________________
प्रथमः सर्गः ]
श्रीत्रिषष्टिशलाकापुरुषचरितम् । कलिकालसर्वज्ञ - श्रीहेमचन्द्राचार्यविरचितं
॥ श्रीत्रिषष्टिशलाकापुरुषचरितम् महाकाव्यम् ॥
॥ दशमं पर्व ॥
॥ श्रीमहावीरचरितम् ॥
॥ प्रथमः सर्गः ॥
नमो दुर्वाररागादिवैरिवारनिवारिणे । अर्हते योगिनाथाय महावीराय तायिनें ॥१॥ अथाऽस्य देवदेवस्य देवासुरनराचितम् । चरितं कीर्तयिष्यामः पुण्यवारिसरोवरम् ॥२॥ अस्यैव जम्बूद्वीपस्य प्रत्यग्विदेहभूषणे । विजयेऽस्ति महावप्रे जयन्ती नामतः पुरी ||३|| दोर्वीर्येण समुत्पन्न इवै नव्यो जनार्दनः । महासमृद्धिस्तत्राऽऽसीन्नृपतिः शत्रुमर्दनः ॥४॥ तस्य ग्रामे तु पृथिवीप्रतिष्ठानाभिधेऽभवत् । स्वामिभक्तो नयसाराभिधानो ग्रामचिन्तकः ॥५॥ साधुसम्बन्धबाह्योऽपि सत्कृत्येष्वपराङ्मुखः । दोषान्वेषणविमुखो गुणग्रहणतत्परः ||६|| सोऽन्यदा वरदारुभ्यः पृथिवीपतिशासनात् । सपाथेयो महाटव्यामादाय शकटानगात् ॥७॥ तस्य च्छेदयतो वृक्षान्मध्यन्दिनमुपाययौ । जठरेऽग्निरिव व्योम्नि दिदीपे तेपनोऽधिकम् ॥८॥ भृतकैर्नयसारस्य सारा रसवती तदा । समयज्ञैरुपनिन्ये मण्डपातरोरधः ||९|
क्षुधितस्तृषितो वापि यदि स्यादतिथिर्मम । तं भोजयामीति नयसारोऽपश्यदितस्ततः ॥१०॥ क्षुधितास्तृषिताः श्रान्ताः सार्थान्वेषणतत्पराः । घर्माम्भः प्लुतसर्वाङ्गाः साधवश्चाऽऽययुस्तदा ॥११॥ साध्वमी साधवो मेऽत्राऽतिथयः समुपस्थिताः । चिन्तयन्निति नत्वा तान् सोऽब्रवीद् ग्रामचिन्तकः ||१२|| भगवन्तो भवन्तोऽस्यामटव्यां कथमागताः ? । एकाकिनः शस्त्रिणोऽपि पर्यटन्ति न खल्विह ||१३|| तेऽप्यभ्यधुर्वयं स्थानात् सार्थेन प्रस्थिताः पुरा । ग्रामे प्रविष्टा भिक्षायै ययौ सार्थस्तदैव हि ॥१४॥ अनात्तभिक्षाश्चलिताः सार्थस्याऽनुपदं वयम् । आगच्छन्तो महाटव्यामस्यां निपतितास्ततः ॥१५॥ नयसारोऽब्रवीदेवमहो ! सार्थोऽतिनिष्कृपः । अहो पापादप्यभीरुरहो विश्वस्तघातकः ||१६|| यत्सह प्रस्थितान् साधून् सार्थप्रत्याशया स्थितान् । अनागमय्य प्रययौ निजकार्यैकनिष्ठुरः ||१७|| मत्पुण्यैर्यूयमायाता वनेऽत्राऽतिथयो मम । इत्युक्त्वा भोजनस्थानं स निन्ये तान्महामुनीन् ॥१८॥ स्वार्थोपनीतैः पानान्नैः स मुनीन् प्रत्यलाभयत् । अन्यत्र गत्वा विधिना तेऽप्यभुञ्जत साधवः ॥ १९ ॥ ग्रामायुक्तोऽपि हि भुक्त्वा गत्वा नत्वाऽवदन्मुनीन् । चलन्तु भगवन्तोऽद्य पूर्मार्गं दर्शयामि वः ॥२०॥ ते तेन सह चेलुश्च प्रापुश्च नगरीपथम् । तरोरधश्चोपविश्य धर्मं तस्याऽऽचचक्षिरे ||२१||
१
१. नमो वीतरागाय ॥ अर्हं ॥ खं. १-२ | अर्हं ॥ खं. ४ । २. 'रक्षिकाय' खं. ४ टि. । ३. इवाऽनव्यो० खं. २ । ४. सोऽकृत्येभ्यः परा० खं. ३-४, मु. । ५. तपतो ० खं १-२ । सूर्यः । ६. मण्डपोस्तरो० खं. ४ । ७. अप्रतीक्ष्य । ८. 'कोटवाल' खं. ४ टि. ।