________________
प्रथमः सर्गः]
श्रीत्रिषष्टिशलाकापुरुषचरितम् । पातत्र प्रभुनमस्कृत्य पृष्टो भरतचक्रिणा । भाविनोऽर्ह-च्चक्रि-विष्णु-प्रतिविष्णु-बलाञ्जगौ ॥४८॥ पुनः पप्रच्छ भरतः किं कश्चिदिह पर्षदि । भाव्यत्र भरतक्षेत्रे नाथ ! त्वमिव तीर्थकृत् ? ॥४९॥ मरीचिं दर्शयन्नाख्यत् स्वामी सूनुरयं तव । पश्चिमस्तीर्थकद्वीरो नाम्ना भावीह भारते ॥५०॥ भाव्याद्योऽत्र त्रिपृष्टाख्यः शार्ङ्गभृत् पोतने पुरे । मूकापुर्यां विदेहेषु प्रियमित्रश्च चक्रभृत् ॥५१॥ पातच्छ्रुत्वा नाथमापृच्छ्य मरीचिं भरतो ययौ । त्रिश्च प्रदक्षिणीकृत्य वन्दित्वैवमवोचत ॥५२॥ स्वामिनोक्तं चरमस्त्वं भाव्यर्हन्निह भारते । आद्यश्च वासुदेवस्त्वं त्रिपृष्टः पोतनेश्वरः ॥५३॥ चक्री विदेह-मूकायां प्रियमित्रोऽभिधानतः । पारिवाज्यं न ते वन्द्यं भाव्यर्हन्निति वन्द्यसे ॥५४|| तमित्युक्त्वा चक्रवर्ती प्रणम्य स्वामिनं पुनः । विनीतात्मा प्रविवेश विनीतां मुदितः पुरीम् ॥५५॥ पातदाकर्ण्य मरीचिस्त्रिरास्फोट्य त्रिपदी मुदा । इत्युवाचोच्चकैविष्णुर्भविष्यामि यदादिमः ॥५६॥ मूकानगर्यां मे चक्रवर्तित्वं च भविष्यति । भाव्यहं चरमश्चाऽर्हन् पर्याप्तमपरेण मे ॥५७|| आद्योऽहं वासुदेवानां पिता मे चक्रवर्तिनाम् । पितामहस्तीर्थकृतामहो मे कुलमुत्तमम् ।।५८|| एवं जातिमदं कुर्वन् भुजौ चाऽऽस्फोटयन्मुहुः । नीचगोत्राभिधं कर्म मरीचिः समुपार्जयत् ॥५९।। पाऋषभस्वामिनिर्वाणादूर्ध्वं सार्धं स साधुभिः । विहरन् प्रबोध्य भव्यान् प्राहिणोत् साधुसन्निधौ ॥६०|| व्याधिभिश्चाऽन्यदा ग्रस्तोऽसंयमीति स साधुभिः । अपाल्यमानो ग्लान: सन्मनस्येवं व्यचिन्तयत् ॥६१।। अहोऽमी साधवो धिग् धिङ् निर्दाक्षिण्याः कृपोज्झिताः । स्वार्थमात्रोद्यता लोकव्यवहारपराङ्मुखाः ॥६२।। यन्मां परिचितं स्निग्धमप्येकगुरुदीक्षितम् । विनीतमपि नेक्षन्ते दूरेऽस्तु मम पालनम् ॥६३|| यद्वा दुश्चिन्तितं मेऽदो यदमी स्वतनोरपि । परिचर्यां न कुर्वन्ति भ्रष्टस्य तु कथं मम ? ॥६४||
अनेन व्याधिना मुक्तस्तत् स्वस्य प्रतिचारकम् । कञ्चिच्छिष्यं करिष्यामि स्वलिङ्गेनाऽमुनैव हि ॥६५॥ पाएवं ध्यायन् विधिवशान्मरीचिरभवत् पटुः । अन्यदा मिलितश्चाऽस्य कपिलः कुलपुत्रकः ॥६६|| धर्मार्थी ज्ञापितस्तेन कपिलो धर्ममार्हतम् । किं स्वयं न करोषीति सोऽप्रच्छि कपिलेन च ॥६७॥ मरीचिरवदद्धर्मं नैनं कर्तुमहं क्षमः । कपिलोऽप्यब्रवीत् किं त्वन्मार्गे धर्मो न विद्यते ? ॥६८|| जिनधर्मालसं ज्ञात्वा शिष्यमिच्छन् स तं जगौ । मार्गे जैनेऽपि धर्मोऽस्ति मम मार्गेऽपि विद्यते ॥६९|| तच्छिष्यः कपिलोऽथाऽभून्मिथ्याधर्मोपदेशनात् । मरीचिरप्यब्धिकोटिकोटी संसारमार्जयत् ॥७०॥ मरीचिस्तदनालोच्य विहितानशनो मृतः । ब्रह्मलोके दशोदन्वत्प्रमितायुः सुरोऽभवत् ॥७॥ शिष्यान् विधायाऽऽसुर्यादीन् स्वाचारानुपदिश्य च । विपद्य च ब्रह्मलोके कपिलोऽप्यमरोऽभवत् ॥७२।। स प्राग्जन्माऽवधेत्विा मोहादभ्येत्य भूतले । स्वयं कृतं सांख्यमतमासुर्यादीनबोधयत् ॥७३।। तदाम्नायादत्र सांख्यं प्रावर्तत च दर्शनम् । सुखसाध्ये ह्यनुष्ठाने प्रायो लोकः प्रवर्तते ॥७४।। पाच्युत्वा मरीचिजीवोऽपि कोल्लाके सन्निवेशने । कौशिकाख्यः पूर्वलक्षाशीत्यायुर्ब्राह्मणोऽभवत् ॥५॥
१. चरमः । २. भावार्ह० खं. १-२ । ३. आदिश्च खं. ३, मु. । ४. भुजां चा० खं. २ । भुजावा० मु. । ५. पश्चात् । ६. अहो अमी साधवो धिनि० खं. १-२ विना । ७. किञ्चि० खं. १-२ । ८. निरामयः । ९. दशसागरोपमायुः । १०. विधायासूर्या० मु. । विधाय 'आसुरि' आदीन् इत्यर्थः । आसुरिः कपिलदर्शनाचार्यः । ११. ०मासूर्या० मु. । १२. 'असी लाख पूर्वायु०' खं. ४ टि. ।