________________
प्रथमः सर्गः ]
श्रीत्रिषष्टिशलाकापुरुषचरितम् ।
विशाखनन्दिनः सोऽथ शिबिराभ्यर्णमागतः । विश्वभूतिः कुमारोऽसावित्यदर्श्यत पूरुषैः ॥१०३॥ विशाखनन्दी तं सद्यः प्रेक्ष्य द्विषमिवाऽकुपत् । गवैकया विश्वभूतिः पर्यस्तश्च तदाऽपतत् ॥१०४॥ कपित्थपातनं स्थाम क्व तवेत्यहसच्च सः । धृत्वा गां शृङ्गयोर्विश्वभूतिश्चाऽभ्रमत् क्रुधा ॥१०५॥ भूयिष्ठवीर्यो भूयासं मृत्यवेऽस्य भवान्तरे । अनेन तपोसोग्रेण निदानमिति सोऽकरोत् ॥१०६॥ सम्पूर्य कोटिवर्षायुरनालोच्य च तन्मृतः । विश्वभूतिर्महाशुक्रे प्रकृष्टायुः सुरोऽभवत् ॥१०७॥ [[इतश्चात्रैव भरते नगरे पोतनाभिधे । अभूद् रिपुप्रतिशत्रुर्नाम राजा महाभुजः ॥१०८॥ तस्य भद्रेति पत्न्यासीत् तस्यां सूनुरजायत । चतुर्भिः सूचितः स्वप्नैर्बलभद्रोऽचलाभिधः ॥१०९॥ मृगावतीति नाम्नाऽभूत् पुत्री च मृगलोचना । सोद्यौवना रूपवती प्रणन्तुं पितरं ययौ ॥ ११० ॥ जातानुरागस्तां प्रेक्ष्य निजोत्सङ्गे न्यधत्त सः । तत्पाणिग्रहणोपायं विचिन्त्य व्यसृजच्च ताम् ॥१११॥ पौरवृद्धानथाऽऽहूय पप्रच्छेदं महीपतिः । यदत्र जायते रत्नं तत् कस्य ? ब्रूत निर्णयम् ॥११२॥ तवेति ते समाचख्युस्त्रिरुपादाय तद्वचः । मृगावतीं परिणेतुं तत्र चाऽनाययन्नृपः ॥११३॥ जग्मुस्ते लज्जिताः सर्वे पार्थिवोऽपि मृगावतीम् । गान्धर्वेण विवाहेन स्वयमेव ह्युपायत ॥ ११४ ॥ लज्जाक्रोधाकुला भद्रा देवी मुक्त्वा महीपतिम् । सहाऽचलेन निर्गत्य प्रययौ दक्षिणापथे ॥११५॥ पुरीं माहेश्वरीं तत्र विरचय्याऽचलो नवाम् । मातरं तत्र संस्थाप्य जगाम पितुरन्तिके ॥ ११६॥ तत्पितापि स्वप्रजायाः पतित्वेनाऽखिलैर्जनैः । प्रजापतिरिति प्रोचे बलीयः कर्म नाम हि ॥११७॥ [[विश्वभूतिश्च्युतः शुक्रान्मृगावत्या अथोदरे । सप्तस्वप्नसमाख्यातविष्णुभावः समागमत् ॥११८॥ तया च काले सुषुवे सूनुः प्रथमशार्ङ्गभृत् । त्रिकरण्डकपृष्टत्वात् त्रिपृष्ट इति संज्ञितः ॥११९॥ अशीतिधनुरुत्तुङ्गो रममाणोऽचलेन सः । अधीतसकलकलः क्रमेण प्राप यौवनम् ॥१२०॥ विशाखनन्दीजीवोऽथ भवं भ्रान्त्वा मृगाधिपः । जातस्तुङ्गगिरौ शङ्खपुरदेशमुपाद्रवत् ॥१२१॥ तदानीमश्वग्रीवेण भूभुजा प्रतिविष्णुना । मम मृत्युः कुत इति पृष्टो नैमित्तिकोऽवदत् ॥१२२॥ हन्ता स ते चण्डवेगं यो दूतं धर्षयिष्यति । मारयिष्यति यस्तुङ्गगिरिसिंहं च हेलया ॥ १२३॥ अश्वग्रीवस्ततः शङ्खपुरे शालीनवापयत् । तद्रक्षार्थं चाऽऽदिदेश वारकेणं महीपतीन् ॥१२४॥ सोऽश्रौषीच्च महावीर्यौ पुत्रौ राज्ञः प्रजापतेः । तस्मै द्रुतं (दूतं ?) चण्डवेगं प्रैषीत् चार्थेन केनचित् ॥१२५॥ प्रजापतेः कारयतः सङ्गीतं निजपर्षदि । अकस्मात् प्राविशच्चण्डवेगः स्वामिबलोन्मदः ॥ १२६ ॥ आँगमाध्ययनस्येवाऽकालविद्युत्समुद्गमः । स विघ्नभूतो गीतस्याऽभ्युत्तस्थे तेन भूभुजा ॥१२७॥ मन्त्रिणश्च कुमाराभ्यां पृष्टा आख्यन् पुमानयम् । प्रधानभूतोऽश्वग्रीवमहाराजस्य दोष्मतः ॥१२८॥ यदा व्रजत्ययं दूतो ज्ञापनीयस्तदा हि नौ । इति स्वकीयानचल - त्रिपृष्टावूचतुर्नरान् ॥१२९॥ [[स प्रजापतिनाऽन्येद्युर्विसृष्टोऽभ्यर्च्य गौरवात् । ययौ कुमारयोराशु ज्ञापितश्च निजैर्नरैः ॥१३०॥
५
१. क्व ते चेत्य० मु. । २. वारकेन खं. १-२-४ । ३. स्वार्थेन मु. । ४. आगमाः - जैन शास्त्राणि तेषामध्ययने अकाले विद्युत्समुद्गमो विघ्नः, तद्वत् ।