाः ।