________________
४६ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं
(अष्टमं पर्व पामहिषीश्चारयामास धन्योऽरण्येऽनुवासरम् । महिषीचारणं ह्यांद्यमाभीराणां कुलव्रतम् ॥२४७।। दुर्दशैर्दर्शयन् दर्शयामिनीरिव दुर्दिनैः । यन्त्रधारागृहीभूतव्योमा प्रोद्दामवृष्टिभिः ॥२४८॥ निनदन् दर्दुरातोद्य इवोद्यद्द१रारवैः । कुर्वन्नुर्वी च हरितैः केशपाशवतीमिव ॥२४९।। वृष्टिसृष्टोरुसेवालपिछलीभूतभूतलः । सञ्चरत्पान्थचरणचीत्कार्याजानुकर्दमः ॥२५०।। कुर्वन् द्यां विद्युदावर्तेल्मुकावर्तिनीमिव । वर्षारात्रः प्रववृतेऽन्यदा वैरी प्रवासिनाम् ॥२५१॥ चतुभिः कलापकम् ।। महिषी: पङ्कसम्पर्कहर्षकैङ्कारकारिणीः । धन्यश्चारयितुमगात् प्रवर्षत्यपि वारिदे ॥२५२॥ बिभ्राणः छत्रकं मूनि महद्वारिनिवारणम् । पर्याटीदटवीं धन्योऽनुव्रजन् महिषीव्रजम् ।।२५३।। पातस्थिवांसं प्रतिमया पादेनैकेन निश्चलम् । उपवासकृशं वृष्टिसहमारण्यकेभवत् ॥२५४॥
शीताा कम्पमानाङ्गं वातान्दोलितवृक्षवत् । क्षमाश्रमणमद्राक्षीदेकं धन्यः परिभ्रमन् ॥२५५।। युग्मम् ॥ तथा परीषहसहं तं दृष्ट्वा मुनिपुङ्गवम् । जातानुकम्पः स्वं छत्रं स तन्मूर्धन्यधारयत् ।।२५६।। धृतातपत्रो धन्येनाऽनन्यसामान्यभक्तितः । प्रभ्रष्टवृष्टिकष्टोऽभूदृषिः स वसताविव ॥२५७॥ मद्यपानाद् दुर्मदीव वृष्टेर्न व्यरमद् घनः । न तु निर्विविदे धन्यस्तथाऽपि छत्रधारणात् ॥२५८॥ क्रमयोगेने वृष्टश्च विरराम घनाघनः । यावदृष्टिकृतध्यानाभिग्रहाच्च महामुनिः ॥२५९।। तत्कालं महिषीपालस्तं प्रणम्य मुनीश्वरम् । पादसंवाहनापूर्वमित्युवाच कृताञ्जलिः ॥२६०॥
महर्षे ! विषमः कालः पङ्केनाऽऽतङ्कदा मही । तदद्य कुत आयासीरायासमविदन्निव ॥२६१॥ पामहर्षिरपि तस्याऽऽख्यत् पाण्डुदेशादिहाऽऽगमम् । यास्यामि लङ्कानगरी गुरुपादपवित्रिताम् ॥२६२॥ गच्छतश्चाऽब्दकालोऽयमन्तरायोऽन्तराऽभवत् । धाराधरोऽखण्डधारं वर्षितुं च प्रचक्रमे ॥२६३॥ वर्षत्यब्दे च गमनं महर्षीणां न युज्यते । वृष्ट्यन्ताभिग्रहं कृत्वा ततोऽत्रैव स्थितोऽस्म्यहम् ॥२६४॥ विरतायामद्य वृष्टौ महात्मन् ! सप्तमेऽहनि । सम्पूर्णाभिग्रहो यामि वसतौ क्वाऽपि सम्प्रति ॥२६५।। धन्योऽप्युवाच हर्षेण महर्षे ! महिषं मम । याप्येयानमिवाऽऽरोह पङ्कदुःसञ्चरा हि भूः ॥२६६॥ स मुनिः स्माऽऽह जीवेषु नाऽऽरोहन्ति महर्षयः । परपीडाकरं कर्म ह्याचरन्ति न जातु ते ॥२६७॥ पादचक्रमणा एव महर्षय ! इति ब्रुवन् । स मुनिस्तेन सहितः प्रययावुपपत्तनम् ॥२६८॥ महर्षि स्माऽऽह महिषीपालो नत्वा कृताञ्जलिः । दोयहं महिषीर्यावत् तावदत्र प्रतीक्ष्यताम् ॥२६९।। इत्युक्त्वा से गृहं गत्वा दुग्ध्वा च महिषीर्दुतम् । आदायैकं दुग्धकुम्भमभ्योगात् तं महामुनिम् ॥२७०॥ धन्योऽतिधन्यमात्मानं मन्यमानः प्रमोदभाक् । तं मुनि कारयामास पारणं पुण्यकारणम् ॥२७१॥ वर्षारात्रमतिक्रम्य पोतने स तपोधनः । जगाम रुचितं स्थानमी-शुद्धयुचितेऽध्वनि ॥२७२॥ धन्योऽपि सह धूसर्या सुचिरं श्रावकव्रतम् । अपालयद् दृषल्लेखास्थिरं सम्यक्त्वमुद्वहन् ॥२७३॥ तौ धन्यौ धूसरी-धन्यौ काले जगृहतुर्वतम् । पालयित्वा च सप्ताब्दी विपेदाते समाहितौ ॥२७४।। पात्रे पीयूँषदानेनाऽजितपुण्यावुभौ च तौ । जातौ हैमवते युग्मधर्मों लेश्याविशेषतः ।।२७५॥
अनार्त-रौद्रध्यानौ तावपि मृत्वोदपद्यताम् । क्षीर डिण्डीरनामानौ देवौ दाम्पत्यशालिनौ ॥२७६।। पादेवश्च्युत्वेह भरते विषये कोशैलाभिधे । नगर्यां कोर्शलाख्यायामिक्ष्वाकुकुलजन्मनः ॥२७७।।
निषधस्याऽवनिपते: सुन्दरोदरसम्भवः । नलो नामाऽभवत् पुत्रः कूबरस्तस्य चाऽनुजः ॥२७८॥ युग्मम् ॥ १. चैवमा० खं० २ । २. अमावस्यारात्रीः । ३. गृहीभूतं व्योम प्रो० मु० । ४. निनदद्द१० मु० । शब्दं कुर्वद् दर्दुरनामातोद्यंवाद्यं यत्र सः । ५. ०शेवाल० खं० १-२, सू० । ६. पिच्छिली० ला० । पङ्किलीभूत । ७. ०रुलूका० मु० । उल्कापातवर्तिनीमिव । ८. वृष्टिं सहमानं वनेभवत् ला० । ९. ०भक्तिकः ला० । १०. ०कारणात् खं० १ । ११. योगेण खं० २ । १२. लङ्कां ला० । १३. शिबिकामिव । १४. स्वगृहं मु० र० । १५. ०मभ्यगा० मु० र० । १६. ०मीर्याशुद्धयच्युते० ता०सं० । १७. पाषाणरेखावत् स्थिरम् । १८. दुग्धदानेन । १९. हैमवतौ ला० । हैमवतक्षेत्रे । २०. युगलिकौ । २१. क्षीरडिण्डीर-क्षीरडिण्डीरानामानौ, एकशेषसमासः । २२,२३. कोसला० खं० १-२, सू० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org