________________
॥ पञ्चमः सर्गः ॥ इतश्च हास्तिनपुरे श्रेष्ठ्यभूत् कोऽपि तस्य च । ललिताख्योऽभवत् पुत्रो मातुरत्यन्तवल्लभः ॥१॥ श्रेष्ठिन्याश्चाऽन्यदा जज्ञे गर्भः सन्तापदो भृशम् । तया च विविधद्रव्यैः पात्यमानोऽपि नाऽपतत् ॥२॥ जातश्च पुत्रः श्रेष्ठिन्या दास्यै त्यक्तुं च सोऽपितः । दृष्टश्च श्रेष्ठिना पृष्टा किमेतदिति दास्यथ ॥३॥ असावनिष्टः श्रेष्ठिन्याऽत्याज्यतेति तयोदिते । श्रेष्ठी गृहीत्वा तं छनमन्यत्र 'समवर्धयत् ॥४॥ गङ्गदत्त इति नामाऽदत्त तस्य शिशोः पिता । मातुश्छन्नं ललितोऽपि लालयामास तं सदा ॥५।। पापितरं ललितोऽन्येधुरभ्यधत्त 'मधूत्सवे । भोज्यते गङ्गदत्तोऽद्य सह चेच्छोभनं तदा ।।६।। श्रेष्ठ्यूचे यदि ते माता तं पश्येत् तन्न शोभनम् । ललितोऽप्यब्रवीत् तात ! यतिष्ये तददर्शने ॥७॥ श्रेष्ठिनाऽपि ताँऽऽदिष्टो ललितो गङ्गदत्तकम् । तिरस्करिण्याऽन्तरितं भोजनार्थं न्यैषादयत् ॥८॥ पुरस्तात् स्वयमासीनौ तौ श्रेष्ठि-ललितौ तदा । भुञ्जानौ गङ्गदत्ताय भोज्यं छन्नं "स्म यच्छतः ।।९।। वातोद्भुते काण्डपटे श्रेष्ठिनी तं ददर्श च । केशैः कृष्ट्वा कुट्टयित्वा गृहस्रोतसि चाऽक्षिपत् ॥१०॥ उद्विग्नौ श्रेष्ठि-ललितौ श्रेष्ठिन्याश्छन्नमेव तम् । स्नपयित्वाऽबोधयतां गङ्गदत्तं महामती ॥११।। पातदा च साधवस्तत्र भिक्षार्थं समुपागताः । पृष्टाश्च ताभ्यां श्रेष्ठिन्यास्तत्पुत्रद्वेषकारणम् ॥१२॥ अथैकः साधुरित्याख्यदेकस्मिन् सन्निवेशने । अभूतां भ्रातरौ तौ तु बहिः काष्ठार्थमीयतुः ॥१३॥ काष्ठैर्भूत्वा तत्र गैन्त्रीमग्रस्थो ज्येष्ठ आपतन् । ददर्श पथि वेल्लंन्ती चळलुण्डां महोरगीम् ॥१४॥ सोऽप्यवोचत् कनीयांसं गन्त्र्याः सारथिमैत्र रे ! । गन्त्रीतो रक्षणीयेयं चर्कलुण्डा वराकिका ॥१५॥ तच्छ्रुत्वा सर्पिणी साऽपि हृष्टी विश्वासभागभूत् । तत्राऽऽयातः कनिष्ठस्तां दृष्ट्वा चैवमवोचत ।।१६।। ज्येष्ठेन रक्षिताऽस्तीयं तथाऽप्यस्या उपर्यहम् । नेष्ये गन्त्रीं श्रोतुमेतदस्थिभङ्गस्वरं मुदा ॥१७॥ तथा चक्रे स च क्रूरस्तच्छ्रुत्वा साऽपि पन्नगी । कोऽप्येष मम वैरीति चिन्तयन्ती व्या(व्य?)पद्यत ॥१८॥ सा जज्ञे तव भार्येयं ज्येष्ठो भ्राता विपद्य सः । अस्याः सूनुर्ललितोऽभूत् प्रियः प्राग्जन्मकर्मणा ॥१९॥ सोऽयं मृत्वा कनिष्ठोऽस्या अनिष्टः पूर्वकर्मणा । गङ्गदत्तः समुत्पेदे प्राक्तनं कर्म नाऽन्यथा ॥२०॥ ततो विरक्ता जगृहु: पिता पुत्रौ च ते व्रतम् । जग्मतुः श्रेष्ठि-ललितौ महाशुक्रमुभौ दिवम् ।।२१।। तत्तु मातुरनिष्टत्वं गङ्गदत्तः पुनः स्मरन् । विक्वाल्लभ्यनिदानी महाशुक्रं 'दिवं ययौ ॥२२॥ पाततश्च ललितजीवो महाशुक्रात् परिच्युतः । वसुदेवस्य भार्याया रोहिण्या उदरेऽभवत् ।।२३।। गजा-ऽब्धि-सिंह'-शशिनो विशतो रोहिणीमखे। स्वप्नेऽपश्यन्निशाशेषे हलभृज्जन्मसूचकान् ॥२४॥ रोहिणी रोहिणीशाभं समये सुषुवे सुतम् । तस्य जन्मोत्सवं चक्रू राजानो मागधादयः ॥२५॥ राम इत्यभिरामं च तस्य नामाऽकरोत् पिता । क्रमाच्च ववृधे रामः सर्वेषां रमयन् मनः ॥२६।। जग्राह च कलाः सर्वा रामो गुरुजनान्तिके । अम्लानप्रतिभादर्शसङ्क्रान्तसकलागमः ॥२७॥ पाअथाऽन्यदा वसुदेव-कंसादिपरिवारितम् । आगात् समुद्रविजयं स्वच्छन्दो नारदो मुनिः ॥२८॥
समुद्रविजयः कंसो वसुदेवोऽपरेऽपि च । अभ्युत्थाय तमानचुरुद्यन्तमिव भास्करम् ।।२९।। तेषां च पूजया प्रीतः क्षणं स्थित्वा च नारदः । उत्पपाताऽन्यतो गन्तुं स्वैरचारी सदा हि सः ॥३०॥ १. कालक्रमेण द्वितीयो ता० । २. तमवर्ध० खं० २ । ३. वसन्तोत्सवे । ४. तदा० ला० । ५. जवनिकया । ६. न्यषेद० मु० । ७. च मु० । ८. ०द्भूतेऽकाण्ड० मु० । ९. केशे खं० २ । १०. तथा मु० । ११. शकटम् । १२. लुठन्तीम् । १३. चक्क० मु० र० । १४. सारथिमग्रतः मु० । १५. चक्क० मु० र० । १६. हृष्ट्वा खं० २ । १७. ०कर्मण: ता०सं०ला० । १८. 'विश्ववल्लभो भविष्यामी'ति निदानकारी । १९. ०शुक्रदिवं मु० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org