________________
तृतीयः सर्गः )
श्रीत्रिषष्टिशलाकापुरुषचरितम् ।
षड् भाषानुगया वाचा काव्यकौशलमाप च । अचित्रीत चित्रे च पुस्तकर्मण्यभत ||२७|| किया - कारकेंगुप्तज्ञा वेदित्री च प्रहेलिकाः । सकलद्यूतदक्षा च सारथ्यकुशलाऽप्यभूत् ॥२८॥ संवाहँकत्व-कल्पाऽभूज्जज्ञे रसवर्तीकलाम् । प्राप मायेन्द्रजालादिप्रादुर्भावननैपुणम् ॥ २९ ॥ आचर्यकमिव प्राप तूर्यत्रितयदर्शने । सा काऽपि हि कला नास्ति सम्यग् यां न विवेद सा ||३०|| षड्भिः कुलकम् ॥ [सा प्रपेदेऽनवद्याङ्गी लावण्यजलनिम्नगा । कलाकलापसफलीकरणं मध्यमं वयः ||३१|| तद् दृष्ट्वा पितरौ तस्या वरान्वेषणतत्परौ । अपश्यन्तौ वरं योग्यमारेभाते स्वयंवरम् ||३२|| || अपरेद्युः स्वसदने सुखासीना मृगेक्षणा । अकस्मादागतं राजहंसमेकं ददर्श सा ||३३|| अशोकपल्लवाताम्रचञ्च-च्चरण- लोचनम् । पाण्डिम्ना नवडिण्डीरपिण्डैरिव विनिर्मितम् ||३४|| स्वर्णघर्घरिकामालभारिग्रीवं कलस्वनम् । नृत्यन्तमिव यानेन तं दृष्ट्वा सेत्यचिन्तयत् ||३५|| युग्मम् ॥ कस्याऽप्यनल्पपुण्यस्य विनोदास्पदमेष हि । स्वामिस्वीकारबाह्यं हि पक्षिणां भूषणं कुतः ? ||३६|| स्वामिनो यस्य कस्याऽपि भवत्वेष सितच्छेदः । विनोदायाऽस्तु मे बाढं ममेहोत्कण्ठते मनः ||३७|| गवाक्षलीनमथ तं हंसं सा हंसगामिनी । मङ्गल्यचामरमिव श्रियः स्वयमुपाददे ||३८|| पद्मक्षी पाणिपद्मेन सुखस्पर्शेन सा शनैः । मरालं लालयामास तं क्रीडापुण्डरीकवत् ॥३९॥ शिरीषसुकुमारेण पाणिनाऽमार्जयच्च सा । तस्याऽमलं पिच्छकोशं केशपाशं शिशोरिव ॥ ४० ॥ सखीं कनकवत्यूचे दारुपञ्जरमानय । यथा तत्र क्षिपाम्येनं नैकत्र स्थायिनः खगाः ॥ ४१ ॥ दारुपञ्जरमानेतुं सा यावत् प्राचलत् सखी । स हंसो वक्तुमारेभे तावन्मानुषभाषया ||४२|| राजपुत्रि ! विर्विक्ताऽसि मा मा मां पञ्जरे निधा: । तुभ्यं निवेदयिष्यामि प्रियं किञ्चिद् विमुञ्च माम् ||४३|| हंसं मानुषवाचा तं वदन्तं प्रेक्ष्य विस्मिता । सा गौरवाददोऽवादीत् प्रियातिथिमिवाऽऽगतम् ॥४४॥ प्रत्युताऽसि प्रसादाह हे हंस ! कथय प्रियम् । शर्करातोऽपि मधुरा वार्ताऽर्धकथिता सती ||४५ ।। ||हंसोऽप्याख्यत् कोशैलायां नगर्यां खेचरेशितुः । कोशैलस्याऽमरीकल्पा दुहिताऽस्ति सुकोशला ॥४६॥ कोशलापतिश्चास्ति युवा सौन्दर्य सारभूः । तं दृष्ट्वा भज्र्ज्यंते रेखा सर्वेषां रूपशालिनाम् ॥४७॥ सुकोशैंलापतिर्लोकोत्तररूपः स सुन्दरि ! । तद्रूपसदृशं रूपं ह्यदर्शे यदि नाऽन्यतः ॥४८॥
