________________
२
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं
[ दशमं पर्व
स प्रत्यपादि सम्यक्त्वं धन्यंमन्यः प्रणम्य तान् । वैलित्वा दारूणि राज्ञे प्रैषीद् ग्रामे स्वयं त्वगात् ॥२२॥ अथाऽभ्यस्यन् सदा धर्मं सप्त तत्त्वानि चिन्तयन् । सम्यक्त्वं पालयन् कालमनैषीत् स महामनाः ||२३|| विहिताराधनः सोऽन्ते स्मृतपञ्चनमस्कृतिः । मृत्वा बभूव सौधर्मे सुरः पल्योपमस्थितिः ॥२४॥ q[इतश्चात्रैव भरते विनीतेत्यस्ति पूर्वरा । पुरा युगादिनाथस्य कृते सुरवरैः कृता ॥२५॥ तत्र श्रीऋलभस्वामिसूनुर्नवनिधीश्वरः । चतुर्दशरत्नपतिर्भरतश्चक्रवर्त्यभूत् ॥२६॥
ग्रामचिन्तकजीवः स च्युत्वाऽभूत्तस्य नन्दनः । मरीचीन् विकिरंस्तेन मरीचिरिति विश्रुतः ||२७|| आद्ये समवसरणे ऋलभस्वामिनः प्रभोः । पितृभ्रात्रादिभिः सार्धं मरीचिः क्षत्रियो ययौ ॥२८॥ महिमानं प्रभोः प्रेक्ष्य क्रियमाणं स नाकिभिः । धर्मं चाकर्ण्य सम्यक्त्वलब्धधीव्रतमाददे ॥ २९ ॥ सम्यग्ज्ञातयतिधर्मः स्वशरीरेऽपि निःस्पृहः । त्रिगुप्तः पञ्चसमितिर्निष्कषायो महाव्रती ||३०|| स्थविराणां पुरोऽङ्गानि पठन्नेकादशापि हि । लभस्वामिना सार्धं मरीचिर्व्यहरच्चिरम् ||३१|| (युग्मम्) सोऽपरेद्युग्रष्मऋतार्बुष्णांशुकरदारुणे । प्रतिमार्गं पान्थपादनखंपचरजश्चयै ॥३२॥
स्वेदार्द्रीभूतसर्वाङ्गमललिप्तांशुकद्वयः । तृष्णार्तोऽचिन्तयदिति चारित्रावरणोदयात् ||३३|| (युग्मम्) न श्रामण्यगुणान्मेरुसमभारान् दुरुद्वहान् । निर्गुणोऽहं भवाकाङ्क्षी वोढुं प्रभुरतः परम् ||३४|| किं त्यजामि व्रतं लोके तत्त्यागे लज्ज्यते खलु । लब्धो वाऽयं मयोपायो व्रतं येन क्लमो न च ॥३५॥ श्रमणा भगवन्तोऽमी त्रिदण्डविरताः सदा । अस्तु दण्डैर्निर्जितस्य त्रिदण्डी मम लाञ्छनम् ॥३६॥ `केशलोचादमी मुण्डाः क्षुरमुण्डः शिखी त्वहम् । महाव्रतधराश्चाऽमी स्यामणुव्रतभृत्त्वहम् ||३७|| निष्किञ्चना मुनयोऽमी भूयान्मे मुद्रिकादि तु । अमी विमोहा मोहेन च्छन्नस्य छत्रमस्तु मे ||३८|| उपानद्रहिताश्चाऽमी सञ्चरन्ति महर्षयः । पादत्राणनिमित्तं मे भवतामप्युपानही ||३९|| सुगन्धयोऽमी शीलेन दुर्गन्धः शीलतस्त्वहम् । सौगन्ध्यहेतोर्भवतु श्रीखण्डतिलकादि मे ॥४०॥ अमी शुक्लजरद्वस्त्रा निष्कषाया महर्षयः । भवन्तु तु वासांसि काषायाणि कषायिणः ॥४१॥ त्यजन्त्यमी जलारम्भं बहुजीवोपमर्दकम् । स्नानं पानं च पयसा मितेन भवतातु मे ॥४२॥ एवं विकल्प्य स्वधिया लिङ्गनिर्वाहहेतवे । पारिव्राज्यं प्रत्यपादि मरीचिः क्लेशकातरः ||४३|| [[तादृग्वेषं च तं दृष्ट्वाऽपृच्छद्धर्मं जनोऽखिलः । साधुधर्मं समाचख्यौ सोऽपि तेषां जिनोदितम् ॥४४|| किं त्वं स्वयं नाऽऽचरसीत्यनुयुक्तः पुनर्जनैः । मेरुभारं न तं वोढुमीशोऽस्मीति शशंस सः ॥४५॥ धर्माख्यानप्रतिबुद्धान् स तु भव्यानुपस्थितान् । शिष्यान् समर्पयामास स्वामिने नाभिसूनवे ॥४६॥ इत्याचारो विजहार मरीचिः स्वामिना सह । स्वामी च समवासार्षीद्विनीतायां पुनः पुरि ||४७||
१. चलित्वा खं. ४ । २. 'कुत्रापि पुण्यपापयोर्बन्धेऽन्तर्भावात् सप्तैव तत्त्वान्युक्तानि' खं. ४ टि । ३. खं. १-२ प्रत्योः २७२८ तमपद्ययोर्व्यत्ययः । ४. देवैः ।। ५. ०समितो नि० खं. ४ । ६. सूर्यकिरणैर्दारुणे । ७. पान्थचरणानां नखानि पचति - प्लावयति, एतादृक् रजसां-धूलीनां चयः - समूहो यस्मिंस्तस्मिन् । ८. वस्त्रद्वयः । ९. दुस्तरान् खं. ४ । १०. येन - उपायेन व्रतं भवेत्, क्लमःखेदश्च न भवेत् । ११. मनोदण्ड- वचनदण्ड - कायदण्डेतिदण्डत्रयरहिताः । अशुभं मन एव दण्डः - कर्मदण्डदायित्वात् । एवं वाक्कायावपि । १२. अमी लुञ्चेन्द्रियमुण्डाः खं. १-२-४ । १३. शिखावान् । १४. कषायाणि खं. ४ । कषायो (गेरु) वर्णविशेषस्तेन रक्तानि, क्रोधादिकषायवतः । १५. भवताच्च खं. ३-४, मु. १६. पृष्टः ।