________________
तृतीयः सर्गः )
श्रीत्रिषष्टिशलाकापुरुषचरितम् ।
क्ष्मापतिः शशलक्ष्माऽयं जयर्केशरिनन्दनः । श्रीनन्दनसमो मूर्त्या किमाकर्षति ते मनः ? ||३४२ ॥ जह्रुसूर्यज्ञदेवोऽयमादित्यकुलमण्डनः । नृपतिर्भृगुकच्छेशो महेच्छेऽमुं किमिच्छसि ? ॥३४३ || भरतेशकुलोत्तंसो नृपोऽयं मानवर्धनः । विश्वप्रतीतं तदमुं पतिं वृणु पतिंवरे ! ||३४४|| कुसुमायुधपुत्रोऽयं नृपतिर्मुकुटेश्वरः । किमस्य रोहिणीवेन्दोः पत्नी भवितुमर्हसि ||३४५|| कोशलानामधीशोऽयं निषधोऽरिनिषेधकृत् । ऋषभस्वामिकुलजो राजा संविदितोऽस्तु ते ॥ ३४६|| अस्यैव तनयः सोऽयं नलो नाम महाबलः । तवाऽस्त्वभिमतो यद्वा कूबरोऽयं नलानुजः ||३४७|| दवदन्त्यपि तत्कालं नलस्य गलकन्दले । स्वयंवरस्रजं न्यास्थल्लक्ष्मीरिव मुरद्विषः ||३४८|| अहो ! सुष्ठु वृतं सुष्ठु वृतमित्यम्बरे गिरः । खेचराणां प्रादुरासन् वृते सति तया नले ||३४९|| [[अथैकैखड्गमाकृष्य धूमकेतुमिवाऽपरम् । कृष्णराजकुमारो द्रागुत्थाय नलमाक्षिपत् ॥३५०|| स्वयंवरस्त्रक् क्षिप्तेयं दवदन्त्या वृथैव ते । नह्येतां मयि सत्यन्यः कश्चिदुद्वोढुमीश्वरः ॥३५१|| तन्मुञ्च भीमतनयां नो वा भव धृतायुधः । कृष्णराजमनिर्जित्य भविष्यसि कृती कथम् ? ॥३५२॥ स्मयमानो नलोऽवादीदरे क्षत्रियपांसन ! । दवदन्त्या वृतो न त्वमिति किं दूयसे मुधा ? ||३५३|| वृतोऽस्मि दवदन्त्याऽहं तदिमां परयोषितम् । इच्छस्यघमनादृत्य तथाऽपि न भवस्यरे ! ||३५४ || इति निस्त्रिंशमाकृष्य नर्तयामास पाणिना । नलोऽनल इवाऽसह्यतेजाः क्रोधधुताधरः || ३५५ || नलस्य कृष्णराजस्य चाऽनीकमुभयोरपि । सद्यः संवर्मयामास धृर्तमर्माविदायुधम् ||३५६|| दध्यौ च दवदन्त्येवं धिगहो ! मन्निबन्धनः । उपस्थितोऽयं प्रलयः क्षीणपुण्या किमस्म्यहम् ? || ३५७|| आर्हती यद्यहं तर्हि मातः ! शासनदेवते ! । नलोऽस्तु विजयी क्षेममस्तु चाऽनीकयोर्द्वयोः || ३५८।। इत्युक्त्वा वारिभृङ्गारमुपादाय तदम्भसा । चिक्षेपाऽनर्थशान्त्यर्थं दवदन्ती छटात्रयम् ॥३५९॥ कृष्णराजोऽथ तद्वारिच्छटाच्छोटितमस्तक: । अङ्गार इव निर्वाणो निस्तेजास्तत्क्षणादभूत् ||३६०॥ तदा शासनदेव्याश्च प्रभावात् कृष्णभूपतेः । करात् पपात निस्त्रिंशः पक्वपत्रमिव द्रुमात् ॥ ३६१|| हतप्रभावो दध्यौ च कृष्णोऽहिरिव निर्गरः । न सामान्यो नलोऽमुष्मिन्न विमृश्य व्यभषिषि ॥३६२॥ तदयं प्रणिपातार्ह इति कृष्णो विचिन्तयन् । प्राणमन्नलपादानां प्रेषणायातदूतवत् ॥३६३॥ उवाच च विनीतः सन् ललींटघटिताञ्जलिः । अविमृश्य कृतं स्वामिन् ! मूर्खस्याऽऽगः सहस्व मे || ३६४|| नलोऽपि कृष्णं सैम्भाष्य व्यसृजत् प्रणिपातिनम् । भीमोऽपि जामातृगुणैर्मेने पुण्यवतीं सुताम् ॥३६५॥ ||भीमः सत्कृत्य सत्कृत्य नृपानन्यान् विसृज्य च । नलस्य दवदन्त्याश्च व्यैधादुपयमोत्सवम् ॥ ३६६॥ नलस्य ववाहमहे वृत्ते स्वविभवोचितम् । हस्त्यश्वादि ददौ हस्तमोचने भीमभूपतिः || ३६७|| आबद्धकङ्कणौ गोत्रजरतीगीतमङ्गलौ । गृहचैत्यमवन्देतां तौ" नवोढौ वधू - वरौ ॥ ३६८|| महेन महता भीम - निषधौ वसुधाधवौ । कारयामासतुरथ तयोः कङ्कणमोचनम् ॥३६९|| ततश्च भीमो निषधं सपुत्रमपि भक्तिभाक् । सत्कृत्य व्यसृजत् किञ्चिदन्वगाच्च स्थितिर्ह्यसौ ॥ ३७० ॥ दवदन्तीमनुपैतिं यान्तीमम्बाऽन्वशादिति । देहच्छायेव मा त्याक्षीर्व्यसनेऽपि पतिं सुते ! ||३७१|| अनुज्ञाप्य स्वपितरौ दवदन्तीमुपेयुषीम् । रथमारोपयामास नलोऽङ्के च न्यवीविशत् ॥ ३७२ ॥ ततश्च कोशलाधीशे कोशलामभिगच्छति । सिषिचे भूर्गजमदैः सान्द्रैर्मृगमदैरिव ||३७३ ||
४९
१. ० केसरि० खं० १-२, सू० । २. कामदेवसमः । ३. जह्नुपुत्रः । ४ ०र्भरुकच्छेशो० खं० १-२, ला०सू० । ५. ०रिवाऽसुर० ९ख० २ । विष्णोः । ६. अथैकं खं० १-२, ला०सू० विना र० । ७. क्षत्रियाधम ! । ८. धृतमर्माविधा० र । मर्मभेदकायुधधरम् । ९. अर्हद्धर्मोपासिका । १०. निर्विषः । निर्भर: ला० । ११. व्यभाषिषम् ला० । १२. ललाटे खं० २ । १३. सम्भाव्य मु० । १४. ०पातितम् खं० २ । १५. चक्रे उपयमो० खं० २ । १६. विवाह० मु० र० । १७. गृहे चैत्य० मु० र० खं० १ । १८. नवोढौ च वधू० ला० । १९. ०मनुपति खं० १ २ सू० । २० प्रयान्त्यम्बान्व० सू०, ला० । प्रयात्यम्बान्व० खं० १ । यान्तीं मातान्व० पा० ला०र० आ० । २१. नलोऽङ्कं च ला० ।
Jain Education International
For Private
Personal Use Only
www.jainelibrary.org