________________
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं
(अष्टमं पर्व
मम चाऽमोघया वाचा समीरण इवाऽस्खलन् । प्रदेशं कनकवतीभूषितं त्वमवाप्स्यसि ॥११९।। ततश्च गत्वा स्वावासे दिव्यालङ्करणादिकम् । मुक्त्वा प्रेष्यों चितं शौरिमलिनं वेषमाददे ॥१२०॥ यान्तं मलिनवेषं तु यादवं धनदोऽवदत् । किमुदारं वेषमौज्झीः सर्वत्रोऽऽडम्बरोऽर्हति ॥१२१।।
शौरिः प्रोवाच वेषेण मलिनेनोज्ज्वलेन वा । किं नाम कार्य ? दूत्ये हि मण्डनं वाग ममाऽस्ति सा ॥१२२। पास्वस्ति तुभ्यं' प्रयाहीति धनदेनोदितः पुनः । निःशङ्कं वसुदेवोऽगाद् हरिश्चन्द्रगृहाङ्गणम् ॥१२३।। हस्त्यश्व-रथ-योधादिनिरुद्धद्वारमप्यथ । वसुदेवोऽविशद् वेश्म हरिश्चन्द्रमहीपतेः ॥१२४॥ अदृश्यमानः केनाऽपि ततश्चाऽप्रस्खलद्गतिः । योगीवाऽञ्जनसिद्धोऽगादग्रतो वृष्णिनन्दनः ॥१२५।। पारुद्धं बद्धपरिकरैः सौविदैत्रपाणिभिः । प्राविशत् प्रथमं कक्षान्तरं शौरिनुपौकसः ॥१२६॥ इन्द्रनीलमयोर्वीकं चलत्कान्तितरङ्गितम् । साम्भोवापीभ्रमकरं शौरिस्तत्क्षणमैक्षत ॥१२७।। दिव्याभरणधात्रीणां स्त्रीणामप्सरसामिव । सुरूपाणां सवयसां तत्र वृन्दं ददर्श सः ॥१२८।। स्वर्णस्तम्भं मणिमयपाञ्चालीकं चलद्ध्वजम् । कक्षान्तरमथाऽविक्षद् द्वैतीयीकं यदूद्वहः ॥१२९। ज्योत्स्नासहोदरक्षीरतरङ्गेऽथ तृतीयके । कक्षान्तरेऽविशत् क्षीरोदधाविव सुरद्विपः ॥१३०॥ स्त्रीजनं तत्र सोऽपश्यद् दिव्याभरणभूषितम् । असम्मान्तं सुरपुरेऽप्सरोजर्नमिवाऽऽगतम् ।।१३१।। तुर्यं कक्षान्तरं प्राप्तोऽपश्यच्च जलकुट्टिमम् । तरङ्गतरलं हंस-कुररादिसमाकुलम् ॥१३२।। तत्राऽऽत्मानं प्रपश्यन्तीविनाऽप्यादर्शमङ्गनाः । शङ्गारकर्म कर्वाणाः प्रेक्षाञ्चक्रे यदद्वहः ॥१३३।। अश्रौषीच्छारिका-कीरोदीर्यमाणं च मङ्गलम् । चेटीजनं च प्रैक्षिष्ट गीत-नृत्यसमाकुलम् ॥१३४॥ कक्षान्तरं पञ्चमं च ययौ शौरिददर्श च । मनोरमं मारकतं कुट्टिमं स्वर्गृहोपमम् ॥१३५।। मुक्ता-विद्रुमदामौघांश्चामरांश्चाऽवलम्बितान् । सङ्क्रान्तांस्तत्र सोऽपश्यन् मायाकारकृतानिव ॥१३६।। सुरूंपवेषा रत्नालङ्कारभाण्डभृतोऽभितः । शालभञ्जीरिव स्तम्भलग्नाश्चेटीर्ददर्श च ॥१३७॥ प्राप्तः कक्षान्तरं षष्ठं सोऽद्राक्षीत् पद्मकुट्टिमम् । दिव्यं सरोवरमिव सर्वत: पद्ममण्डितम् ॥