________________
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं
(अष्टमं पर्व
इहाऽस्ति लिखितो भद्रे ! स युवा यादृगीक्षितः । दृष्ट्वाऽऽलेख्यगतममुं जानीथास्तमिहाऽऽगतम् ॥५६॥ प्रीता कनकवत्यूचे कृताञ्जलिपुटा च तम् । कोऽसि त्वं ? कथयित्वा स्वं मनागनुगृहाण माम् ॥५७॥
स खेचरो हंसँचरश्चलत्काञ्चनकुण्डलः । दिव्याङ्गरागनेपथ्यस्तथ्यवागिदमभ्यधात् ।।५८॥ पाअहं चन्द्रातपो नाम खेचरोऽस्मि वरानने ! । भाविनस्त्वत्पतेरस्य पादशुश्रूषणोद्यतः ॥५९।। विद्याप्रभावादन्यच्च निरघे ! कथयामि ते । त्वामेष्यत्यन्यदूत्येन स्वयंवरदिने च सः ॥६०॥ इत्युक्तवन्तं दत्ताशी: खेचरं विससर्ज सा । दध्यौ च संवदति मे दिष्ट्या यदैवतं वचः ॥६१॥ पातयाऽथ चित्रस्थपतिदर्शनातृप्तया पट: । भूयो भूयोऽक्षिवच्चके मीलनोन्मीलनास्पदम् ॥६२।।
क्षणं मूजि क्षणं कण्ठे क्षणं हृदि च सा पटम् । दधे विरहतापार्ता बाला कदलिकाण्डवत् ॥६३।। पाचन्द्रातपोऽपि तत्कालं तयोः सङ्गमकौतुकी। ययौ विद्याधरपरे विद्याधरविभूषिते ॥६४॥ विद्याशक्त्या महीयस्या स न स्वानिवाऽस्खलन् । वसुदेवाश्रितं वासभवनं प्राविशन्निशि ॥६५।। हंसरोमतूलिकाङ्के तल्पे धौतोत्तरच्छदे । सकलत्रं वसुदेवं शयानं च ददर्श सः ॥६६॥ विद्याधरीभुजलौच्छीर्षकं सुखशायिनम् । पार्दसंवाहनेनोपार्कस्त शौरिं स सेवितुम् ॥६७॥ शौरी रतक्लमोत्पन्ननिद्रासुखभरोऽपि हि । क्षणादथ जजागार सूत्थाना हि नरोत्तमाः ॥६८।। आकस्मिकं निशीथेऽपि तं तदोद्वीक्ष्य यादवः । न बिभाय न चुकोप प्रत्युतैवं परामृशत् ॥६९।। पुमानेष विरुद्धो में न हि तावदुपासनात् । शरणार्थी भवेद् यद्वा यद्वा मत्कार्यचिन्तकः ॥७०॥ यद्यालपाम्यमुं पादसेवकं मृदुवागपि सुरतक्लान्त्या तदा देव्यपि जागृयात् ।।७१।। न चोपेक्षितुमर्हामि सेवापरममुं जनम् । उपेक्षकस्यापि हि मे न निद्राऽस्मिन्निह स्थिते ।।७२॥ तदुत्थाय प्रयत्नेन देवीमप्रतिबोधयन् । पर्यङ्कात् परतो भूत्वा वार्तयाम्यमुमादृतम् ॥७३॥
अनन्दोलितपर्यङ्कस्तनुलाघवनाटनात् । दशार्हस्तल्पमुज्झित्वा निषसाद ततोऽन्यतः ॥७४॥ पचन्द्रातपोऽपि सर्वाङ्गरत्नाभरणभूषितः । दशार्ह दशमं भक्त्या प्राणमत् पत्तिलेशवत् ॥७५।। य आख्यत् कनकवतीं सोऽयं चन्द्रातपाभिधः । विद्याधर इति शौरिरुपलक्षयति स्म तम् ॥७६।। दशाहः प्रतिपत्त्यहँ तं परिष्वज्य खेचरम् । पृच्छति स्म स्वागतिकः स्वयमागमकारणम् ॥७७।। ततश्चन्द्रातपश्चन्द्रातपशीतलया गिरा । प्रौढ्या प्रज्ञावतां धुर्यो वक्तुमेवं प्रचक्रमे ॥७८॥ पातादृशीं कनकवतीं तवाऽऽख्याय यदूद्वह ! । त्वामप्याख्यातवानस्मि तस्यै सद्भूतवर्णनात् ॥७९॥ विद्याबलाच्च त्वां नाथ ! पटे लिखितवानहम् । तं पटं चाऽर्पयं तस्यै तन्मुखाम्भोजभास्करम् ॥८०॥ दृष्ट्वा पटस्थं त्वां राकामृगाङ्कमिव सम्मदात् । तस्या अमुञ्चताम् वारि लोचने चन्द्रकान्तवत् ॥८१।। साऽधात् तदैव त्वन्मूर्तिसनाथं तं पटं हृदि । दातुं विरहसन्तापसंविभागमिव त्वयि ॥८२।। सा यन्त्रशालभञ्जीव वर्षनेत्रा कृताञ्जलिः । मामिति प्रार्थितवती गौरवोत्तारिताञ्चला ॥८३।। मोपेक्षिष्ठा वराकी मां नाऽऽप्तो" मे त्वदृतेऽपरः । उपानयेस्तं पुरुषं सर्वथा मत्स्वयंवरे ॥८४।। नाथाऽद्य कृष्णदशमीदिवसस्तदनन्तरम् । भावी सितायां पञ्चम्यां पूर्वाह्ने तत्स्वयंवरः ॥८५॥ स्वयंवरोत्सवे तत्र प्रयोतुं यूयमर्हथ । त्वत्सङ्गमाशाजीवातुरनुग्राद्यैव सा त्वया ॥८६।। १. चित्रगतम् । २. प्रीत्या पु०आ० । ३. कथयात्मानं की० । ४. भूतपूर्वो हंस: हंसचरः । हंसवर० खं० १-२ । ५. ०श्चलकाञ्च० - खं० १ । ६. ०रूपेण ला० । अन्यस्य दूतो भूत्वा । ७. तया च खं० १ । ८. वायुरिव' लाटि० । ९. ०लतोत्कर्षकं खं० १ । १०. पादसंवाहनेन शौरिं सेवितुमारेभे । ११. विभावयन्न चु० खं० १ । १२. परामृशन् खं० १-२ । १३. सुखसुप्ता रत० की०म० । १४. च खं० १-२, ला० सू० । १५. अनान्दोलित० पु०आ०म० । १६. तदन्यत: ला० । १७. प्रतिपत्त्यर्थं ता० सं० । १८. स्वागतिकं मु० र० । १९. पूर्णिमाचन्द्रम् । २०. हर्षात् । २१. तस्या ववर्षतुर्वारि मु० । २२. चन्द्रकान्तमणिवत् । २३. ०मिवोद्यता सू० । २४. यान्त्रिकपुत्तली । २५. त्वया विनाऽपरो मे न हितः । २६. स्वामिस्त्वं गन्तुमर्हसि खं० १, ला० की० छा० ला०२ । २७. 'भवत्सङ्गमस्याशैव जीवितं यस्याः सा' लाटि. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org