________________
चतुर्थः सर्गः)
श्रीत्रिषष्टिशलाकापुरुषचरितम् । जह्येनं स्वयमुत्थाय हतेऽस्मिन् रोहिणी तव । सर्वेषां भङ्गवैलक्ष्यमपाकुरु महीभुजाम् ॥३१॥ समुद्रविजयोऽप्यूचे परदारैः कृतं मम । त्वदाज्ञया तु योत्स्येऽहमनेन सह दोष्मता ॥३२॥ इत्युक्त्वा युयुधे भ्रात्रा समुद्रविजयोऽपि हि । विश्वाश्चर्यकरं जज्ञे शस्त्राशस्त्रि चिरं तयोः ॥३३॥ को न्वसौ मेऽप्यलमिति दध्यौ यावद् यदूत्तमः । वसुदेवः पुरस्तावत् साक्षरं बाणमक्षिपत् ॥३४॥ समुद्रस्तं गृहीत्वेषु तद्वर्णानित्यवाचयत् । वसुदेवो नमति त्वां निर्गतश्छद्मना तदा ॥३५॥ , पाअथ हृष्टो दशार्हेशो वत्स ! वत्सेत्युदीरयन् । सायं गौरिव वत्सोत्का दधावे रथमुत्सृजन् ॥३६॥ उत्तीर्य वसुदेवोऽपि न्यपतत् तस्य पादयोः । उद्धृत्य च समुद्रस्तं दोभ्या॑ सपदि सस्वजे ॥३७॥ वत्स ! वर्षशतं क्वाऽऽस्था इति पृष्टोऽग्रजन्मना । आचख्यौ वसुदेवः स्वं वृत्तान्तं सर्वमादितः ॥३८॥ समुद्रविजयो भ्रात्रा तादृग्विकमशालिना । यथाऽहृष्यत् तथा तेन जामात्रा रुधिरोऽपि हि ॥३९॥ जरासन्धः स्वसामन्तबन्धुं ज्ञात्वा च तं तथा । सम्प्राप कोपोपशमं मुदे हि स्वो गुणाधिकः ॥४०॥ प्रसङ्गमिलितै राजस्वजनैनितोत्सवः । जज्ञे विवाहः पुण्येऽह्नि रोहिणी-वसुदेवयोः ॥४१॥ रुधिरेणाऽर्चिता जग्मुर्जरासन्धादयो नृपाः । यादवंस्तत्र तस्थुस्तु वत्सरं कंससंयुताः ॥४२॥ पतत्राऽन्येधुर्वसुदेवोऽपृच्छद् रहसि रोहिणीम् । कथं त्वया नृपान् मुक्त्वा वृतः पाटहिकोऽप्यहम् ? ॥४३॥ साऽप्याचख्यौ सदा विद्यां प्रज्ञप्तिमहमार्चयम् । तयाऽऽख्यातं भविता ते दशार्हो दशमो वरः ॥४४॥ ज्ञेयः पटहवाद्येन स त्वया तु स्वयंवरे । ज्ञेयः तत्प्रत्ययादेव त्वं वृतोऽसि मया तदा ॥४५॥ सभास्थितेषु चाऽन्येद्युः समुद्रविजयादिषु । काऽप्यर्धजरती यच्छन्त्याशिषं खादवातरत् ॥४६॥ उवाच वसुदेवं सा बालचन्द्राजनन्यहम् । नाम्ना धनवतीपुत्र्याः कृते त्वां नेतुमागता ॥४७॥ सा पुत्री बालचन्द्रा मे पुत्रिका वेगवत्यपि । त्वप्रिलम्भविधुरे तिष्ठतस्ते दिवानिशम् ॥४८॥ ऐक्षिष्ट वसुदेवोऽपि समुद्रविजयाननम् । राजाऽप्यूचे याहि परं मा स्म स्थाः पूर्ववच्चिरम् ॥४९॥ राजानं क्षमयित्वाऽथ वसुदेवस्तया सह । ययौ गगनयानेन पुरे गगनवल्लभे ॥५०॥ समुद्रविजयोऽप्यागात् स्वं पुरं कंससंयुतः । तस्थौ च वसुदेवस्याऽऽगमने नित्यमुन्मुखः ॥५१॥ पित्रा काञ्चनदंष्ट्रेण खेचरेन्द्रेण कल्पिताम् । चन्द्रास्यां बालचन्द्रां तु वसुदेव उपायत ॥५२॥ पूर्वोढा वरयोषितो निजनिजस्थानादथाऽऽदाय सोऽन्वीतो व्योमचरैः पदातिभिरिवाऽत्युच्चैर्विमानस्थितः । औगाच्छौर्यपरं समद्रविजयेनोत्कण्ठितेनाऽऽदरादाश्लिष्टः प्रसरद्भजोर्मिपयसांपत्येव शीतद्युतिः ॥५३॥
॥ इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषे(षचरिते?) महाकाव्ये
अष्टमे पर्वणि वसुदेवहिण्डिवर्णनो नाम
चतुर्थः सर्गः ॥
१. अलम् । २. ०देवस्तं मु०र० । ३. यादवा० मु०। ४. त्वद्वियोगपीडिते । ५. विद्याधरैः । ६. आगात् सूर्यपुरम् ता०सं० ॥ ७. समुद्रेन। ८. चन्द्रः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org