१३८।। दिव्याङ्गरागपूर्णानि मर्णिपात्राणि चाऽग्रतः । अपश्यत् तत्र वार्ष्णेयो दैवतान्यंशुकानि च ॥१३९।। कृमिरागांशुकभृतां सुदृशां तत्र वृष्णिभूः । मूर्तानामिव सन्ध्यानां वृन्दं दृग्विषयं व्यधात् ॥१४०॥ कक्षान्तरे सप्तमे च शौरिः कुट्टिममैक्षत । लोहिताक्षमयस्तम्भं कर्केतनमणीमयम् ॥१४१॥ तत्राऽपश्यत् कल्पवृक्षान् कुसुमाभरणानि च । पानीयपूर्णकलश-करकोणां च धोरैणीः ॥१४२।। कलाविदः सर्वदेशभाषादक्षाः सुलोचनाः । कुण्डलालीढगण्डाश्च सोऽद्राक्षीद् वेत्रधारिणीः ॥१४३॥ पसोऽचिन्तयच्च कस्याऽपि नाऽवकाशोऽत्र वेश्मनि । एताभित्रधारीभिर्नीरन्धं परिवारिते ॥१४४॥ एवं चिन्तयतः शौरेर्लीलाकनकपद्मभृत् । पक्षद्वाराध्वना दिव्येवेषैका दास्युपाययौ ॥१४५।। अपृच्छन् वेत्रधारिण्यस्तास्तामेवं ससम्भ्रमाः । स्वामिनी कनकवती क्व तिष्ठति ? करोति किम् ? ॥१४६।। साऽप्याख्यत् प्रमदवने प्रासादे दिव्यवेषभृत् । देवताकृतसान्निध्या स्वामिन्येकैव तिष्ठति ॥१४७।। वसुदेवोऽपि तच्छ्रुत्वा तां ज्ञात्वा तत्र तस्थुषीम् । पक्षद्वाराध्वना दासी-कथितेन विनिर्ययौ ॥१४८।। प्राप्तश्च प्रमदवने प्रासादं सप्तभूमिकम् । तुङ्गेप्राकारमद्राक्षीत् तं शनैरारुरोह च ।।१४९।। दिव्यालङ्कार-नेपथ्यधरां कल्पलतामिव । सर्वर्तुपुष्पाभरणां साक्षादिव वनश्रियम् ॥१५०॥ १. इवाचलन् ता०सं० । २. कनकवत्या मु० । ३. दूतयोग्यम् । ४. च खं०२, सू० । ५. ०डम्बरोऽर्घति खं० १-२, ला०ता०सं०पा० । ६. दौत्ये र० । ७. सोविदै० खं० २ । ८. ०कसि ला० । ९. चलकान्ति० खं० १-२, सू० । १०. चलध्वजम् खं० १-२, सू० । ११. द्वितीयीकं खं० १ । १२. ऐरावणः । १३. ०जनसमागतम् मु० । १४. जलात्मकं (स्फाटिक) भूतलम् । १५. ०कुलीरादि० खं० २। कुररः पक्षिविशेषः मत्स्यनाशनः, बकः । १६. ०त्सारिका० खं० २, मु० । १७. ०नृत्त० खं० १, ला० । १८. मरकतमणिमयम्। १९. सुवेषरूपा मु० । २०. स्तम्भं खं० २ । २१. पद्मरागमणिमयभूतलम् । २२. मणिवस्त्राणि खं० २ । २३. वृष्णिसूः मु० । २४. पूर्णाः क० ला०सू० । २५. 'झारी' इति भाषायाम् । २६. श्रेणीः । २७. पार्श्वद्वारमार्गेण । २८. तुझं प्रा० मु० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org