________________
पञ्चमः सर्गः) ।
श्रीत्रिषष्टिशलाकापरुषचरितम् ।
पाकोऽसाविति च कंसेन पृष्टोऽवादीदिदं नृपः । पुरादस्माद् बहिर्यज्ञयशा: प्राक् तापसोऽभवत् ।।३१।। यज्ञदत्ता तस्य भार्या सुमित्रो नाम नन्दनः । अभूत् पत्नी सुमित्रस्य नाम्ना सोमयशा इति ॥३२॥ मध्याज्जृम्भकदेवानां देवश्च्युत्वाऽऽयुषः क्षये । आगात् सोमयशकुक्षौ सञ्जज्ञे चैष नारदः ॥३३॥ एकोहं तापसास्ते चोपोष्याऽहन्यपरे पुनः । उपेत्य वनमुञ्छन पारयन्ति सदाऽपि हि ॥३४।। तेऽन्यदा ययुरुञ्छायाऽशौकद्रौ न्यस्य नारदम् । ददृशुर्जुम्भकास्ते च तं बालमसमद्युतिम् ॥३५।। प्राग्जन्ममित्रमवधेत्विा ते नारदं तदा । अस्तम्भयन्नशोकस्य छायां तदुपरिस्थिताम् ॥३६।। ततो ययुः स्वकार्याय सिद्धार्था वलितास्तु ते । तं दृष्ट्वा जगृहु: स्नेहाद् वैताढ्याद्रौ च निन्यिरे ॥३७॥ तैर्देवैः स्तम्भितच्छायः सोऽशोकस्तत्प्रभृत्यपि । छायावृक्ष इति ख्यातो बभूव पृथिवीतले ॥३८॥ जुम्भकैः पालितो बालः स वैताढ्याद्रिकन्दरे । शिक्षितश्चाऽष्टवर्षः सन् विद्याः प्रज्ञप्तिकादिकाः ॥३९।। ताभिश्च व्योमगमनो नवमो नारदो मुनिः । एतस्यामवसर्पिण्यामयं चरैमविग्रहः ॥४०॥ मुनिना सुप्रतिष्ठेन त्रिकालज्ञानशालिना । उत्पत्तिर्नारदमुनेरियं हि कथिता मम ॥४१॥ कलिप्रियः प्रकृत्याऽयमवज्ञातश्च कुप्यति । एकत्र चाऽनवस्थायी सर्वत्राऽपि हि पूज्यते ॥४२॥ पाकंसेनाऽन्येधुराहूतः स्नेहादानकदुन्दुभिः । दशार्हेशमनुज्ञाप्य मथुरायां ययौ पुरि ॥४३॥ कंसस्तत्राऽन्यदा शौरिमूचे जीवयशोऽन्वितः । गरीयस्यस्ति नगरी नामतो मृत्तिकावती ॥४४॥ तस्यां मम पितृव्योऽस्ति देवको नाम भूपतिः । देवकी नाम तस्याऽस्ति देवकन्योपमा सुता ॥४५।। गत्वा परिणय त्वं तामेषोऽस्म्यनुचरस्तव । मा मे प्रणययाच्चाया अमुष्याः खण्डनं कृथाः ॥४६।। दाक्षिण्यनिधिरित्युक्तो दशार्हो दशमः स तु । चचाल सह कंसेन मार्गे चैक्षिष्ट नारदम् ॥४७।। विधिना शौरिकंसाभ्यामचितो नारदो मुनिः । प्रीतोऽपृच्छन् कुतो हेतोः कुत्र वा चलितौ युवाम् ? ॥४८।। उवाच शौरिः कंसेन सुहृदा चालितोऽस्म्यहम् । परिणाययितुं कन्यां देवकी देवकात्मजाम् ।।४९।। जगाद नारदः साधु कंसेनाऽऽरब्धमीदृशम् । निर्मायाऽप्यनुरूपाणां योगे धाताऽप्यपण्डितः ॥५०॥ रूपेणाऽप्रतिरूपस्त्वं वसुदेव ! यथा नृषु । नारीषु देवकसुता तथा सा खलु देवकी ॥५१॥ परिणीतास्त्वया बयः खेचर्योऽपि हि कन्यकाः । असारा मंस्यसे तास्तु नूनं “सम्प्रेक्ष्य देवकीम् ॥५२॥
अस्मिन्नुचितसंयोगे मा भूद् विघ्नः कुतोऽप्यतः । गत्वाऽऽख्यास्यामि देवक्यै वंसुदेव ! भवद्गुणान् ॥५३॥ पाइत्युक्त्वोत्पत्य स मुनिर्देवकीसदनं ययौ । तयाऽर्चितश्चाऽऽशीस्तेति वसुदेवो वरोऽस्तु ते ॥५४।। वसुदेवः क इत्युक्तस्तया स मुनिरब्रवीत् । युवा दशार्हो दशमो विद्याधरवधूप्रियः ॥५५।। किमन्यद् यस्य रूपेण तुल्या देवादयोऽपि न । वसुदेवः स इत्युक्त्वा नारदर्षिस्तिरोदधे ।।५६॥ युग्मम् । पातद्रीि हृदि देवक्या विवेशाऽऽनकदुन्दुभिः । औदितो मृत्तिकावत्यां पुर्यां तु क्रमयोगतः ।।५७|| देवकेनाऽचितौ तौ तु शौरि-कंसौ विवेकिनौं । आसयित्वाऽऽसनेऽनँधै पृष्टावागमकारणम् ॥५८।। कंसोऽप्यवोचदुचितां वसुदेवाय देवकीम् । प्रदापयितुमत्राऽऽगामिदमागमकारणम् ।।५९।। अवदद देवको नैष विधिः कन्यार्थमागमः । स्वयमेव वरस्येति दास्याम्यस्मै न देवकीम् ॥६०॥ एवं विलक्षौ तौ द्वाप्येयतः शिबिरं निजम् । अन्तःपुरं प्राविशत् तु देवकः पृथिवीपतिः ।।६।। पानमस्कृतोऽथ देवक्या देवकः परया मुदा । अनुरूपं वरं पुत्रि ! लभस्वेत्याशिषं ददौ ॥६२।। आख्यच्च देवको देव्यै वसुदेवाय देवकीम् । अद्य दापयितुं कंस उद्युक्तो मामयाचत ॥६३।। देवकी वसुदेवाय नाऽदां तद्विरहासहः । तच्छ्रुत्वा व्यषदद् देवी रुरोदोच्चैश्च देवकी ॥६४|| १. सोमयशा:० खं० २ । २. एकदिनम् । ३. धान्यकणादानेन । ४. ०याऽशोकाधो ता० सं० । ०याऽशोकांही की० ला० । ५. चरमशरीरः । ६. वसुदेवः । ७. मंस्यते ता०सं०ला० । मन्यसे मु० । ८. नूनं तां प्रेक्ष्य खं० २ । ९. रम्यानिव भ० खं० २ । १०. आशिषं ददौ । ११. तद्दिनाद् हृदि खं० २ । १२. आयातौ र० आगतो खं० २, ला० । आयातो खं० १, सू० । १३. विवेकिनौ खं० २ । १४. ०नये खं० १, ला० सू० । १५. वसुदेवस्य खं० २ । १६. द्वावपीयतुः खं० १-२, सू० विना ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org