________________
६८
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं
(अष्टमं पर्व
महासत्या दवदन्त्या महापुंसो नलस्य च । कथां तवाऽऽख्यातवतः स्वागतं कि विधीयताम् ? ॥९७१।। इत्युक्त्वा विदधे स्नान-भोजनादिभिरौचितीम् । तस्याऽदाच्च दधिपर्णदत्तमाभरणादि सः ॥९७२॥ कुशल: कुशलेनाऽथ कुण्डिनं नगरं ययौ । यादृष्टं च तं कुब्जं भैमीपित्रे शशंस च ॥९७३॥ कुब्जो यथा खेदयति स्माऽऽरुरोह च तं गजम् । तथाऽऽख्यत् सूर्यपाकां च दृष्टां रसवतीं द्विजः ॥९७४।। हेममालां टङ्कलक्षं वस्त्रालङ्कारणानि च । आख्यत् कुब्जेन दत्तानि श्लोकगानं च तन्निजम् ॥९७५।। भैम्यूचे स नलस्तात ! प्राप्तो वैरूप्यमीदृशम् । केनाऽप्याहारदोषेण कर्मदोषेण वा खलु ॥९७६।। कौशलं गजशिक्षायां दानमद्भुतमीदृशम् । सूर्यपाको रसवती नाऽन्यस्याऽस्ति नलं विना ॥९७७।। तात ! केनाऽप्युपायेन तं कुब्जकमिहाऽऽनय । यथा स्वयं परीक्षेऽहं तं निरीक्ष्येङ्गितादिभिः ॥९७८।। भीमराजोऽवदत् पुत्रि ! तवाऽलीकस्वयंवरम् । प्रारभ्य दधिपर्णस्याऽऽह्वानाय प्रेष्यतां नरः ॥९७९।। तव स्वयंवरं श्रुत्वा दधिपर्णः समेष्यति । सोऽग्रेऽपि त्वयि लुब्धोऽभूद् वृतः किंतु नलस्त्वया ॥९८०।। दधिपर्णेन च सह स कुब्जोऽप्यागमिष्यति । त्वामन्यस्मै दीयमानां न सोढा स हि चेन्नलः ॥१८१।। नलोऽश्वहृदयज्ञोऽस्ति स कुब्जो नल एव चेत् । रथाश्वैरेव विज्ञेयः सं स्वयं प्रेरयन् रथम् ॥९८२॥ तस्य च प्रॉजतो वाहाः स्युः समीरणरंहसः । वाहरूपेण सम्प्राप्ता मूर्ता इव समीरणाः ॥९८३॥
आसन्नं दिनमाख्येयं यस्तता नलो हि सः । न स्त्रीपरिभवं कोऽपि सहते किं पुनर्नलः ? ॥९८४|| पादूतेन सुंसुमारेशं भीमराट् पञ्चमीदिने । आह्वादागमैनप्रश्चिन्तयामास चेति सः ॥९८५।। भैमी प्रेप्स्योऽतिदूरे सा तत्र श्वो गम्यते कथम् ? । किं करोम्यरति प्राप्तो मीनः स्तोक इवाऽम्भसि ॥९८६।। कुब्जो दध्यौ सती भैमी नाऽन्यं पुरुषमिच्छति । इच्छेद् वा तर्हि तां को हि गृह्णीयान्मयि सत्यपि ॥९८७।। दधिपर्णं विदर्भायां षड्भिर्यामैर्नयाम्यहम् । अनेन सह मेऽपि स्याद् यानं प्रासङ्गिकं यथा ॥९८८॥ ऊचे च दधिपर्णं स मा ताम्य ब्रूहि कारणम् । न ह्यनाख्यातरोगस्य रोगिणोऽपि चिकित्सितम् ॥९८९।। दधिपर्णोऽवदत् कुब्ज ! कथाशेषो नलोऽभवत् । स्वयंवरं पुनरपि वैदर्भी श्वः करिष्यति ॥९९०।। चैत्रस्य शुद्धपञ्चम्यां भावी तस्याः स्वयंवरः । षड्याम्येवाऽन्तरे तस्यै गतिः का मे भविष्यति ? ॥९९१।। बहुभिदिवसैर्दूतोऽप्यागात् तेनैव वर्त्मना । सार्धेनाऽह्ना कथं यामि ? भैमीलुब्धो मुधाऽस्म्यहम् ॥९९२॥ कुब्जो जगाद हे राजन् ! मा विषीदाऽचिरादपि । नेष्यामि त्वां विदर्भायां रथं साश्वं ममाऽपय ॥९९३।। गृहाण स्वैरमित्युक्तो राज्ञा कुब्जो वरं रथम् । जग्राह जात्यावश्वौ च सर्वलक्षणलक्षितौ ।।९९४।। दध्यौ च दधिपर्णस्तं कुशलं वीक्ष्य सर्वतः । न सामान्यः पुमानेष देवो वा खेचरोऽथवा ॥९९५।। रथं कृत्वा च युक्ताश्वं कुब्जः प्रोवाच तं नृपम् । रथमारोह नेष्यामि विदर्भा त्वां निशात्यये ॥९९६।। राजा स्थगीधरश्छत्रधरश्चामरधारिणौ । कुब्जश्च षडमी सज्जीकृतमारुरुहू रथम् ॥९९७।। तद्विल्वं तं करण्डं च कट्यामाबध्य वाससा । स्मृत्वा पञ्चनमस्कारं कुब्जो रथ्यानखेटयत् ॥९९८।। रथः प्रवीर्य मानाश्वो नैषधिनाऽश्वहृद्विदा । जगाम स्वामिचित्तेन विमानमिव नाकिनः ॥९९९।। प्रच्छेदो दधिपर्णस्य रथवेगानिलोद्भुतः । अथाऽपतत् कृतस्तेन नलस्येवाऽवतारणे ॥१०००। दधिपर्णोऽवदत् कुब्जं मुहूर्त धार्यतां रथः । वातेनोड्डीय खगवद् गतां गृह्णाम्यहं पटीम् ॥१००१॥ दधिपर्णनृपो यावदवादीदिति कुब्जकम् । तावद् रथो व्यतीयाय पञ्चविंशतियोजनीम् ॥१००२।। स्मयमानोऽवदत कब्जः कोऽस्ति ते नपते ! पटी? । पटीपाताद योजनानां पञ्चविंशतिरुज्झिता । १. विधीयते ला० । २. दिकम् सू० । ३. तथा दृष्टं ला० । ४. तथाऽऽख्यात् मु० र० । ५. ०पाकरसवती मु० र० । ६. ततः खं० २। ७. तत् स्वयं मु० र० । ८. प्रेरयतः अश्वाः । ९. वायुवेगाः । १०. यस्तदैति मु० । ११. आगमने आतुरः । १२. चेतसि मु० र० । १३. भैमीप्रेप्सा मु० र० । १४. चिकित्सनम् खं० २ । १५. षडेव प्रहरा अन्तरे सन्ति । १६. तस्याः खं० २, सू० । १७. अश्वान् अनोदयत्। १८. प्रचीय० मु० । १९. उत्तरीयवस्त्रम् । २०. निलोद्धत: खं० १-२, ला० सू० । २१.
काऽस्ति धात्रीश ! ते पटी खं० २ । Jain Education International
For Private & Personal Use Only
www.jainelibrary.org