SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ द्वितीयः सर्गः) श्रीत्रिषष्टिशलाकापुरुषचरितम् । ३७ स उत्तीर्य च गङ्गायाः प्रययौ तापसाश्रमम् । तत्रैक्षिष्ट स्त्रियं चैकां कण्ठन्यस्तास्थिमालिकाम् ॥५७७॥ पृष्टाश्च तापसा आख्यन् जितशत्रुनृपप्रिया । जरासन्धस्य पुत्रीयं नन्दिषेणेति नामतः ।।५७८।। [युग्मम्] वशीकृता परिव्राजैकेनैषा स च भूभुजा । हतस्तदस्थीन्यद्यापि धत्तेऽसौ दृढेकार्मणा ॥५७९॥ ततो मन्त्रबलाच्छौरिस्तां चक्रे गतकार्मणाम् । जितशत्रुर्ददौ तस्मै जामि केतुमती निजाम् ॥५८०॥ एत्य डिम्भो जरासन्धद्वा:स्थस्तं नृपमब्रवीत् । नन्दिषेणाप्राणदाता प्रेष्यतामुप॑कार्ययम् ॥५८१।। राज्ञाऽपि युक्तमित्युक्ते तेनैव वेत्रिणा । रथारूढो ययौ शौरिर्मगधेश्वरपत्तनम् ॥५८२॥ बद्धस्तत्र स आरक्षैरपृच्छद् बन्धकारणम् । तेऽप्याचख्युर्जरासन्धस्याऽऽख्यातं ज्ञानिना ह्यदः ॥५८३।। नन्दिषेणां दुहितरं यस्ते सज्जीकरिष्यति । हन्ता ते तत्सुतोऽवश्यं ज्ञातश्चाऽऽसीति हन्यसे ।।५८४॥ इत्युक्त्वा यादवं वध्यस्थाने पशुमिवाऽनयन् । असज्जन् मुष्टिकाद्याश्च ते दशाह निबहितुम् ॥५८५।। तदा गन्धसमृद्धेशोऽपृच्छद् गन्धारपिङ्गलः । प्रभावत्या वरं विद्यां वसुदेवं च साऽवदत् ॥५८६।। तेन प्रैषि तमानेतुं तत्र धात्री भगीरथी । सा निन्ये तेभ्य आच्छिद्य शौरिं गन्धसमृद्धके ॥५८७॥ पर्यणैषीत् तत्र शौरिः पितृदत्तां प्रभावतीम् । रममाणस्तया सार्धं चावतस्थे यथासुखम् ॥५८८।। विद्याधरस्त्रीरपराश्च शौरिः, गत्वोपयेमेऽथ सुकोशलां च । सुकोशलायाः सदने स्थितश्च, __ प्रत्यूहहीनं विषयानभुङ्क्त ॥५८९।। ॥ इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये अष्टमपर्वणि श्यामादि-सुकोशलान्तं मानुषी-विद्याधरी पैरिणयनो नाम द्वितीयः सर्गः ॥ १. धत्ते सा सू० । २. दृढकर्मणा मु० । दृढं कार्मणं यस्यां सा । ३. ०मुपकारिणम् ता०सं० । ४. तस्याचख्यु० खं० १ । ५. हन्यते खं० १ । ६. येमेऽथ सुरेन्द्ररूपः खं० १ । येमे च सुको० मु० । ७. सुकोसलां खं० १। ८. सुकोसलायाः खं० १-२, सू०। ९. ०हीने ला० । १०. सुकोसला० खं० १-२, सू० । ११. ०शलान्तकन्यापरि० मु० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001458
Book TitleTrishashtishalakapurushcharitammahakavyam Parva 8 9
Original Sutra AuthorHemchandracharya
AuthorRamnikvijay Gani
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2006
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy