________________
तृतीयः सर्गः )
श्रीत्रिषष्टिशलाकापुरुषचरितम् ।
श्रीदः प्रोचे सहर्षस्तं शौरिमाबद्धकङ्कणम् । कुमार ! श्रूयतामत्र मैमाऽऽगमनकारणम् ॥२१७॥
अस्यैव जम्बूद्वीपस्य क्षेत्रे भरतनामनि । सङ्गरं नाम नगरमस्त्यष्टापदसन्निधौ ॥२१८॥
तत्राभून्मम्मणो राजा तस्य वीरमती प्रिया । सभार्यः सोऽन्यदाऽचालीत् पापद्धयै नगराद् बहिः ॥ २१९|| सार्थेन सममायातमेकं मलमलीमसम् । क्षमाश्रमणमद्राक्षीद् रक्षःक्षुद्राशयोऽथ सः ॥२२०॥
असावशकुनं मेऽभून्मृगयोत्सवविघ्नकृत् । इति सोऽधारयत् साधुं सार्थाद् यूथादिव द्विपम् ॥२२१|| भूयो राजकुले गत्वा सकलत्रोऽपि भूपतिः । सोऽस्थाद् द्वादश घटिकास्तमृषि विप्रेलापयन् ॥२२२॥ ताभ्यां जातानुकम्पाभ्यां दम्पतीभ्यां ततो मुनिः । अप्रच्छि कुत आयासीः ? क्व वा गच्छसि ? कथ्यताम् ॥ २२३॥ मुनिर्बभाषे चलितो रोहीतकपुरादहम् । अष्टापदार्हद्विम्बानि सार्थेन सह वन्दितुम् ||२२४|| भवद्भयां च महात्मानौ ! सार्थादस्मि वियोजितः । नाऽष्टापदमगां धर्मकर्म बह्वन्तरायकम् ॥ २२५ ॥ दम्पती लघुकर्मत्वाद् वार्तयन्तौ तु तं मुनिम् । तौ विसस्मरतुः कोयं दुःस्वप्नमिवं 'मङ्क्ष्वपि ॥ २२६॥ तावार्द्रहृदयौ ज्ञात्वा परोपकृतिधीर्मुनिः । तयोराख्यज्जीवदयाप्रधानं धर्ममार्हतम् ॥ २२७॥ अविद्धकर्णौ तौ धर्माक्षरैराजन्म दम्पती । किञ्चिद्धर्माभिमुखतां ततः प्रभृति जग्मतुः ॥२२८॥ प्रत्यलाभयतां भक्त्या भक्त पानादिना च तम् । प्रियातिथिमिवाऽभ्यर्णमवाऽतिष्ठपतां च तौ ॥२२९॥ किं तु राजसभावेन विनिवार्याऽपरं जनम् । चक्रतुस्तौ स्वयमेव तस्यर्षेः प्रतिलाभनम् ॥ २३०॥ धर्मज्ञानौषधं दत्वा कर्मरोगार्तयोस्तयोः । मुनिः सोऽष्टापदं प्राप ताभ्यामनुमतश्चिरात् ॥२३१॥
चिरं व्रतिसंसर्गात् प्रपद्य श्रावकव्रतम् । पालयामासतुर्यत्नाद् द्रविणं कृपणाविव ॥ २३२ ॥ वीरमत्यन्यदा धर्मस्थिरीकरणहेतवे । निन्ये शासनदेव्याऽष्टापदे धर्मजुषां न किम् ? ॥२३३॥ आर्हती: प्रतिमास्तत्र पूज्यमानाः सुरासुरैः । दृष्ट्वा सा प्रापदानन्दं मुक्तेवाऽत्राऽपि जन्मनि ॥ २३४॥ चतुर्विंशतिमप्यर्हद्विम्बान्यष्टापदाचले । वन्दित्वा पुनरप्यागात् स्वपुरं खेचरीव सा ॥ २३५ ॥ जिनं जिनं प्रत्यकार्षीत् सा चौऽऽचाम्लानि विंशतिम् । तीर्थावलोकनाद् धर्मे दधाना स्थेयसीं धियम् ॥२३६॥ उपरिन्यस्तरत्नानि सुवर्णतिलकानि सा । चतुर्विंशतिमर्हद्भ्यः कारयामास भक्तिभाक् ॥२३७॥ अन्येद्युः सपरीवारा गत्वाऽष्टापदमूर्धनि । सा स्नात्रपूर्वमानर्च चतुर्विंशतिमर्हताम् ||२३८|| तासामर्हत्प्रतिमानां ललाटेषु न्यधत्त च । श्रीवल्ले: कुसुमानीव हैमानि तिलकानि सा ॥ २३९ ॥ चारणश्रमणादीनां तीर्थे तस्मिन्नुपेयुषाम् । दत्वा दानं यथार्हं सा तपस्तदुदयापयत् ॥२४०॥ ततश्च कृतकृत्येव प्रनृत्यन्तीव चेतसा । सा धीमती वीरमती पुनरागात् स्वपत्तनम् ॥ २४९ ॥ पृथक्शरीरौ तावेकमनसाविव दम्पती । धर्मकर्मोद्यतौ कालं कियन्तमपिं निन्यतुः ॥ २४२ ॥ समाधिमरणं प्राप्य 'पूर्णे काले विवेकिनौ । देवलोके तावभूतां देवो देवी च दम्पती ॥२४३॥ |च्युत्वा मम्मणजीवोऽथ जम्बूद्वीपेऽत्र भारते । बहलीनाम्नि विषये नगरे पोतनाह्वये ॥ २४४॥ धम्मिलख्यस्याऽऽभीरस्य रेणुकोदरसम्भवः । धन्यो नामाऽभवत् पुत्रः पात्रं पुण्यस्य भूयसः ॥ २४५ ॥ युग्मम् ॥ स तु वीरमतीजीवः प्रच्युत्य त्रिदशालयात् । धूसरीनामधेयेन धन्यस्यैव गृहिण्यभूत् ॥ २४६ ॥
१. समागमन० ला० । २. सगरं खं० २ । संगमं सू० । ३. पापद्ध ला. ता.सं. सू० । ४. राक्षस इव क्षुद्राशयः । ५. विप्रलाभयन् ला० । सन्तापयन् । ६. महामानौ मु० । ७. वार्तां कुर्वन्तौ । ८. 'शीघ्रं' खं० २ टि. । ९. 'धर्म' इत्यक्षरमश्रुतपूर्वी । १०. ०मिवाभ्यर्णे ला० । ०मिवाभ्यर्ह० खं० १ २, सू० । ११. ०मवातिष्ठयतां मु० । ०मवातिष्ठिपतां र० । ०मवातिष्ठपतं ला० । १२. राजा स्वभा० खं० २ । १३. ०वार्य परं ला० । १४. धर्मध्यानौ० ता. । १५. साऽऽचामाम्लानि ता०सं०ला० पु० ला० २ । १६. स्थिरतराम् । १७. ० स्तदुदपादयत् मु० । १८. कियन्तमतिनि० खं० २, ला० । १९. पूर्णकाले मु० । पूर्वकाले
२० । २०. देवदेव्यौ
च ला० । २१. धम्मिलासस्या० मु०, र०, खं० १ ।
Jain Education International
४५
For Private Personal Use Only
www.jainelibrary.org