________________
तृतीयः सर्गः)
श्रीत्रिषष्टिशलाकापुरुषचरितम् । पावसुदेवोऽप्यथाऽवादीच्चन्द्रातप ! दिनोंदये । आपृच्छ्य स्वजनानेवं करिष्ये मुदैमुद्वह ॥८७॥ तिष्ठेस्त्वं प्रमदवने मया सह यियासया । स्वप्रयत्नफलं हन्त पश्येस्तस्याः स्वयंवरम् ॥८८॥ एवमुक्ते तिरोऽधत्त स विद्याधरदारकः । वसुदेवस्तु सुष्वाप तल्पेऽनल्पप्रमोदभाक् ॥८९॥ पास्वजनान प्रातरापृच्छयाऽनुज्ञाप्य प्रेयसीजनम् । वसुदेवो ययौ प्रातः पेढालपुरपत्तनम् ॥९॥ तत्र राजा हरिश्चन्द्रः समागत्य यद्वहम् । अवासयदुपवने लक्ष्मीरमणनामनि ॥९१।। अशोकपल्लवाताम्र पाटलामोदशालिनि । केतकीकुसुमस्मेरे सप्तच्छदसुगन्धिनि ।।९२।। कृष्णेक्षु-नागरगाढ्ये कुन्दकुड्मलदन्तुरे । तत्रोद्याने विशश्राम शौरिर्दृष्टिं विनोदयन् ॥ ९३।। युग्मम् ॥ ततश्च कनकवतीपिता स्वविभवोचिताम् । अर्हणामर्हणीयस्य व्यधादानकदुन्दुभेः ॥१४॥
पूर्वनिष्पादितेषूच्चैः-प्रासादेषु गृहेषु च । तत्रोद्याने स्थितः शौरिरैतिहमशृणोदिदम् ॥९५।। पापुरा समवसरणं श्रीनमिस्वामिनोऽभवत् । इहोद्याने सेव्यमानं सुरा-ऽसुर-नरैश्वरैः ॥९६।। इहाऽमरीभिः सहिता रासकेनाऽर्हतः पुरः । लक्ष्मी रेमे तदाद्येतल्लक्ष्मीरमणमित्यभूत् ।।९७।। तत्र चाऽऽयंतनेषच्चैः प्रतिमाः श्रीमदर्हताम । दिव्योपहारैरानर्च ववन्दे च यदवहः ॥९८॥ पातदा च विष्वग् रत्नाढ्यं सुमेरुमिव जङ्गमम् । उत्पल्लवं द्रुममिव पताकालक्षलक्षितम् ॥१९॥ अनेककरि-मकर-तुरगाकरमब्धिवत् । आदित्यमण्डले रुचामाचामकमिवाऽचिषा ॥१००।। समेघनादं व्योमेव बन्दिकोलाहलाकुलम् । मङ्गल्यतूर्यनिर्घोषैतर्जिताम्बुदगर्जितम् ॥१०१।। उत्कन्धरीकृताशेषविद्याधरमवातरत् । विमानमेकमद्राक्षीत् तत्र शौरिरनाकुलः ॥१०२॥ चतुर्भिः कलापकम् ॥ पप्रच्छ चैकमग्रस्थं वसुदेवो दिवौकसम् । विमानं शक्रसँधीचः कस्येदं नाकिनो ? वद ॥१०३।। सोऽब्रवीद् धनदस्येदं तदारूढः स चाऽधुना । उत्तरत्यत्र भूलोके कारणेन गरीयसा ॥१०४॥ पूजयित्वाऽर्हत्प्रतिमाश्चैत्येऽस्मिन् प्रयतिष्यते । अचिरात् कनकवतीस्वयंवरदिदृक्षया ॥१०५।। तदा चाऽचिन्तयत् शौरिर्धन्या कनकवत्यहो ! । देवा अप्युपतिष्ठन्ते प्रारब्धे यत्स्वयंवरे ॥१०६॥ अथाऽवतीर्य धनदः प्रतिमाः श्रीमदर्हताम् । आनर्च च ववन्दे च सङ्गीतं चाऽप्यचीकरत् ॥१०७|| अहो ! महात्मा देवोऽयं पुण्यभाक् परमार्हतः । अहो ! प्रभावनापात्रं शासनं श्रीमदर्हताम् ॥१०८।। अहो ! धन्योऽस्मि यस्यैतदद्भुतं दृष्टिगोचरम् । सुचिरं चिन्तयामास शौरिरेवं समाहितः ॥१०९॥ तत्र वैश्रवण: पूजां समाप्य श्रीमदर्हताम् । यथारुचि प्रचलितो ददर्शाऽऽनकदुन्दुभिम् ॥११०। अचिन्तयच्च काऽप्यस्य पुंसो लोकोत्तराकृतिः । अमराणामसुराणां खेचराणां च नास्ति या ॥१११॥ धनदोऽनुपमश्रीकमाकृत्या प्रेक्ष्य यादवम् । अङ्गलीसंज्ञयाऽऽह्वास्त विमानस्थः समम्भ्रमम् ॥११२॥ अहं मनुष्यो देवोऽयं महद्धिः परमार्हतः । इत्यगाद् वसुदेवस्तमभीरुः कौतूकीति च ॥११३।। धनदो ऽपि ततः स्वार्थसतृष्णो वृष्णिनन्दनम् । प्रियालापादिसत्कारपात्रीचक्रे वयस्यवत् ॥११४॥ प्रकृत्याऽपि विनीतात्मा सत्कृतश्चेति वृष्णिसूः । कृताञ्जलिस्तं प्रावोचदाज्ञापय करोमि किम् ? ॥११५॥
अथावदद वैश्रवणः श्रोत्रशर्मदया गिरा । साधयाऽनन्यसाध्यं मे देत्यमेकं महाशय ! ॥११६।। पाअस्मिन् पुरे हरिश्चन्द्रनरेन्द्रस्य कुमारिका । सुता कनकवत्यस्ति तामिदं वद मदिरा ॥११७॥
शक्रस्य देवराजस्योत्तरदिक्पतिरिच्छति । त्वां वैश्रवण उद्वोढुं मैंनुष्यप्यमरी भव ॥११८।। १. दिवात्यये खं० १ । दिनात्यये ला०ता०पा०सं०की०ला० । निशात्यये पु० । २. मुदमुद्वहे. मु० । ३. स्वयंवरे मु० र० । ४. सत्कारम् । ५. वसुदेवस्य । ६. पूर्वं नि० ला० । ७. इतिहासम् । ८. 'तत आरभ्य । ९. चायतनेऽप्युच्चैः खं० २, मु० । १०. उत्पल्लवद्रुम० खं० २ । ११. ०रुचमेकं गृहमिवार्चिषाम् खं० १ । आचामकं-'व्यापकं' लाटि. । १२. माङ्गल्य० मु० । १३. ०षनिर्जिता० ता० सं० । निर्घोषैस्तर्जिता० ला० । १४. इन्द्रसमानस्य कस्य देवस्य । १५. ०दमिहारूढः खं० १, ला० । १६. दृष्टिगोचरः त० सं० की० छा० । १७. न सुराणां नासुराणां ता.सं.पा.की.पु.खं०२ । न सुराणां खेचराणां नासुराणां सू० । १८. अभ्यगाद् की० । इत्यागाद्० २ । १९. ततोऽपि धनदः ता०सं० । २०. वृष्णिभूः ता०सं० । २१. श्रवणानन्दया खं०१, सू० । २२. दौत्य० ला०ता०सं०, र० । २३. मानुष्य० मु० र० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org