यथा हि स युवा रूपसम्पदा नृशिरोमणिः । नारीशिरोमणिस्तद्वत् त्वमप्यसि मनस्विनि ! ॥४९॥ युवयोरूपदृश्वाऽहं युवयोः सङ्गमेच्छया । त्वां तस्य सम्यगाख्यायाऽऽख्यातवानस्मि तं तव ॥५०॥ स्वयंवरं च ते श्रुत्वा तथा तस्याऽसि वर्णिता । तव स्वयंवरे भद्रे ! स यथा स्वयमेष्यति ॥५१॥ स्वयंवरे बहूनां च मध्ये तैमुपलक्षयेः । नक्षत्रनाथं नक्षत्रेष्विवाऽनल्पेन तेजसा ॥५२॥ तन्मुञ्च मां स्वस्ति तुभ्यमपवादो धृते मयि । विधिर्भट्टारक इव पत्यर्थं प्रयते तव ॥ ५३ ॥ न सामान्यः पुमानेष क्रीडया हंसरूपभृत् । पतिः सम्पत्स्यतेऽनेन दध्यौ कनकवत्यदः ॥५४॥ तं मुमोच च सा हस्तात् स उत्पत्य विहायसा । तदुत्सङ्गे चित्रपटमपातयदुवाच च ॥५५॥
१. संस्कृतं, प्राकृतं, मागधी, पैशाची, शौरसेनी, अपभ्रंश: इति षड् भाषाः । २. चित्रेषु मु० र० । ३. पुस्तं धातुकाष्ठादिभिर्वस्तुनिर्माणं तत्कर्मणि । “पुस्तं लेप्यादिकर्मणि" (अमर० २, शूद्र० २८); लेप्यं मृदा पुत्तलिकादिकरणं, आदिना काष्ठपुत्तलिकाकर्म गृह्यते (टीका) । ४. प्रावीण्यमलभत । ५. ०कारकगुप्तिका ला०पु० आ० । ६. समस्या: । ७. अङ्गमर्दनकलायां दक्षा । ८. ०वतीं कलाम् । ९. आचार्यत्वम्। १०. गेयं नृत्यं वाद्यं च । ११. नदी । १२. तां दृष्ट्वा पा. पु० । १३. श्वैत्येन । १४. डिण्डीरः समुद्रफेनः । १५. स्वर्णस्य घर्घरिका-किङ्किणिका:, तासां मालां बिभर्ति ग्रीवायां स: । १६. गमनेन । १७. हंसः । १८. माङ्गल्य: मु० | १९. पद्माक्षा मु० । २०. 'लीलाकमलवत्' लाटि० । २१. ०मलपिच्छ० खं० २ । २२. विदग्धाऽसि खं० २। विवेकशीला । २३. मानववाचा छा० । २४. 'सन्मुखं' लाटि० । २५.२६.२७.२८. 'कोशल' मध्ये श स्थाने 'स०' खं० १ - २, सू० । २९. ०सारभृत् खं० २ । ३०. भग्नरेखाऽस्मि स० खं० १ । भग्नरेखोऽस्मि स० सू० । ३१. सुकोसला० खं० १-२, सू० । ३२. दर्पणे । ३३. रूपद्रष्टाऽहं खं० १, ला०मु० । ३४ ततः खं० २ । ३५ त्वमुप० मु० । तमपि ल० ला० । ३६. चन्द्रम् । ३७ विधिभट्टा० मु० र० । भट्टारकः पूज्यः । ३८. ०ते तेन खं० १-२, ला०
Jain Education International
For Priv39-Shiv
३९
www.jainelibrary.org