________________
तृतीयः सर्गः)
श्रीत्रिषष्टिशलाकापुरुषचरितम् ।
आजन्मसृष्टिसर्वस्वमिव रूपश्रिों विधेः । भद्रासनस्थितामेकामपि सानुचरामिव ॥१५१॥ पटालिखितपुंरूपं पश्यन्ती तन्मयीमिव । अद्राक्षीत् कनकवतीमुपसर्पन यदद्वहः ॥१५२॥ त्रिभिर्विशेषकम् ।। पादशाह कनकवती पटरूपमिवाऽपरम् । दृष्ट्वेष्टागमनज्ञानाद् व्यकसत् प्रातरब्जवत् ॥१५३॥
सा दृष्ट्वा यादवं चित्रं चित्रं दृष्ट्वा च यादवम् । ददर्श श्रान्तमश्रान्तनेत्रा हर्षोच्छ्वसत्तनुः ॥१५४|| दशाहमर्चमाना सा नेत्रैरिन्दीवरैरिव । भद्रासनाद् द्रागुदस्थात् कृताञ्जलिरुवाच च ॥१५५॥ त्वमाकृष्टोऽसि मे पुण्यैस्तव दास्यस्मि सुन्दर ! । इत्युक्त्वा वसुदेवस्य सा नन्तुमुपचक्रमे ॥१५६।। दशाहः प्रणमन्तीं तां प्रतिषिध्यैवमभ्यधात् । भृत्योऽस्मि मा प्रणंसीस्त्वं स्वामिन्यसि महाशये ! ॥१५७।। यो हि स्यादनुरूपस्ते तं प्रणन्तुं त्वमर्हसि । अविज्ञातकुले भृत्ये मा मय्यनुचितं कृथाः ॥१५८।। 'सोवाच सर्वं ज्ञातं ते त्वमेवाऽसि पतिर्मम । यस्त्वं देवतयाऽऽख्यातो ध्यातश्चित्रगतश्च यः ॥१५९।। पावसुदेवोऽवदद् भद्रे ! नाऽहमस्मि पतिस्तव । यस्ते देवतया ख्यातः पतिस्तस्याऽस्मि किङ्करः ॥१६०॥
श्रूयतां च स ते भर्ता शक्रस्योत्तरदिक्पतिः । स्वःस्त्रीमुखाब्जभसलो धनदो विश्वविश्रुतः ॥१६१।। तस्याऽस्मि किङ्करो दूतो याचेऽहं त्वां तदाज्ञया । भवाऽग्रमहिषी तस्य सेव्यमानाऽमरीजनैः ॥१६२।। साऽब्रवीद् धनंदे नामग्राहं कृतनमस्कृतिः । शकसामानिकः क्वाऽयं क्वाऽहं मानुषकीटिका ॥१६३।। दूत्यं यन्मय्यनुचितं क्रीडामात्रं हि तस्य तत् । मानुषीणां सुरैर्जातु भूतपूर्वो न सङ्गमः ॥१६४॥ वसुदेवोऽवदद् भद्रे ! देवतादेशमन्यथा । कुर्वाणा दवदन्तीव त्वमनर्थमवाप्स्यति(सि?) ॥१६५।। पाऊचे कनकवत्येवं धनदेत्यक्षरैः श्रूतैः । मम प्राग्जन्मसम्बन्धात् कुतोऽप्युत्कण्ठते मनः ॥१६६॥
दुर्गन्धस्य शरीरस्यौदारिकस्य सुधार्दनाः । नेशते गन्धमपि हि सोढुमिाहतं वचः ॥१६७।। तत्यच्छद्मना छन्नस्त्वमेव हि पतिर्मम । गत्वा चाऽऽख्याहि मद्वाचं देवस्योत्तरदिक्पतेः ॥१६८।। त्वद्दर्शनेऽपि नाऽर्हामि मानुषीमात्रमस्म्यहम् । पूज्योऽसि प्रतिमां कृत्वा सप्तधातुतनोर्मम ॥१६९।। पअदृश्यमान: केनाऽपि ततश्च यदुपुङ्गवः । पथा यथागतेनैव ययौ धनदसन्निधौ ॥१७०।। यावदाख्यातुमारेभे तं वृत्तान्तं यदूद्वहः । तावत् प्रोवाच धनदः सर्वं विदितमेव मे ॥१७१॥ पुरः सामानिकानां च धनदः प्रशशंस तम् । महापंसोऽस्य काऽप्येषा निर्विकारचरित्रता ? ||१७२।। इति प्रशंसन् धनदो नाम्ना सुरपतिप्रियम् । देवदूष्यांशुकयुगं दिव्यगन्धाधिवासितम् ।।१७३।। सूरप्रभं शिरोरत्नं दकगर्भे च कुण्डले । हारं शशिमयूखं च केयूरे ललितप्रभे ॥१७४॥ नक्षत्रमालिकां चार्धशारदामभिधानतः । सुदर्शनौ च कटको विचित्रमणिमण्डितौ ॥१७५॥ विचित्ररत्नं च कटिसूत्रकं स्मरदारुणम् । दैवतानि च माल्यानि दैवतं च विलेपनम् ॥१७६॥ तदैव वसुदेवाय 'प्रेददौ परितोषभाक् । तदङ्गलग्नं कृत्वा च सोऽप्यभूद् धनदोपमः ॥१७७।। पञ्चभिः कुलकम् ।।
वसुदेवं तथा दृष्ट्वा धनदेनाऽपि सत्कृतम् । श्यालादयः सहाऽऽयाताः सर्वे मुमुदिरेतराम् ॥१७८॥ पहरिश्चन्द्रोऽपि हि तदा तत्राऽऽगत्य सकौतुकः । प्रणम्य धनदं बद्धाञ्जलिरेवं व्यजिज्ञपत् ॥१७९।। भवद्भिरितं वर्षमद्य देवाऽन्वगृह्यत । स्वयंवरदिदक्षणां यद युष्माकमिहाऽऽगमः ॥१८०। इत्युक्त्वा सज्जयामास स स्वयंवरमण्डपम् । मञ्चाश्च कारयामास विविधासनबन्धुरान् ॥१८१॥ विमानच्छायया पृथ्व्याः सन्तापमवसादयन् । उद्दण्डैपुण्डरीकालिदर्शितेन्दुपरम्परः ॥१८२।। वीज्यमानः सुरवधूपाणिपल्लवलालितैः । विद्युदुत्क्षिप्तकरणनर्तकैरिव चामरैः ॥१८३॥ १. जन्मपर्यन्तं विधिना या सृष्टिः सृष्टा, तस्याः सारसर्वस्वमिव । २. श्रियां ला० । ३. तन्मया० ला० । ४. ददर्शाऽश्रान्तनेत्राब्जा हर्षोत्कर्षोच्छसत्तनुः ला० । ५. ०वमब्रवीत् मु० । ६. मैवं मे सत्कृतिं कृथाः खं० २ । ७. भ्रमरः । ८. ०धनदनाम० मु०। ९. दौत्यं ला० । १०. अमृतभक्षिणः, देवाः । सुधौदनाः मु० खं० १, र० । ११. ०मित्यर्हतां मु० । १२. त्वाख्याहि खं० १२, सू०। १३. ०सन्निधिम् खं० २, सू० । १४. ०भे वृत्तान्तं च ला० । १५. ददौ च ला० । १६. शाला० खं० २, सू० । १७. ०मपसारयन् मु० । १८. श्वेतच्छत्रश्रेण्या दर्शिता इन्दूनां पंक्तिर्येन सः । १९. ०नक्षत्रैरिव ला० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org