________________
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं
(अष्टमं पर्व
दधिपर्णो नलं नत्वाऽवदन्नाथोऽसि नः सदा । तत् क्षमस्व यदज्ञानात् त्वय्यकार्यमनुष्ठितम् ॥१०३९॥ पाअत्रान्तरे धनदेवः सार्थवाहो महद्धिकः । स आगादुपदापाणिर्द्रष्टुं भीमरथं नृपम् ॥१०४०॥
वैदर्भी सार्थवाहस्य तस्य पूर्वोपकारिणः । अकारयद् भीमनृपात् स्वबन्धोरिव गौरवम् ॥१०४१॥ ऋतुपर्णश्चन्द्रयशास्तत्सूता चन्द्रवत्यपि । वसन्तश्रीशेखरश्च स तापसपरेश्वरः ॥१०४२।।। तत्राऽऽययुर्दवदन्त्याऽऽायिताः पितृवाचिकैः । नितान्तमुत्कण्ठितया पूर्वोपकृतिलिप्तया ॥१०४३।। युग्मम् ।।
अतिसक्रियमाणास्ते नित्यं भीमेन भूभुजा । तस्थुर्मासं नवनवैरातिथ्यैः प्रीतचेतसः ॥१०४४॥ पअन्यदा तस्थुषां तेषां सर्वेषां भीमपर्षदि । प्रातर्देवो दिवः कश्चिदायासीद् भाप्लुताम्बरः ॥१०४५।। प्रोचे च प्राञ्जलिभैमी स तापसपतिः पुरा । त्वया विमलमत्याख्यः प्रबोधित इति स्मर ॥१०४६॥ स तापसपतिर्मत्वा सौधर्मेऽहं सुरोऽभवम् । श्रीकेसरोऽभिधानेन विमाने केसराभिधे ॥१०४७॥ अर्हद्धर्मे स्थापितोऽहं मिथ्यादृष्टिरपि त्वया । तेन धर्मेण देवोऽहमभूवं त्वत्प्रसादतः ॥१०४८|| इत्युक्त्वा च हिरण्यस्य कोटी: सप्त प्रवृष्य सः । क्वचिदन्तर्दधे देवः स्वां प्रकाश्य कृतज्ञताम् ॥१०४९॥ पावसन्त-दधिपर्णर्तुपर्णा भीमोऽपरेऽपि हि । महाबला महीपाला राज्येऽभिषिषिचुर्नलम् ॥१०५०॥ ते राजानो नलादिष्टाः स्वानि स्वानि बलान्यथ । सङ्कीर्णत्वं ददानानि पृथ्व्यां प्राज्यान्यमेलयन् ॥१०५१॥ शभेऽह्नि तैन्पैः सार्धं नलोऽतलपराक्रमः । राज्यलक्ष्मी जिघक्षः स्वामयोध्यामभ्यषेणयत् ॥१०५२॥ कैरप्यहोभिस्तरणि तिरयन् रतिवल्लभम् । अयोध्योपवनं गत्वाऽध्युवास रतिवल्लभम् ॥१०५३।। समागतं नलं ज्ञात्वा कूबरो वरवैभवम् । भिया कण्ठगतप्राण इवाऽभूद् भृशमाकुलः ॥१०५४|| पानलस्तं स्माऽऽह दूतेन देवनैर्दीव्यतां पुनः । ममैवाऽस्तु त्वदीया श्रीर्मदीयाऽपि तवाऽस्तु वा ॥१०५५॥ कूबरोऽपि रणशङ्कामपाकृत्य प्रमोदभाक् । पुन तं समारेभे जितँकासी हि तत्र सः ॥१०५६॥ सर्वामुर्वी जिगायाऽथ भाग्यवान्नैषधोऽनुजात् । भाग्ये हि विजयो नणां पाणिपञ मरोंलति ॥१०५७।। नलेन जितराज्योऽपि सोऽतिकूरोऽपि कूबरः । ममाऽनुजन्मायमिति नाऽप्रसादास्पदं कृतः ॥१०५८।। वैदर्भीजानिना राज्यमलङ्कृत्य निजं तदा । अरुषा कूबरश्चक्रे पूर्ववद्यौवराज्यभाक् ॥१०५९॥ नल: स्वं राज्यमासाद्य दवदन्तीयुतस्तदा । कोशलानगरीचैत्यान्युत्कण्ठावानवन्दत ॥१०६०॥ राज्याभिषेकमाङ्गल्योपायनानि महीभुजः । सर्वेऽप्यानिन्यिरे भक्त्या भरतार्धनिवासिनः ॥१०६१॥ सकलैरवनीपालैः पालिताखण्डशासनः । बहून्यब्दसहस्राणि भरतार्धं नलोऽशिषत् ॥१०६२॥ स्वर्गादन्येधुरागत्य निषधो देवभूयभाक् । विषयार्णवैपाठीनमिति प्राबोधयन्नलम् ॥१०६३।। भवारण्ये लुण्ट्यमानं सदा विषयतस्करैः । आत्मनोऽपि विवेकस्वमरक्षन् पुरुषोऽसि किम् ? ॥१०६४।। प्रव्रज्यासमयाख्यानं प्रतिपन्नं पुरा मया । तदिदानी परिव्रज्यां गृहाणाऽऽयुस्तरोः फलम् ॥१०६५।। इत्युक्त्वाऽन्तर्दधे देवस्तत्र चाऽभ्याययौ तदा । जिनसेनाभिधः सूरिरवधिज्ञानशेधिः ॥१०६६।। दवदन्ती-नलौ गत्वा ववन्दाते तमादरात् । पृष्टश्च प्राग्भवं ताभ्यामाख्यायैवमुवाच सः ॥१०६७॥ प्राप्तं राज्यं त्वया साधोः क्षीरदानात् तथा मुनौ । क्रोधाद् द्वादशघटिकाद् विरहो द्वादशाब्दिकः ॥१०६८।। इति श्रुत्वा पुष्कलाख्ये सुते राज्यं निधाय तौ । गृहीत्वा च व्रतं तस्मात् पालयामासतुश्चिरम् ॥१०६९।। नलोऽन्यदा तु भोगार्थी दवदन्त्यां मनोऽकरोत् । अथाऽऽचार्यैः परित्यक्तः पित्राऽऽगत्य प्रबोधितः ॥१०७०॥ अशक्नुवन् व्रतं कर्तुं प्रपेदेऽनशनं नलः । नले जातानुरागाऽथ दवदन्त्यपि तद् व्यधात् ।।१०७१॥ नलो मृत्वा कुबेरोऽहमभूवं सा तु भीमजा । मत्प्रियाऽजनि सा च्युत्वा शौरेः कनकवत्यभूत् ।।१०७२।। १. नृपं ज्ञात्वा० खं० २ । २. त्वय्यन्ना( न्या )य्यमनु० खं० १-२, ला० । ३. भीमनृपं ता०सं० विना । ४. पितृवाचकैः मु० २० । पितुः भीमनृपस्य वाचिकैः-सन्देशकैः । ५. कान्त्या दीपितं अम्बरं येन सः ॥६. ०तोऽस्मि खं० १-२, ला० । ७. आच्छादयन् । ८. ०काशी मु० २० । ९. मराल इव आचरति । १०. वैदर्भी जाया यस्य सः नल: तेन । ११. विषयसुखसमुद्रे मकरतुल्यम् । १२. लुट्यपानं खं०र० । १३. विवेकं ला०सू० । विवेक एव धनम्। १४. पुरुषो असि खं० २। १५. सेवधिः खं० २, ला० । १६. भोगार्थि आ० भोगार्थम् मु० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org