________________
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं
[दशमं पर्व स सदा विषयासक्तो द्रव्योपार्जनतत्परः । हिंसादिषु च निःशूकः कालं भूयांसमत्यगात् ॥७६।। सोऽन्ते त्रिदण्डी भूत्वा च, मृत्वा भ्रान्त्वा बहून् भवान् । स्थूणाख्ये सन्निवेशेऽभूत् पुष्पमित्राभिधो द्विजः ॥७७|| भूत्वा त्रिदण्डिकः पूर्वलक्षद्वासप्ततिप्रमम् । अतीत्याऽऽयुः स सौधर्मे सुरोऽभून्मध्यमस्थितिः ॥७८|| च्युत्वा चैत्ये सन्निवेशेऽग्न्युद्योतः स द्विजोऽभवत् । पूर्वलक्षचतुःषष्ट्यायुष्कः प्राग्वत् त्रिदण्ड्यभूत् ॥७९॥ मृत्वैशाने मध्यमायुः सोऽभूद्देवस्ततश्च्युतः । मन्दिरे सन्निवेशेऽभूदग्निभूतिरिति द्विजः ॥८०।। षट्पञ्चाशत्पूर्वलक्षायुष्कः सोऽपि त्रिदण्ड्यभूत् । मृत्वा सनत्कुमारे च मध्यमायुः सुरोऽभवत् ॥८१।। च्युत्वा च श्वेतवीपुर्यां भारद्वाजोऽभवद् द्विजः । चतुश्चत्वारिंशत्पूर्वलक्षायुः स त्रिदण्ड्यभूत् ॥८२।। मृत्वा माहेन्द्रकल्पेऽभूत् स सुरो मध्यमस्थितिः । च्युत्वा भ्रान्त्वा भवं राजगृहेऽभूत् स्थावरो द्विजः ॥८३ ।। चतुस्त्रिंशत्पूर्वलक्षायुष्कः सोऽपि त्रिदण्ड्यभूत् । विपद्य च ब्रह्मलोके मध्यमायुः सुरोऽभवत् ॥८४|| ब्रह्मलोकात्परिच्युत्य स बभ्राम बहून् भवान् । भवो ह्यनन्तीभवति स्वकर्मपरिणामतः ॥८५।। पाइतश्चाभूद् राजगृहे विश्वनन्दी महीपतिः । पत्न्यां प्रियङ्गी विशाखनन्दी तस्याऽभवत्सुतः ॥८६।। विशाखभूतिर्युवराड् राज्ञस्तस्याऽनुजोऽभवत् । युवराजस्य तस्याऽभूद् धारिणी नामतः प्रिया ॥८७|| मरीचिजीवः प्राग्जन्मोपार्जितैः शुभकर्मभिः । विशाखभूतेर्धारिण्यां विश्वभूतिः सुतोऽभवत् ॥८८।। उद्यौवनो विश्वभूतिर्वने पुष्पकरण्डके । रेमे सान्तःपुरो देवकुमार इव नन्दने ||८९|| विशाखनन्दी क्रीडेच्छू राष्टपुत्रोऽस्थात्तु तद्बहि: । पुष्पाद्यर्थं गता दास्यो ददृशुस्तौ तथास्थितौ ॥१०॥ ताभ्यो ज्ञात्वा प्रियङ्गुस्तत् कोपौकः कुपिता ययौ । तदीप्सितार्थं राजापि यात्राभेरीमवादयत् ॥११॥ उवृत्तः पुरुषसिंहः सामन्तस्तज्जयाय तत् । यास्यामीति सभामध्ये मायया चाऽवदन्नृपः ॥९२।। तच्च श्रुत्वा विश्वभूतिर्ऋजुरेत्य वनात्ततः । भक्त्या निवार्य राजानं प्रयाणमकरोत् स्वयम् ॥१३॥ गतश्च पुरुषसिंहं दृष्ट्वाऽऽज्ञावर्तिनं पुनः । ववले तत्र च ययौ वने पुष्पकरण्डके ॥९४|| विशाखनन्दी मध्येऽस्तीत्युक्तो द्वा:स्थेन तत्र सः । अचिन्तयन्माययाऽहं कृष्टः पुष्पकरण्डकात् ॥९५ ॥ क्रुद्धः कपित्थं मुष्ट्याऽहंस्तत्फलैः पतितैर्भुवम् । छादितां दर्शयन् सोऽथ जगाद द्वारपालकम् ॥१६॥ पातयामि शिरांस्येवं सर्वेषां भवतामपि । ज्यायसि ज्यायसी ताते न चेद्भक्तिर्भवेन्मम ॥९७॥ भोगैरीदृग्वञ्चनाढ्यैर्ममाऽलमिति स ब्रुवन् । सम्भूतिमुनिपादान्ते गत्वा व्रतमुपाददे ॥९८॥ तं च प्रव्रजितं श्रुत्वा राजा सावरजोऽप्यगात् । नत्वा च क्षमयित्वा च राज्यायाऽर्थयते स्म च ॥९९ ॥ विश्वभूतिमनिच्छन्तं ज्ञात्वा भूपोऽगमद् गृहम् । ततो व्यहार्षीदन्यत्र स पुनर्गुरुणा सह ॥१००|| पास गुर्वनुज्ञयैकाकिविहारेण तप:कृशः । विहरन्नेकदाऽऽगच्छन्नगरी मथुराभिधाम् ॥१०१।। तदा विशाखनन्द्यागादुद्वोढुं तन्नृपात्मजाम् । विश्वभूतिश्च मासान्ते पारणायाऽविशत् पुरीम् ॥१०२॥
१. निर्दयः । २. पुष्य० खं. १ । ३. त्रिदण्डकः खं. १-४ । ४. 'बहुत्तरि लाख पूर्वायुः' खं. ४ टि. । ५. 'चतुःसट्ठि लाख पूर्व' खं. ४ टि. । ६. 'छप्पन लाख पूर्वायु: ' खं. ४ टि. । ७. '४४ लाख पूर्व' खं. ४ टि. । ८. तत० खं. ४ । '३० लाख' इति टि. तत्रैव । ९. प्रियङ्गराज्ञी क्रुद्धा सती कोपगृहं ययौ । १०. प्रतिकूलः । ११. वनान्ततः खं. १ । १२. द्वास्थेन खं. १-२-३-४ । १३. भवतां पुनः मु. । १४. ज्यायसि-ज्येष्ठे ताते-पितरि ज्यायसी-महती भक्तिः । १५. ०वञ्चनाद्यै मु. । १६. लघुभ्रात्रा सह । १७. भूयो० खं. १-२-४ ।