________________
कलिकालसर्वज्ञ श्रीहेमचन्द्राचार्यगुम्फितं
ररासाऽश्वखुरक्षुण्णा कांस्यतालमिवाऽवनिः । अचित्र्यन्त च पन्थौनो रेखाभिरभितोऽनसाम् ॥३७४॥ मिथो नीरन्ध्रगमनैः पादातैर्भूरदर्शिन । क्रमेलकैश्च निष्पत्राः क्रियन्ते स्माऽध्वपादपाः || ३७५।। सैन्यैः पीताम्भसोऽभूवन् पङ्कशेषा जलाशयाः । सैन्यरेणुभिरुद्भूतैर्भूर्द्वितीयेव खेऽप्यभूत् ||३७६ ॥ चतुर्भिः कलापकम् ॥ गच्छतो निषधस्याऽस्तमन्तरालेऽप्यगाद् रविः । ब्रह्माण्डं तमसाऽपूरि वामलूर इवाऽम्भसा ||३७७ ।। न व्यरंसीत्तु निषधः स्वपुरीदर्शनोत्सुकः । स्वस्थानगमनोत्कण्ठा कस्य न स्याद् बलीयसी ? ॥३७८॥ न स्थलं न जलं नाऽपि गर्तावृक्षादिकं न च । अलक्ष्यत तमस्येकातपत्रत्वमुपेयुषि ॥३७९ || तमसा रुद्धदृक्कर्म चतुरिन्द्रियतां गतम् । सैन्यं दृष्ट्वाऽङ्कशयितां दवदन्तीं नलोऽवदत् ||३८०|| देवि ! क्षणं प्रबुध्यस्व तमसोपद्रुतं बलम् । स्वकीयतिलकादित्यं प्रकाशय यशस्विनि ! ॥ ३८१ ॥ उत्थाय दवदन्ती स्वं ललाटं पर्यमार्जयत् । स चाऽदीपिष्ट तिलकस्तमोऽहिगरुडो भृशम् ॥३८२॥ ततश्च गन्तुमारेभे निर्विघ्नमखिलं बलम् । विनाऽऽलोकेन लोको हि जीवन्नपि परौसुवत् ॥ ३८३॥ लेलिह्यमानं भ्रमरैः पद्मखण्डमिवाऽग्रतः । तस्थिवांसं प्रतिमया ददर्शैकं मुनिं नलः ॥ ३८४॥ ऊचे च पितरं स्वामिन् ! महर्षिर्दृश्यतामसौ । वन्द्यतां च गृह्यतां च पथः प्रासङ्गिकं फलम् ॥३८५॥ कायोत्सर्गे स्थितोऽयं हि केनचिन्मत्तदन्तिना । गण्डकण्डूयियिषेया द्रुमवत् पर्यघृष्यत ॥३८६॥ भृशं तद्गण्डकण्डूतिसङ्क्रान्तमदसौरभात् । दश्यमानो मधुकरैः सहतेऽसौ परीषहम् ॥३८७|| ध्यानान्न चालितश्चैष मत्तेनाऽपि हि दन्तिना । स्थिरपादो गिरिरिव पुण्यैर्दृष्टोऽयमन्तरे ||३८८|| जातश्रद्धोऽथ निषधः सपुत्रः सपरिच्छदः । क्षणं सिषेवे तमृषिं प्राप्तं तीर्थमिवोत्तमम् ॥३८९॥ नलः सदारो निषध - कूबरौ चाऽपरेऽपि हि । नत्वोप श्लोक्य निरुपद्रवं कृत्वा च तं ययुः ॥ ३९० ॥ कोशलायाः परिसरमासाद्य च नलोऽवदत् । इयं हि नः पुरी देवि ! जिनायतनमण्डिता ॥३९१|| दवदन्त्यपि तत्कार्लेमुत्कण्ठोत्कण्ठितां ययौ । तच्चैत्यदर्शनादुच्चैः केकिनीवाऽब्ददर्शनात् ॥३९२॥ अभ्यधत्त च धन्याऽस्मि यया लब्धो नलः पतिः । वन्दिष्यन्ते मयाऽमूनि चैत्यानि प्रतिवासरम् ॥३९३॥ प्रारब्धमङ्गलाचारां सर्वतस्तोरणादिभिः । प्रविवेश विशांनीथः शुभेऽह्नि नगरीं निजाम् ॥ ३९४ ॥ नलश्च दवदन्ती च तत्र स्वैरविहारिणौ । जलक्रीडां विदधतुर्हंसाविव कदाचन ॥ ३९५॥ मिथः संवलितैकैकदोः सनाथीकृतोरसौ । अन्वभूतां कदाचिच्च दोलान्दोलनजं सुखम् ||३१६॥ स्वयं कदाचिद् ग्रथितैः पुष्पैरतिसुगन्धिभिः । विचित्रबन्धं धम्मिल्लं पूरयामासतुर्मिथः ||३९७|| बन्ध-मोक्ष-गम-चरचतुरौ दुस्तराशयौ । कदाचिदक्षद्यूतेन चिक्रीडतुरनाकुलौ ॥३९८॥ आतोद्यानि ततादीनि क्रमशः परिवादयन् । नलः कदाचिद् रहसि दवदन्तीमनतर्यत् ॥ ३९९ ॥ एवं नल-दवदन्त्याववियुक्तौ दिवानिशम् । लीलायितैर्नवनवैः कियत्कालमतीयतुः ॥४००॥ अन्येद्युर्निषधो राजा स्वे राज्येऽस्थापयन्नलम् । कूबरं यौवराज्ये तु स्वयं च व्रतमाददे ||४०२ ॥ नलोऽपि पालयामास प्रजमिव निजां प्रजाम् । तत्सुखेन सुखी दुःखी तद्दुःखेन च सर्वदा ||४०२|| बुद्धि-विक्रमसम्पन्नं निःसपत्नं भुजौजसा । अलं नलं जेतुमभूद् भूपतिः कोऽपि नाऽपरः ||४०३ ॥ नलः पप्रच्छ चाऽन्येद्युः सामन्तादीन् क्रमागतान् । किं पित्रोपार्जितामेव शास्मि भूमिमुताऽधिकाम् ? ॥४०४||
५०
(अष्टमं पर्व
१. ०खर० मु० । २. वर्त्मानो ला० सू० । ३. रथानाम् । ४. पदातै० सू० विना । ५. ०र्भूरदर्शना मु० । ६. ०स्याध्वन्यन्त० ला० । ७. वामलूरमिवा० खं० २, ला० विना । वामलूरो वल्मीकः । ८. व्यरंसीच्च मु० र० । ९. गर्तो वृक्षा० २० । १०. विबुध्यस्व की० ला० २ । ११. तमसोपहतं ता०सं० । १२. तमांसि एव सर्पास्तेषु गरुडः । १३. मृत इव । १४. गण्डू० ला० । १५. ० कण्डूजिघृषया खं० २ । १६. व्यमन्तरा मु०, खं० २, ला० । १७. स्तुत्वा । १८. कोसला० खं० १-२, सू० । १९. तत्कालमकुण्ठोत्कण्ठिता खं० १ सू० । ०तत्कालं शीघ्रमुत्कण्ठिता खं० २ । ०मुत्कण्ठिता ला० । २०. ०चारः ला० । २१. पृथ्वीपतिः । २२. संचलितै ० मु० २० । २३. ०मतीययुः खं० १ । २४. ०राज्ये च सुतं निजम् । निवेशयामास नलं स्वयं० खं० २ । २५. लालया० खं० २ । २६. लीलया नीतिवित् प्रजाम् खं० २ । २७ गुणज्येष्ठं खं० २ ।
Jain Education International
For Private Personal Use Only
www.jainelibrary.org