________________
कलिकालसर्वज्ञ श्रीहेमचन्द्राचार्यगुम्फितं
(अष्टमं पर्व
न क्षतोऽसीति पृच्छन्ती सर्वाङ्गेक्षणपूर्वकम् । कृष्णं चुचुम्ब शिरसि यशोदा सस्वजे । तम् ॥ १२२ ॥ आदरेण यशोदा तं नित्यं स्वयमधारयत् । उत्साहशीलः कृष्णस्तु छलेनेतस्ततो ययौ ॥१३६॥ ||दाम्नोदरेऽन्यदा कृष्णं तद्दामान्तमुर्दूखले । बद्ध्वा तद्यानभीता सा प्रतिवेश्मगृहं ययौ ॥ १३७ || तदा च सूर्पकसुतो वैरं पैतामहं स्मरन् । तत्रैत्याऽन्योऽन्यमासन्नयमलार्जुनतां ययौ ॥१३८॥ कृष्णं सोलूखलं पेष्टुं स तयोश्चाऽन्तरेऽनयत् । भङ्क्त्वाऽर्जुनतरू जघ्ने कृष्णदेवतयाऽथ सः ॥१३९॥ कलभेनेव कृष्णेनोन्मूलितौ यमलार्जुनौ । इति गोपमुखात् श्रुत्वा नन्दोऽभ्यागाद् यशोदया || १४० || तौ धूलिधूसरं कृष्णं स्नेहन्मूर्धिन चुचुम्बतुः । दामोदरेत्यूचिरे च तं गोपा दामबन्धनात् ॥१४१॥ वल्लवैर्ववीभिश्च सोऽत्यन्तं प्राणवल्लभः । उरस्यङ्के शिरसि चाऽऽरोप्यते स्म दिवानिशम् ॥१४२॥ जग्राह दधिसाराणि मन्थनीभ्यः स चापलात् । अवार्यमाणः स्नेहाद्रैगपैस्तत्कौतुकेंक्षिभिः ॥१४३॥ व्याहरन् विहरन् वाऽपि प्रहरन्नाहरन्नपि । यशोदा - नन्द - गोपानामानन्दाय बभूव सः || १४४ || अपायभीतास्ते धर्तुं तं यान्तं जातु नाऽशकन् । अन्वयुः केवलं स्नेहगुणपाशनियन्त्रिताः ॥१४५॥ ||दशार्होऽप्यशृणोत् तेन हते शकुनि पूतने । पर्यस्तं शकटं भग्नौ तौ चाऽपि यमलार्जुनौ ॥१४६॥ चिन्तयामास चैवं स गोपितोऽपि मया सुतः । स्वौजसा प्रथमानोऽस्ति मा ज्ञासीत् कंस एष तम् ॥ १४७॥ ज्ञात्वाऽपि किंञ्च माऽलं” भूत् कर्तुं सोऽस्मिन्नमङ्गलम् । ततः कृष्णस्य साहाय्ये सुतेभ्यः प्रेषयामि कैम् ? ॥१४८॥ अक्रूराद्याः कूरबुद्धेः कंसस्य विदिती हि ते । आदेष्टुं साधु रामस्तदद्याऽप्यविंदितोऽस्य सः ॥१४९॥ निश्चित्यैवं कोशलाया रोहिणीं रामसंयुताम् । शौरिरानाय्य 'सम्भाष्य प्रैषीच्छौर्यपुरे पुरे ॥ १५० ॥ राममाहूय सोऽन्येद्युः कथयित्वा यथातथम् । शिक्षां दत्त्वा सुतत्वेनाऽर्पयन्नन्द-यशोदयोः ॥ १५१ ।। तौ द्वौ दशधनुस्तुङ्गौ रेमाते सुन्दराकृती । निर्निमेषं वीक्ष्यमाणौ गोपीभिर्मुक्तकर्मभिः ॥१५२॥ कृष्णोऽध्यैष्ट धनुर्वेदमन्या अप्यखिलाः कलाः । रामस्य पार्श्वे गोपोपनीतोपकरणः सदा ॥१५३॥ कदाचित् सुहृदौ भूत्वा शिष्याचार्यो कदापि तौ । विविधं विचिचेष्टाते क्षणमप्यवियोगिनौ ॥ १५४॥ गच्छतो मत्तवृषभान् पुच्छे जग्राह केशवः । रामो भ्रातृबलं जानन्नुदासीन इवैक्षत ॥ १५५ ॥ यथा यथा हि ववृधे कृष्णस्तत्र तथा तथा । गोपीनां मान्मथो जज्ञे विकारस्तन्निरीक्षणात् ॥१५६॥ तं मध्येकृत्य हँल्लीसं चक्रुर्गोपालयोषितः । भ्रमन्त्यः परितोऽम्भोजं भ्रमर्य इव निर्भरम् ॥१५७॥ तं पश्यन्त्यो यथा गोप्यो नयने न ह्यमीलयन् । कृष्ण ! कृष्णेति जल्पन्त्यस्तथैवोष्ठपुटे अपि ॥१५८॥ कृष्णे गतमनस्कत्वात् पतिता अपि दोहनीः । अजानन्त्यो गवां दोहं भुवि चक्रुः कदापि ताः ॥१५९॥ कृष्णं पराङ्मुखं यान्तं सम्मुखीकर्तुमाशु ताः । अस्थानेऽनाटयंस्त्रासं त्रस्तत्राणपरो हि सः ॥ १६० ॥ सिन्दुवारादिदामानि ग्रथित्वा गोपिकाः स्वयम् । स्वयंवरस्स्रज इव निदधुः कृष्णवक्षसि || १६१॥ स्खलितं गीत-नृत्तादौ चक्रुस्ता बुद्धिपूर्वकम् । कृष्णाच्छिक्षापदेशेन प्रसादालापलिप्सवः ॥१६२॥ येन तेन प्रकारेण जजल्पुः पस्पृशुश्च तम् । अगोपितविकारास्ता गोपेन्द्रं गोपयोषितः ॥ १६३॥ मयूरपिच्छाभरणः कृष्णो गोपालगूर्जरी: । गोपालीभिरविच्छिन्नं पूर्यमाणश्रुतिंगी ||१६४ || कृष्णोऽत्यगाधवारिस्थान्यपि पद्मानि लीलया । तरन् हंस इवोद्धृत्य गोपीभ्योऽदत्त याचितः ॥१६५॥ दृष्टो हरति नश्चित्तमदृष्टो जीवितं पुनः । भवद्भ्रातेत्युपालम्भं ददू रामाय गोपिकाः ॥१६६॥ गिरिशृङ्गस्थितो वेणुं वादयन् मधुरस्वरम् । नृत्यंश्च हासयामास रामं रामानुजो मुहुः || १६७ ||
७८
१. ० मुलूखले ला०ता०सं० । २. प्रातिवेश्मगृहे मु० र० । प्रतिवेशि० खं० १, ला०सू० । प्रतिवेश० खं० २ । ३. समीपस्थअर्जुनवृक्षद्वयताम् । ४. सोदूखलं मु० २० । ५. ०र्जुनतरून् खं० १, ला० । ६. मोहान्मूर्ध्नि मु० । ७. ०रेऽतस्तं गोपा० खं० २ । ८. ०केक्षुभि: मु० । ९. कंसो मा० खं० १ । १०. नाडलं ला०पु०पा०की० । ११. किम् खं० २ । १२. विदिताश्च ते मु० । १३. ० विदितोऽस्ति सः ता०सं० । १४. संलाप्य ता०सं० । १५ प्रैषीत् सूर्यपुरे ता०सं० । १६. कामस्य । १७. स्त्रीणां रासकः । १८. ‘दोणी' इति भाषायां दुग्धभाण्डम् । १९. ० नृत्यादौ मु० । २०. प्रासादा० खं० २ । २१. गोपालगीतिकाः । गुर्जरीम् खं० २ । २२. गोपिकाभि० ला० । २३. ०श्रुतिं जगौ खं० १ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org