________________
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगम्फितं
(अष्टमं पर्व
पाालिखिल्यैरिव रविः स्तूयमानश्च बन्दिभिः । ततः स्वयंवरं द्रष्टं प्रचचालोत्तरापतिः ॥१८४।। त्रिभिविशेषकम् ॥ श्वेतदिव्यांशुकोल्लोचं ज्योत्स्नालिप्तमिवाऽम्बरम् । स्मरसज्जीकृतधनुःसन्निभाबद्धतोरणम् ॥१८५।। रत्नादर्शाङ्कितं विष्वगनेकाऊरिवाऽऽश्रितम् । रत्नमय्याऽष्टमङ्गल्या शोभितद्वारभूमिकम् ॥१८६।। खे बलाकाभ्रमकरैः शोभितं शुभ्रकेतुभिः । नानारत्नमयोर्वीकं सुधर्माया इवाऽनुजम् ।।१८७।। वराणां दृग्विनोदाय प्रक्रान्तप्रेक्षणीयकम् । प्रविवेशोत्तराधीशस्तं स्वयंवरमण्डपम् ॥१८८। चतुभिः कलापकम् ।। पतत्रैकैस्मिन् भव्यमञ्चे धनदो हंसवाहनः । खस्थे सिंहासने स्वःस्त्रीजनावृत उपाविशत् ।।१८९।।
अदूरे धनदस्याऽथ तस्यैव युवराडिव । वसुदेवो निषसाद प्रसादसुभगाननः ॥१९०।। क्रमेणाऽन्येऽपि मञ्चेषु राजानः परमर्द्धयः । विद्याधराश्च न्यषदन् स्पर्धमाना इव श्रिया ॥१९१।। धनदो निजनामाङ्कामर्जुनस्वर्णनिर्मिताम् । ऊर्मिकामार्पयत् शौरेः स न्यधात् कन्यकाङ्गलौ ॥१९२।। ऊर्मिकाया: प्रभावेण तदैव यदुनन्दनम् । कुबेरमूर्तिमद्राक्षीत् तत्रस्थः सकलो जनः ॥१९३।।
अहो ! कुबेरो भगवान् मूत्तिद्वयभृदागतः । प्रघोषाद्वैतमित्युच्चैः स्वयंवरसदामभूत् ।।१९४।। पासदशश्वेतवसना ज्योत्स्नाक्तेव विभावरी । मुक्ताताडङ्करुचिरा सा द्वीन्दुिरिव मेरुभूः ॥१९५।।
अलक्तरसरक्तोष्ठी पक्वबिम्बेव बिम्बिका । हारभूषितवक्षोजाऽद्रिभूरिव सनिर्झरा ।।१९६॥ बिभ्रती स्मरदोलाभं पाणिभ्यां पुष्पदाम च । तदा कनकवत्यागात् तत्र हंसीव मन्थरम् ॥१९७।। त्रिभिविशेषकम् ॥ पातया च तत्राऽऽगतया स स्वयंवरमण्डपः । मङ्गल्यया दीपिकया गृहगर्भ इवाऽशुभत् ।।१९८।। दृशा सम्भावयामास वुवूषूनखिलांश्च सा । कैरवाणीन्दुलेखेव भासा 'शैशियसारया ।।१९९।। चित्रदृष्टं वसुदेवं दू]दृष्टं च तत्र तम् । अपश्यन्ती विषादात्मा मम्लौ सायमिवाऽब्जिनी ॥२००।। सैपांशक्रीडिकाहस्तन्यस्तभाराऽथ सा चिरम् । निःस्पन्दा शालभञ्जीव तस्थावस्वास्थ्यमीयुषी ॥२०१।। तस्यां कमप्यवण्वत्यां राजानः स्वं व्यलोकयन् । किं रूप-वेष-चेष्टादिदोषोऽस्मास्विति शङ्कया ॥२०२।। पासख्यूचे कनकवतीं किमद्याऽपि विलम्बसे? । स्वयंवरस्रक् कस्याऽपि न्यस्यतां कण्ठकन्दले ॥