________________
पञ्चमः सर्गः)
श्रीत्रिषष्टिशलाकापुरुषचरितम् ।
७७
पुत्रं नभः सिताष्टम्यां निशीथेऽसूत देवकी। कृष्णं सदेवसान्निध्यं शत्रुदृक्पातघातिनम् ॥१०॥ तद्गृह्या देवताः कंसायुक्तान् यामिकपूरुषान् । स्वशक्त्या स्वापयामासुरुपभुक्तविषानिव ॥१०१।। देवक्यवोचदाहय पर्ति कंसेन पाप्मना । अमित्रेण मित्ररूपेणाऽसि वाचा नियन्त्रितः ॥१०॥ जातं जातं सुतं मेऽसौ हन्ति तन्माययाऽप्यमुम् । रक्ष पुत्रं न मायाऽपि पाप्मने भ्रूणरक्षिणाम् ॥१०३।। नन्दस्य गोकुले नीत्वा मुञ्चेमं मम बालकम् । गृहे मातामहस्येव तत्र वर्धिष्यते ह्यसौ ॥१०४॥ साधु साध्विति तां जल्पन् स्नेहार्दो यदुपुङ्गवः । बालमादाय निरगात् तद्गृहात् सुप्तयामिकात् ॥१०५।। दधुस्तस्योपरि च्छत्रं पुष्पवृष्टिं च चक्रिरे । उद्दण्डैरष्टभिर्दीपैर्मार्गोद्योतं च देवताः ॥१०६।। धवलर्षभरूपेण भूत्वाऽग्रे तस्य देवताः । द्वाराण्युद्घाटयामासुः पुर्या अन्यैरलक्षितम् ॥१०७॥ प्राप्तश्च गोपुरे शौरिरुग्रसेनेन भूभुजा । पृष्टश्च पञ्जरस्थेन किमेतदिति विस्मयात् ॥१०८॥ कंसस्य प्रत्यनीकोऽयमिति शौरिस्तमर्भकम् । दर्शयन्नुग्रसेनाय सहर्षमिदमभ्यधात् ॥१०९॥ त्वद्विषो निग्रहोऽमुष्मादमुष्माच्च तवोदयः । भविष्यति परं राजन्नाऽऽख्येयं कस्यचित् त्वया ॥११०॥ एवमस्त्विति तेनोक्ते शौरिनन्दगृहे ययौ । नन्दभार्या यशोदाऽपि तदैव सुषुवे सुताम् ॥१११।। सुतं दत्त्वा यशोदायै शौरिरादाय तत्सुताम् । आनीय देवकीपाश्र्वे सुतस्थानेऽमुचत् क्षणात् ॥११२॥ शौरिश्च निर्ययौ ते च प्रबुद्धाः कंसपूरुषाः । किं जातमिति जल्पन्तो ददृशुस्तत्र तां सुताम् ॥११३।। तां कंसस्याऽऽर्पयंस्तेऽथ दध्यौ कंसोऽपि यो मम । मृत्यवे सप्तमो गर्भः स स्त्रीमात्रमभूदसौ ॥११४॥ मन्ये मुनिवचो मिथ्याऽनया कि हतयेति सः । छिननाशापुटां कृत्वा देवक्यास्तां समार्पयत् ॥११५॥ पाकृष्णाङ्गत्वात् कृष्ण इति नाम्नाऽऽहूतः स बालकः । रक्ष्यमाणो देवताभिर्ववृधे नन्दवेश्मनि ॥११६।। देवकी तु गते मासे वसुदेवमभाषत । द्रष्टमुत्कण्ठिता पुत्रं तत्र यास्यामि गोकुले ॥११७।। ऊचे शौरिरकस्मात् त्वं यान्ती कंसेन लक्ष्यसे । उत्पाद्य कारणं तस्माद् गन्तुं देवकि ! युज्यते ॥११८॥ ततोऽन्विता बहुस्त्रीभिः सर्वतो गोपथेन गाः । अर्चन्ती गोकुलं गच्छेर्देवक्यपि तथाऽकरोत् ॥११९॥ श्रीवत्सलाञ्छितोरस्कं नीलोत्पलदलद्युतिम् । उत्फुल्लपुण्डरीकाक्षं चक्राद्यङ्ककर-क्रमम् ॥१२०॥ नीलरत्नमिवोन्मृष्टं यशोदोत्सङ्गवर्तिनम् । ददर्श हृदयानन्दं नन्दनं तत्र देवकी ॥१२१॥ युग्मम् ।। गोपूजाव्याजतो नित्यं ययौ तत्र च देवकी । ततः प्रभृति गोपूजाव्रतं प्रववृते जने ॥१२२॥ . तदा च पितृवैरेण सूर्पकस्याऽऽत्मजे उभे । वसुदेवापकारायाऽक्षमे शकुनि-पूतने ॥१२३॥ शाकिन्याविव पापिष्ठे यशोदा-नन्दवर्जितम् । कृष्णमेकाकिनं हन्तुमीयतुस्तत्र गोकुले ॥१२४॥ युग्मम् ॥ शकुनिः “शकटं चक्रे कृष्णोपरि कटुस्वरा । विषलिप्तं पूतना तु स्तनं कृष्णाननेऽक्षिपत् ॥१२५।। कृष्णसान्निध्यकारिण्यो देवतास्तत्क्षणादपि । तेनैव शकटेनोभे ते प्रहृत्य व्यपादयत् ॥१२६॥ नन्दस्तत्राऽऽगतोऽपश्यत् कृष्णमेकाकिनं स्थितम् । पर्यस्तं शकटं तच्च खेचौं ते च मारिते ॥१२७॥ मुषितोऽस्मीति जल्पंश्च कृष्णमड़े निधाय सः । साक्षेपमूचे गोपालान् पर्यस्तः शकटः कथम् ? ॥१२८॥ राक्षस्याविव रक्तस्ये के चैते गतजीविते ? । वत्सो ममाऽयमेकाकी स्वभाग्येनैव जीवितः ॥१२९॥ गोपा अप्यूचिरे स्वामिन् ! बालेन बलिना तव । पर्यस्तं शकटमिदमेते चैकेन मारिते ॥१३०॥ तच्छ्रुत्वा नन्द ऐक्षिष्ट सर्वेष्वङ्गेषु केशवम् । अक्षताङ्गं च तं प्रेक्ष्य यशोदामित्यभाषत ॥१३१॥ कथमेकाकिनं पुत्रं मुक्त्वा यास्यन्यकर्मसु ? । स्तोकान्मुक्तोऽयमद्यैवाऽपायेषु निपतन्निह ॥१३२।। सर्पिर्घटेष्वपि लठत्सृज्झित्वा कृष्णमेककम् । न त्वया क्वाऽपि गन्तव्यं पर्याप्तं तेऽन्यकर्मभिः ॥१३३।। इति श्रुत्वा यशोदाऽपि हा ! हताऽस्मीति भाषिणी । आघ्नाना पाणिना वक्षोऽभ्येत्य कृष्णमुपाददे ॥१३४।। १. श्रावण वदि ८ । २. तत्पक्षपातिनः । ३, स्थापया० खं० २ । ४. भ्रूणरक्षणात् मु० र० । ५. द्वारमुद्घा० ख० २ । ६. दुर्गद्वारे । ७. सूर्पनख्या० मु० विना सर्वप्रतिषु । ८. ०शकटारूढाधःस्थे कृष्णे कटु व्यरौत् खं० १, सू० विना । ९. पर्यस्तं शकटं ता०सं० । १०. रक्ताक्षे र० । ११. चैतेन खं० २। १२. नन्दः प्रैक्षिष्ट मु० र० । १३. संप्रेक्ष्य ता०सं०की० । १४. घृतघटेषु ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org