________________
॥ चतुर्थः सर्गः ॥
सूर्यकेणाऽन्यदा सुप्तः स जऽथ 'प्रबोधभाक् । जघान सूर्पकं मुष्ट्या सूर्पकस्तं मुमोच च ॥१॥ गोदयां पतितः शौरिस्तीर्त्वा कोल्लापुरे ययौ । पद्मश्रियं पद्मरथराजपुत्रीं व्युवाह च ॥२॥ तत्रापि नीलकण्ठेन हृतो मुक्तश्च सोऽपतत् । चम्पासरसि तत् तीर्त्वा मन्त्रिपुत्रीमुपायत ||३|| ततो हृतः सूर्पकेण मुक्तो गङ्गाजलेऽपतत् । ततोऽप्युत्तीर्य विचरन् ययौ पल्लीं सहाऽध्वगैः ॥४॥ पल्लीपतेर्जरानामकन्यां परिणिनाय च । अजीजनत् तत्र जरत्कुमारं नाम नन्दनम् ॥५॥ सोऽवन्तिसुन्दरी सूरसेनामथ नरद्विषम् । जीवयशसमपराश्चोपयेमे नृपात्मजाः ॥६॥ [गच्छन्तर्मेन्यदा मार्गे तमूचे देवता मया । दत्ता रुधिरराट्कन्या रोहिणी ते स्वयंवरे ॥७॥ त्वया तु पटहस्तत्र वाद्य इत्युदितस्तया । स जगामाऽरिष्टपुरे स्वयंवरणमण्डपम् ॥८॥ जरासन्धप्रभृतिषु तत्राऽऽसीनेषु राजसु । आययौ रोहिणी साक्षाद् भुवं प्राप्तेव रोहिणी ॥ ९ ॥ ते स्वं रुरोचयिषवस्तस्यै तत् तच्चिचेष्टिरे । स्वानुरूपमपश्यन्त्यै नैकोऽपि रुरुचे परम् ॥१०॥ कृतवेषान्तरः शौरिर्मध्यस्थस्तूर्यवादिनाम् । वादयामास पटहमेवं पाठस्फुटाक्षरम् ॥११॥ एह्येहि मां कुरङ्गाक्षि ! कुरङ्गीव किमीर्क्षसे ? । तवाऽनुरूपो भर्ताऽस्मि त्वत्सङ्गमसमुत्सुकः ॥१२॥ तच्छ्रुत्वा रोहिणी रोहेत्पुलका तन्निरीक्षणात् । स्वयंवरस्रजं कण्ठे वसुदेवस्य विन्यधात् ॥१३॥ जज्ञे राज्ञां कलकलो हतैनमिति भाषिणाम् । अनया तौर्थिको वव्रे प्रहासश्चेत्यभूद्भृशम् ॥१४॥ रुधिरं कोशलाधीशो दन्तवक्रोऽतिवक्रवाक् । सोपहासमुवाचैवं वैहासिक इवोच्चकैः ॥ १५ ॥ यदि "पाणविकायेयं कन्यका दित्सिता त्वया । तत्कुलीनाः कुलीनेन किमाहूता अमी नृपाः गुणानभिज्ञा चेदेषा वृणुते तौर्थिकं नरम् । नोपेक्षणीयं तत्पित्रा पिता बाल्ये हि शासिता ||१७|| ऊचे च रुधिरस्तेऽलं विचारेणाऽमुना नृप । । स्वयंवरे कन्यकानां प्रमाणं हि वृतो नरः ॥१८॥ अथोचे न्यायविदुरो विदुरः साध्विदं नृपः । तथाऽपि युज्यते प्रष्टुं वर एष कुलादिकम् ॥१९॥ वसुदेवोऽवदत् कोऽयं प्रस्तावः कुलकीर्तने ? । वृतोऽहमनया यस्माद् यादृशस्तादृशोऽपि सन् ॥२०॥ • असहिष्णुर्ममेमां योऽपहरिष्यति तस्य तु । कथयिष्यामि दोर्वीर्यदर्शनेनाऽऽत्मनः कुलम् ॥ २१ ॥ जरासन्धो निशम्याऽथ वचस्तस्येदमुद्धतम् । इत्यादिक्षन्नृपान् कुद्धः समुद्रविजयादिकान् ॥२२॥ राजविप्लवकृत्तावद्रुधिरोऽयं नृपाधमः । द्वितीयोऽयं पाणविको मत्तः पणवदनात् ॥२३॥ राजकन्या मयाऽप्याप्ततीयताऽपि न तृप्यति । वीतास्तोच्चद्रुफलाप्त्या खर्वाङ्ग इव दृप्यति ||२४|| ततो हतेमौ रुधिर-तौयिकौ तूर्णमेव भोः! । इत्युक्तास्ते युधेऽसज्जन् समुद्रविजयादयः ॥ २५ ॥ खेचरेन्द्रो दधिमुखः सारथीभूय स स्वयम् । रथेऽधिरोहयामास वसुदेवं रणोद्यतम् ॥२६॥ तदा वेगवतीमात्राऽङ्गारवत्याऽर्पिताऽन्यथ । आददे चाप - तूणानि शौरिः समरदुर्धरः ||२७|| भग्नं च रुधिरबलं जरासन्धस्य पार्थिवैः । वसुदेवो दधिमुखेनेरयामास वाजिनः ॥२८॥ आदावप्युत्थितं शत्रुञ्जयं यदुवरोऽजयत् । दन्तवक्रमभाङ्क्षीच्च शल्यराजं बभञ्ज च ॥२९॥ जरासन्धोऽथ साशङ्कं समुद्रनृपमब्रवीत् । न पाणविकमात्रोऽयमसाध्योऽन्यमहीभुजाम् ॥३०॥
॥१६॥
१. वसुदेवः । २. प्रमोदभाक् सं०ला । ३. गोलायां खं० २, ला० । ४. जराकुमारं पु० ला०२, पा० । ५. ० मन्यदा तत्र ता०सं०आ० । ० मन्यदाऽन्यत्र र० । ६. स्वस्मै सा रोचयेत' इत्येवमिच्छाभाजः । ७. ०मपश्यन्ती नैको० पु०पा०ला० । ० मपश्यन्त्यै न को० मु० । ८. ०मीक्ष्यसे खं० २ । ९. रोमाञ्चिता । १०. तूर्यवादयिता पटहवादक: । ११. विदूषकः । १२. वाद्यवादकाय । १३. दातुमिष्टा । १४. न्यायचतुरः । १५. ० वादनः खं० २ । १६. वातेन अस्तं क्षिप्तं यदुन्नतवृक्षफलं तस्य प्राप्त्या । १७. कुब्जः ।
For Private Personal Use Only
Jain Education International
www.jainelibrary.org