________________
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं
(अष्टमं पर्व
देवकोऽपि तयोर्भावं सम्यक्ज्ञात्वैवमब्रवीत् । अलं विषादेन युवां प्रष्टुं ह्यहमिहाऽऽगमम् ॥६५॥ देव्यप्यूचे वसुदेवो देवक्या उचितो वरः । पुण्यैरस्याः स्वयमसावागाद् वरणहेतवे ॥६६॥ इत्युक्तो देवकः कंस-वसुदेवौ स्वमन्त्रिणा । सद्यः 'सम्मानयामास स्वयं पूर्वापमानितौ ॥६७।। जज्ञे विवाह: पुण्येऽह्नि देवकी-वसुदेवयोः । तारेतारं गीयमानैर्नवैर्धवलमङ्गलैः ॥६८॥ देवको वसुदेवाय ददौ स्वर्णादि भूरिशः । दशगोकुलनाथं च नन्दं गोकोटिसंयुतम् ॥६९।। पादशाह-कंसौ मथुरामीयतुर्नन्दसंयुतौ । सुहृद्विवाहोपज्ञं चाऽऽरेभे कंसो महोत्सवम् ॥७०॥ पूर्वोपात्तव्रतश्चाऽतिमुक्तः कंसानुजो मुनिः । तप:कृशाङ्गः कंसौकस्यागात् पारणहेतवे ॥७१।। तदा जीवयशाः कंसपत्नी मद्यवशंवदा । साधूत्सवदिनेऽमुष्मिन् देवराऽसि समागतः ॥७२।। नृत्य गायन्मया सार्धमित्यादि बहुधा तया । कण्ठे लगित्वा स मुनिरकर्थि गृहस्थवत् ॥७३।। सोऽपि ज्ञानी शशंसैवं यन्निमित्तोऽयमुत्सवः । तद्गर्भः सप्तमो हन्ता पति-पित्रोस्त्वदीययोः ॥७४।। पातां वाचं स्फूर्जथुनिभां श्रुत्वा जीवयशा द्रुतम् । भयाद् गतमदावस्था तं मुमोच महामुनिम् ॥५॥ गत्वा कंसाय साऽऽचख्यौ कंसोऽप्येवमचिन्तयत् । मोघीभवेद वज्रमपि न पुनर्मनिभाषितम् ॥७६।। न यावत् कोऽपि जानाति तावदानकदुन्दुभिम् । सप्ताऽपि देवकीगर्भान् याचे स्वयम॑नागतम् ॥७७।। याचितो देवकीगर्भान् न चेद् दास्यति मे सुहृद् । तदाऽन्यथा यतिष्येऽहं यथा स्यात् क्षेममात्मनः ॥७८।। विचिन्त्यैवं मदावस्थां नाटयन्नमदोऽपि सः । जगामोपवसुदेवं दूराद् विरचिताञ्जलिः ॥७९॥ अभ्युत्थाय दशार्हस्तमर्हति स्म यथोचितम् । स्वपाणिना परामृश्य ससंभ्रममुवाच च ॥८०॥ सुहृत् ! प्राणप्रियो मेऽसि किञ्चिद् वक्तुमना इव । प्रेक्ष्यसे च तदाऽऽचक्ष्व यद् ब्रवीषि करोमि तत् ॥८१॥ जगाद प्राञ्जालिः कंसः कृतार्थोऽग्रेऽप्यहं सखे ! । जरासन्धाज्जीवयशोदापनेन कृतस्त्वया ।।८२।। सप्तैतो देवकीगर्भान जातमात्रान् माऽपयेः । वसुदेवोऽप्युजुमनास्तत् तथा प्रत्यपद्यत ॥८३॥ युग्मम् ॥ वृत्तानभिज्ञा देवक्यप्यभ्यधादेवमस्त्विदम् । वसुदेवसुतानां च त्वत्सुतानां च नाऽन्तरम् ॥८४।। त्वयैव ह्यावयोर्योगो व्यधायि विधिनेव भोः ! । किमद्याऽनधिकारीव हे कंस ! व्याकरोष्यदः ? ॥८५।। दशार्होऽप्यवदत् सुभ्र ! पर्याप्तं बहुभाषितैः । जातमात्राः सप्त गर्भाः कंसायत्ता भवन्तु ते ॥८६॥ प्रसादोऽयं ममेत्यूचे कंसः क्षीबोपदेशतः । समं दशार्हेण सुयं पीत्वा च स्वगृहं ययौ ।।८७।।
अश्रौषीन् मुनिवृत्तान्तं पश्चादानकदुन्दुभिः । कंसेन छलितोऽस्मोति सत्यवागन्वतप्यत ॥८८॥ पाइतश्च भद्रिलपुरे श्रेष्ठीभ्यो नाग इत्यभूत् । श्रेष्ठिनी सुलसा नाम परमश्रावकौ च तौ ॥८९॥
अतिमुक्तश्चारणर्षिः सुलसायास्तु शैशवे । आचख्यौ यदसौ बाला निन्दुरेव भविष्यति ॥९०॥ तया च तपसाऽऽराधि नैगमेषी हरेः सुरः । तुष्टश्च याचितः पुत्रानूचे ज्ञात्वा तु सोऽवधेः ॥९१।। अहं हि देवकीगर्भान् हन्तुं कंसेन याचितान् । निन्दोस्ते गर्भसञ्चारादर्पयिष्यामि धार्मिकें! ॥९२॥ इत्युक्त्वा निजशक्त्या स देवकी-सुलसे समम् । रजस्वले व्यधात् ते च समं गुव्यौ बभूवतुः ।।९३।। समं च सुषुवाते ते मृतं गर्भं च सौलसम् । सञ्चार्य देवकीगर्भं सुलसायाः सुरो ददौ ॥९४।। एवं तयोस्तु षड्गर्भान् स सुरः पर्यवर्तयत् । कंसोऽपि निन्दुगर्भीस्तान् दृषद्यास्फालयद् दृढम् ॥९४॥ षट् च ते देवकीगर्भाः सुलसायाः स्वपुत्रवत् । गृहे सुखमवर्धन्त तस्या एव स्तनन्धयाः ॥९६।।
नाम्नाऽनीकयशोऽनन्तसेनावजितसेनकः । निहतारिदेवयशाः शत्रुसेनश्च ते १२त्वमी ॥९७॥ पाअथ देवक्यूतुस्त्राता सिहां-ऽर्का-ऽग्नि-गज-ध्वजान् । विमान-पद्मसरसी निशान्ते स्वप्न ऐक्षत ॥९८।।
च्युत्वा शुक्राद् गङ्गदत्तस्तस्याः कुक्षाववातरत् । गर्भं च धारयामास रत्नमाकरभूरिव ॥९९।। १. समानयामास मु० । २. तारतारं मु० । ३. मानीतै० खं०२। ४. गाय मया मु०र० । ५.वजनि?षतुल्याम् । ६. ०मनागतान मु० । ७. सप्तैतान् ला०, सप्तैतो र० । ८. ममार्पय ता०सं०ला० पु० । ९. मत्तत्वमिषतः । १०. भद्दिल० मु०र० । ११. मृतवत्सा । १२. धार्मिकि ! खं० १, ला० सू० । १३. न्वमी खं० २ । १४. स्वप्नमै० मु० र० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org