________________
तृतीयः सर्गः)
श्रीत्रिषष्टिशलाकापुरुषचरितम् । एते हि मध्यमा वाहा भवेयुर्या । एतावता तद् व्रजेयुः पञ्चाशद्योजनीमपि ॥१००४।। दधिपर्णनृपो दूरादनेकफलसङ्कलम् । अक्षाख्यं वृक्षमद्राक्षीदिति चोवाच सारथिम् ॥१००५।। अस्मिन् फलानि यावन्ति तावन्त्यगणयन्नपि । वेदम्यहं दर्शयिष्यामि व्यावृत्तः कौतुकं तव ॥१००६।। कुब्जो जगाद हे राजन् ! कालक्षेपाद् बिभेषि किम् ? । मा भैषीरश्वहृदयविदुरे मयि सारथौ ॥१००७।। एकमुष्टिप्रहारेण सर्वाणि पुरतस्तव । फलानि पातयिष्यामि मेघोऽम्भः पृषानिव ॥१००८॥ राजा प्रोवाच तर्हि त्वं फलानि कुब्ज ! पातय । अष्टादश सहस्राणि तेषां स्युः पश्य कौतुकम् ॥१००९।। कुब्जोऽप्यपातयत् तानि सङ्ख्याति स्म च भूपतिः । यथाख्यातानि चाऽभूवन्नैकं हीनं न चाधिकम् ॥१०१०॥ कुब्जोऽश्वहृदयविद्यां दधिपर्णाय याचिताम् । ददौ तस्मादाददे च सङ्ख्याविद्यां यथाविधि ॥१०११॥ प्रातर्विदर्भाभ्यर्णेऽगात् सरथः कुब्जसारथिः । दधिपर्णनृपश्चाऽभूत् पद्मवद् विकसन्मुखः ॥१०१२॥ पातदैव च निशाशेषे वैदर्भी स्वप्नमैक्षत । यथावत् कथायामास पितुरग्रे च हर्षभांक् ॥१०१३।। मया निर्वृतिदेव्यद्य निशान्ते सुखसुप्तया । अदर्शि कोशलोद्यानं तयेहाऽऽनीतमम्बरे ॥१०१४।। पुष्पितं फलितं चूतं चाऽऽरूढाऽस्मि तदाज्ञया । विकस्वरं सरोजं च मम हस्ते तयाऽर्पितम् ॥१०१५।। मयि तत्राऽधिरूढायां कश्चिदेको विहङ्गमः । पुराधिरूढो धेसिति पपात धरणीतले ॥१०१६॥ भीमोऽप्युवाच हे पुत्रि ! स्वप्नोऽयमतिशोभनः । तथाऽऽह निर्वृतिर्देवी पुण्यराशिस्तवोद्यतः ॥१०१७॥ खे दृष्टं कोशलोद्यानं कोशलैश्वर्यदं तव । माकन्दारोहणात् पत्या सह सङ्गस्यसे द्रुतम् ॥१०१८॥ अग्रे तत्राऽधिरूढश्च यः पपात विहङ्गमः । स कूबरनृपो राज्यात् पतिष्यति न संशयः ॥१०१९।। प्रभातसमये स्वप्नदर्शनादद्य ते नलः । मिलिष्यत्यत्र काले हि स्वप्नः शीघ्रं फलप्रदः ॥१०२०।। पातदानीमेव पूार सम्प्राप्तो दधिपर्णराट् । पुमांश्च मङ्गलो नाम भीमायाऽऽख्यात् तमागतम् ॥१०२१॥
भीमोऽभ्यगाद् दधिपर्ण परिरेभे च मित्रवत् । गृहार्पणादिनाऽऽतिथ्यं कृत्वा चैवमवोचत ॥१०२२।। सूर्यपाकां रसवती कुब्जस्ते वेत्ति सूपकृत् । तां दर्शय दिदृक्षोर्मे वार्तया कृतमन्यया ॥१०२३॥ आदिक्षद् दधिपर्णोऽपि कुब्जं रसवतीकृते । सोऽपि तां दर्शयामास कल्पवृक्ष इव क्षणात् ॥१०२४॥ भीमस्तया रसवत्या बुभुजे सपरिच्छदः । दधिपर्णोपरोधेन तत्स्वादं च परीक्षितुम् ॥१०२५॥ स्थालं तदोदनभृतमानाय्य दवदन्त्यपि । बुभुजे तद्रसास्वादादज्ञासीत् कुब्जकं नलम् ।।१०२६।। भैम्यूचे च ममाऽऽख्यातं ज्ञानिना सूरिणा पुरा । सूर्यपाका रसवती नलस्यैवेह भारते ॥१०२७।। अयं कुब्जोऽस्तु कुण्टोऽस्तु यादृशस्तादृशोऽस्तु वा । कारणं तत्र किमपि नल एव न संशयः ॥१०२८॥ नलस्यैका रसवती परीक्षाऽन्याऽपि विद्यते । नलाङ्गल्याऽप्यहं स्पृष्टा भवाम्युत्पुलका खलु ॥१०२९॥ कुब्जोऽङ्गल्या स्पृशतु मां तिलकं रचयन्निव । अभिज्ञानान्तरेणेष भवेद् यदि पुननेलः ॥१०३०।। कुब्जो नलोऽसीति पृष्टः प्रोचे भ्रान्ताः स्थ सर्वथा । क्व नलो देवतारूपः ? क्वाऽन) द्रष्टुमप्यहम् ? ॥१०३१॥ तद्वक्षोऽस्पृक्षदङ्गल्या कुब्जोऽथाऽत्युपरोधतः । अतिलाघवतः पत्रमिवाऽऽर्द्राक्षरमार्जकः ॥१०३२॥ तावताऽप्यङ्गलिस्पर्शेनाऽऽनन्दाद्वैतदायिना । भैम्याः कर्को टेकमिवाऽजनिष्टोत्कण्टकं वपुः ॥१०३३॥ सुप्तां तदा मामत्याक्षीरिदानी क्व नु यास्यसि । चिरात् प्राणेश ! दृष्टोऽसीत्यवोचद् भीमजा मुहुः ॥१०३४॥ नीतो गृहान्तरेऽभ्यर्थ्य कुब्जो बिल्वात् करण्डकात् । आकृष्य वस्त्रा-ऽलङ्कारानामुयॊऽभूत् स्वरूपभाक् ॥१०३५।। पाततश्च भीमतनया यथारूपं निजं पतिम् । तमालिलिङ्ग सर्वाङ्गमपि वल्लीव पादपम् ॥१०३६॥ समागतं पुनारे नलं कमललोचनम् । आलिङ्गयाऽध्यासयामास भीमः सिंहासने निजे ॥१०३७।।
त्वं स्वामी सर्वमेतत ते समादिश करोमि किम् ?। एवं वदन भीमरथो वेत्रीवाऽस्थात् कृताञ्जलिः ॥१०३८॥ १. सत्तमाः पा० । नूत्तमाः मु० । २. बिभीतकवृक्षम् । ३. बिन्दून् । ४. हर्षवाक् खं० २ । ५. झटिति खं० १, ला० सू० विना । ६. शीघ्रफलप्रद: खं० १-२ । ७. तदागमम् ता०सं० । ८. कुण्ठो० ता० सं० पु० । ९. रोमाञ्चिता । १०. ०न्तरेणैव मु० र० । ११. बिल्ववृक्ष इव । १२. परिधाय ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org