________________
॥ तृतीयः सर्गः ॥ इतश्चाऽत्रैव भरते विद्याधरपुरोपमम् । पेढालपुरमित्यस्ति सद्भुितनिधानभूः ॥१॥ तत्रोत्फुल्लगृहोद्यानानिलो भवति शर्मणे । वस्त्राधिवासनागन्धकारी यूनामहर्निशम् ॥२॥ तत्रौकोरत्नबद्धोर्वीसङ्क्रान्तोडुषु बालिकाः । क्षिपन्ति पाणीन् यामिन्यां दन्तौडङ्कशङ्कया ॥३॥ तद्गृहेषूत्पताकेषु दृश्यन्ते निधिशालिषु । प्रचलत्पताकाच्छायारक्षा विषधरा इव ॥४॥ तन्निवासी जनः सर्वः सर्वतः समपृच्यत । दृढेन जिनधर्मेण नीलीरागेण वस्त्रवत् ॥५॥ प्रतत्र राजा हरिश्चन्द्रश्चन्द्रवनिर्मलो गुणैः । बभूवाऽद्भुतया ऋद्ध्या बिडोजर्स इवाऽनुजः ॥६॥
सूत्थानस्येन्द्रियजये नय-विक्रमशालिनः । तस्य भ्रूवल्लरीदास्यमनिशं शिश्रियुः श्रियः ।।७।। तस्य श्रियामपाराणां स्पर्धयेव यशांस्यपि । अपारीभूय भुवने व्यजृम्भन्त निरर्गलम् ॥८॥ तस्याऽमलयशोराशेर्भागधेयमगीयत । सुर-खेचरनारीभिर्वैताढ्याधियंकास्वपि ॥९॥ तस्याऽग्रमहिषी प्राणवल्लभा रूपेशालिनी । अभूलक्ष्मीवती नाम लक्ष्मीर्लक्ष्मीपतेरिव ॥१०॥ शीलेन लज्जया प्रेम्णा दाक्ष्येण विनयेन च । बभूव सा पतिमनः-कुमुदानन्दचन्द्रिका ॥११॥ आलपन्ती प्रणयिनः प्रीतिकोमलया गिरा। सा सुधासारणिमिवाऽऽदधे तत्कर्णरन्ध्रयोः ॥१२॥ सा कलाभिः पल्लविता पुष्पिता 'यादिभिर्गुणैः । पतिभक्त्या च फलिता 'बभौ वल्लीव जङ्गमा ॥१३॥ पाकालेन गच्छता लक्ष्मीवत्या प्रसषवे सता । सूतिकागहमङ्गल्यदीपिकेव स्वरोचिषा ।।१४।। सर्वलक्षणया जातमात्रयाऽपि तया तदा । श्रियेव गृहमेयुष्या पितरौ तावहष्यताम् ॥१५॥ पूर्वजन्मपतिस्तस्या धनदोऽभ्येत्य तत्क्षणम् । तत्राऽतनिष्ट कनकवृष्टिं प्राक्स्नेहमोहितः ॥१६॥ तया कनकवृष्ट्या च हृष्टो लक्ष्मीवतीपतिः । तस्याः सुतायाः कनकवतीति विदधेऽभिधाम् ॥१७॥ अङ्कादइँ सञ्चरन्ती सा धात्रीणां स्तनन्धयी । क्रमाद् बभूव हंसीव पादचङ्क्रमणक्षमा ॥१८॥ तां पद्भयामुपसर्पन्तीं दृष्ट्वा प्रक्रान्ततालिकाः । उल्लापनैनवनवैर्गायन्ति स्मोपातरः ॥१९॥ शनैः शनै स्तां जल्पन्तीं लल्ल-मन्मनया गिरा । महरालापयन् धात्र्यः शारिकॉमिव कौतकात ॥२०॥ आबद्धकन्तला लोलकण्डला क्वाणिनपरा । सा रत्नकन्दुकै रेमे रमेवाऽपरमूर्तिभाक् ॥२१॥ कृत्रिमैः पुत्रकैर्नित्यं रममाणा ववर्ष सा । हर्षप्रकर्षमुद्दामं मातुरुन्निद्रचक्षुषः ॥२२॥ उज्झन्ती मौरध्यमधुरां क्रमेण क्षीर कण्ठताम् । कलाकलापग्रहणयोग्या कनकवत्यभूत् ॥२३।। शुभेऽह्नि कनकवती कलाग्रहणहेतवे । उचितस्य कलाचार्यस्याऽर्पयामास भूपतिः ॥२४॥ अष्टादशाऽपि च लिपीलिपिस्रष्ट्रीव "साऽबुधत् । शब्दपारायणं चक्रे कण्ठस्थं निजनामवत् ।।२५।। तर्काभ्यासादलमभत "पत्रदाने गरोरपि । छन्दोऽलङ्कारशास्त्राब्धिपारदश्वर्यजायत ।।२६।। १. आश्चर्यम् । २.३. यत्रो० मु० । ४. ओक:-गृहम् । ५. तारासु । ६. हस्तिदन्तघटितकर्णाभूषणशङ्कया । ७. यद्गृहे० मु० । ८. चलत्पताकिकाच्छाया० पु० मु० । चिरं पताकाच्छायापदेशाद् विष० वि० ला० सू० । ९. तत्र वासी सू० । यत्र मु० । १०. सममृज्यत खं० २ । समविध्यत सू० । समरज्यत मु० । 'वासितः' लाटि० । ११. इन्द्रस्य । १२. सुध्यान० खं० १ सू० । सोत्साह० ला० । सुस्थान० मु० । उद्यमवतः । १३. ऊर्ध्वभूमिषु । १४. शीलशालिनी की० । १५. लक्ष्मवती खं० २ । १६. प्रणयिनी खं० २ । १७. ०णिमिव दधे पु०आ० । १८. पुष्पिताऽऽह्लादिभि० ला० । १९. ०ऽऽवनौ ला० । २०. ०गृहमाङ्गल्य० मु०। ०दीपकेव खं० २ । २१. स्वकान्त्या । २२. अकरोत् । २३. ०मोहतः खं० २ । २४. आह्वानैः । २५. धात्र्यः । २६. शनैः सा जल्पन्ती ला० । २७. अस्फुटया । २८. सारिका 'मेना' इति भाषायाम् । २९. क्वणत्-शब्दं कुर्वत् नूपुरं यस्याः । ३०. ववर्ध खं० २, ला० सू० । ३१. बालताम् । ३२. ब्राह्मीव । ३३. साधुवत् खं० १ । ३४. व्याकरणम् । ३५. गुरोरपि वादायाह्वानदाने।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org