________________
तृतीयः सर्गः )
श्रीत्रिषष्टिशलाकापुरुषचरितम् ।
इतश्चाऽस्ति विदर्भेषु नगरं कुण्डिनाह्वयम् । तत्र चाऽभून्नृपो भीमरथो भीमपराक्रमः ॥२७९॥ तस्याऽभूत् पुष्पदन्तीति जाया मायाविवर्जिता । 'तर्जितस्वर्वधूरूपा परया रूपसम्पदा ॥२८०॥ अर्थ-धर्माविरोधेन काममप्यनुपालयन् । निर्विघ्नं बुभुजे भोगांस्तया सह महीपतिः || २८१ ॥ एकदा क्षीरडिण्डीरा प्रच्युत्य त्रिदशालयात् । तस्याः कुक्षाववातारीत् सुतात्वेन शुभे क्षणे ॥ २८२॥ तदा च सुखसुप्ता सा शयनीये मनोरमे । निशावसाने सुस्वप्नं दृष्ट्वा राज्ञे व्यजिज्ञपत् ॥ २८३ ॥ स्वामिन् ! जानाम्यहं सुप्ता श्वेतहस्ती तवौकसि । दवग्निप्रेरितोऽविक्षत् साक्षादिव यशश्चयः ||२८४|| राजाऽपि व्याजहारैवं सर्वशास्त्राब्धिपारगः । कोऽपि पुण्याधिको गर्भः सम्भूतोऽद्य तवोदरे ॥ २८५ ॥ यावदेवं वार्तयन्तौ राजा राज्ञी च तस्थतुः । तावदागात् स शुभ्रेभोऽभ्रमप्रिय इव च्युतः ॥ २८६ ॥ नृपं सकलत्रमपि निजस्कन्धे स सिन्धुरः । क्षणादारोपयामास तत्पुण्यप्रेरितो हि सः ॥२८७॥ पुष्पदामक्षेपपूर्वं पूज्यमानः स नागरैः । भ्रान्त्वा पुरे पुनः सौधमेत्य तावुदतारयत् ॥२८८॥ स्वयं चाऽऽलीयतोऽऽलाने स सिन्धुरधुरन्धरः । ववृषुश्चाऽथ पुष्पाणि रत्नानि च दिवौकसः ॥ २८९॥ सुगन्धिभिर्यक्षैपङ्कैः सर्वाङ्गमनुलिप्य तम् । अर्चित्वा चोत्तमैः पुष्पै राजा नीराँजनां व्यधात् ॥२९०॥ पूर्णकाले व्यतीपातादिदोषादूषितेऽन्यथ । कार्दंम्बिनीव तडितं राज्ञी कन्यामजीजनत् ॥२९१॥ सब्रह्मचारी तरणेस्तस्याश्च तिलकोऽलिके । सहजोऽभून् महापुंसः श्रीवत्स इव वक्षसि ॥ २९२॥ सा स्वयं भास्वती तेन तिलकेन विशेषतः । उपरिन्यस्तरत्नेनोर्मिका हैमीव दिद्युते ॥ २९३॥ तज्जन्मनः प्रभावेर्णे भीमो निःसीमविक्रमः । बभूव भूभुजां मूर्ध्ना धार्यमाणोग्रशासनः ॥२९४॥ तस्यामुदरवर्तिन्यां राज्ञी स्वप्ने यदैक्षत । दवाग्निभीतमायन्तं दन्तीन्द्रमिति निर्ममे ॥ २९५ ॥ सम्पूर्णे मासि दुहितुस्तस्याः कुण्डिनभूपतिः । दवदन्तीत्यमिधानं निधानं हर्षसम्पदः ॥ २९६ ॥ युग्मम् | सुगन्धिमुखनिःश्वासभ्रमद्भ्रमरधोरणिः । दिने दिने वर्धमाना साऽभवद् रिङ्खणक्षमा ||२९७|| अपि मातृसपत्नीनां सा सौम्यमुखपङ्कजा । करात् करं सञ्चचार पुष्पात् पुष्पमिवाऽलिनी ॥२९८॥ अङ्गुष्ठमध्यर्मीस्फोटधृततालाः पदे पदे । तां धात्र्योऽरमयन् वक्त्रतिमिलावाद्यवादनैः ॥ २९९॥ रर्णैज्झणिति कुर्वद्भ्यां नूपुराभ्यां पुरस्कृता । क्रमेण कर्तुमारेभे पादचङ्क्रमणं च सा ||३००|| रेमे रमेव सा मूर्ता भूषयन्ती गृहाङ्गणम् । तत्प्रभावाद् हि निधयः प्रत्यक्षाः क्ष्माभुजोऽभवन् ॥३०१ || [[सम्प्राप्ते चाऽष्टमे वर्षे तां कन्यामार्पयन्नृपः । कलाचार्यस्य वर्यस्य कलाग्रहणहेतवे ॥३०२|| साक्षिमात्रमुपाध्यायोऽभवत् तस्याः सुमेधसः । कला: सञ्चक्रमुस्तस्यां ह्यादर्शे प्रतिबिम्बवत् ॥३०३|| साऽभूदें धीतिनी कर्मप्रकृत्यादिषु धीमती । तस्याः पुरश्च स्याद्वादाक्षेपकः कोऽपि नाऽभवत् ॥३०४|| कन्यां कलाकलापाम्बुराशेस्तां पारदृश्वरीम् । वागीश्वरीमिव पितुः पार्श्वे गुरुरथाऽनयत् ॥३०५|| सागुरोराज्ञया सर्वं कलाकौशलमात्मनः । सम्यक् प्रदर्शयामास गुणारामैकसारणिः ||३०६ || तथा श्रुतार्थप्रावीण्यं प्रकट्यकृत सा पितुः । यथा सोऽप्यभवत् सम्यग्दर्शनाढ्यैनिदर्शनम् ॥३०७॥ सहस्राधिकलक्षेण दीनाराणां नरेश्वरः । कलाचार्यं स्वदुहितुः पूजयित्वा विसृष्टवान् ॥३०८|| ||दवदन्त्याश्च पुण्यातिशयान् निर्वृतिदेवता । साक्षाद्भूयाऽर्हत्प्रतिमामर्पयामास काञ्चनीम् ॥३०९॥
||
४७
१. निर्जित० खं० २ । २. वनाग्नि० सं.ला०पा. ला० २, छा । ३. ऐरावणः । ४. हस्ती । ५. चालीयदालाने ला० । ६. यक्षकर्दमैः । “कर्पूरा-गुरु- कक्कोलकस्तूरी - चन्दनद्रवैः स्याद् यक्षकर्दमः" (अभि० चि. ३/६३८) । ७. नीराजनं ला० २, की०, आरात्रिकम् । ८. न्यधात् खं० २ । ९. पूर्णे खं० १, ला० सू० । १०. मेघमाला । ११. ललाटे । १२. ०वेन खं० २ । १३. ०मायातं खं० २ । १४. स्वजनैः हर्ष० खं० २ । १५. चलनक्षमा । १६. ० मास्फोट्य धृत्वा तालं पदे० ला० । १७. मुखरूपडिण्डिमवाद्यस्य वादनैः । १८. झणज्झ० खं० २, सू०ता०सं०ला०पा० । रुणज्झ० ला० । १९. परिष्कृता खं० १ - २, सू० | 'अलंकृता' लाटि. । २००ऽथाष्टमे खं० २, सू० । २१. अधीतमनयेति अधीतिनी । २२. गता( तां )पितुः पार्श्वे मनोहराम् खं० २ । २३. ०नाद्यनिद० खं० १ २ । ०नादौ निद० ला० । २४. 'निर्वृति' इत्यभिधाना देवता, शासनदेवता, 'निर्वाणी' इत्यभिधदेव्या नामान्तरं स्यादिति कल्प्यते ।
Jain Education International
For Private Personal Use Only
www.jainelibrary.org