२०३।। हरिश्चन्द्रसुतोवाच रुच्यो हि वियते वरः । यश्च मे रोचते मन्दभाग्या पश्यामि तं नहि ॥२०४।। दध्यौ च क उपायो मे? का गतिश्च भविष्यति ? । इष्टं वरं न पश्यामि भव रे हृदय ! द्विधा ॥२०५।। इत्थं चिन्तातुरा प्रेक्ष्य धनदं प्रणिपत्य च । दीना रुदती सा बद्धाञ्जलिरेवं व्यजिज्ञपत् ॥२०६।। देव ! प्राग्जन्मपत्नीति नर्मेत्थं मा कृथा मयि । मया वुवूर्षितो भर्त्ता त्वया चक्रे तिरोहितः ।।२०७।। स्मित्वोचे धनदः शौरिं महाभाग ! मयाऽपिताम् । मुद्रां कुबेरकान्ताख्यामिमां हस्तादपाकुरु ॥२०८।। शौरिस्तामूर्मिकां हस्तादुत्तार्य धनदाज्ञया । स्वमूतिभागभूद् भूयो नाट्याभिनयपात्रवत् ।।२०९।। सा दशार्ह स्वमूर्तिस्थमुपलक्ष्य वलक्षदृक् । बहिर्भूतप्रमोदेव बभूव पुलकाङ्किता ।।२१०।। उपसृत्य च तत्कण्ठे रणज्झणितनूपुरा । स्वयंवरस्रजं न्यास्थन्निजां भुजलतामिव ।।२११।। दिवि दुन्दुभयो नेदुस्तदा च धनदाज्ञया । मङ्गल्यकं चोन्मनसोऽप्सरसः सरसं जगुः ॥२१२॥ अहो ! धन्यो हरिश्चन्द्रो ववे यस्य सुता वरम् । जगत्प्रधानमित्युच्चैर्विष्वद्रीची च वागभूत् ॥२१३।। देवता धनदादिष्टा वसुधारां निरन्तराम् । सद्यो ववृषुराचारलाजानिव कुलाङ्गनाः ॥२१४|| वसुदेवस्य कनकवत्याश्चोपयमोत्सवः । तदा बभूव तन्वानो हर्षस्यैकातपत्रताम् ।।२१५।। पाअथ विज्ञापयामास श्रीदं नत्वा यदूद्वहः । किमायाता यूयमत्रेत्यस्मि ज्ञातुं कुतूहली ॥२१६।। १. ऋषिभिः । २. धनदः । ३. तत्रैकस्मिन्नुच्चमञ्चे मु०, खं० १-२, ला०सू० । तत्रैकस्मिन् रुच्यमञ्चे सं०पु०ला० २ । ४. स्वस्थे मु० । ५. कनिष्ठाङ्गलौ खं० २, ला०म०र० । कनिष्ठाङ्गलौ इत्यर्थः । ६. प्रभावेन तमेव ला० । ७. ज्योत्स्नासहिता । ८. सद्वीन्दु० की०छा०ला०२, मु०, खं० १-२, ला०सू० । ९. मन्थरा ला० । १०. इवाबभौ मु० । ११. शौण्डीर्य० मु० । १२. दौत्य० ला० । १३. सखीहस्तन्यस्तभारा । १४. नि:स्पन्दशाल० ता०सं० । १५. ०वृण्वन्त्यां ला० । १६. भव्यो की०ला० । १७. शुद्धदृष्टिः । १८. रूणज्झ० ता.सं.ला.पा.की. । १९. मङ्गल्यकण्ठोन्मनसो० र० । २०. ०विषूची वागभूत्तदा मु०, र० खं० १-२ । विश्वव्यापिनी । २१. निरन्तरम् ता.सं.पा.की.ला. खं० २, सू० । २२. विज्ञपया० खं० १-२, सू० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org