________________
कलिकालसर्वज्ञ श्रीहेमचन्द्राचार्यगुम्फितं
(अष्टमं पर्व
तत्पिताऽमोघरेतास्तं पाणिनाऽऽदाय दारर्कम् । रुरोद तापसः शोकादस्तोकं सोऽन्यलोकवत् ॥५४३।। ज्वलनप्रभभार्या तु साऽहं ज्ञात्वाऽवधेः स्वयम् । तत्रैत्य तं मृगीरूपा स्तन्येनाऽवर्धयं सुतम् ॥५४४॥ एणीपुत्र इति नाम्ना विख्यातस्तेन सोऽभवत् । मृत्वाऽभूत् कौशिकोऽहिर्दृग्विषो मत्पितुराश्रमे ॥५४५।। मत्तातं सोऽदशत् करो हतं तस्य मया विषम् । बोधितः सोऽप्यहिर्मत्वा बलो नाम सरोऽभवत ॥५४६॥ ऋषिदत्तावपुः कृत्वा श्रावस्त्यामेत्य भूपतेः । तस्याऽऽर्पयं सुतं तच्चाऽसंस्मरन् सोऽग्रहीन हि ॥५४७|| मुक्त्वा तस्यान्तिके पुत्रं स्थित्वाऽऽकाशेऽहमभ्यधाम् । वने तदर्षिदत्ताख्या कन्याऽहं रमिता त्वया ॥५४८॥ त्वत्तः सुतोऽसौ जज्ञेऽस्मिन् जायमाने मृता त्वहम । देवत्वं प्रापवत्येणीभय चैनमवर्धयम् ॥५४९।। एणीपुत्रः सुतस्तेऽसावित्युक्ते तु शिलायुधः । राज्ये निधाय तं पुत्रं प्रव्रज्य त्रिदिवं ययौ ॥५५०॥ पाएणीपुत्रेणाऽपत्यार्थेऽष्टमभक्तेन तोषिता । अदां पुत्रीमहं जज्ञे चैषा प्रियङ्गसुन्दरी ॥५५१॥ अस्याः स्वयंवरे राज्ञाऽनेनाऽऽहूता महीभुजः । न चैकोऽप्यनया वव्रे युद्धं चाऽऽरम्भि राजभिः ॥५५२।। मत्सान्निध्याज्जिताः सर्वेऽप्येणीपुत्रेण भूभुजः । प्रियङ्गसुन्दरी सा तु त्वां दृष्ट्वाऽद्य वुवूर्षति ॥५५३।। त्वदर्थेऽष्टमभक्तेन तयाऽस्म्याराधिताऽनघ ! । मयाऽऽदिष्टस्त्वामवोचद् वेत्रभृद्न्धरक्षितः ॥५५४॥ अज्ञानात् त्वमवाज्ञासीरधुना तु ममाऽऽज्ञया । तेनाऽऽहूतः परिणयरेणीपुत्रस्य तां सुताम् ॥५५५॥ याचस्व च वरं कञ्चिदित्युक्तो यादवोऽवंदत् । मया स्मृता समागच्छे: प्रतिपेदे च सा तथा ॥५५६।। शौरि बन्धुमतीगेहे मुक्त्वा देवी तिरोदधे । प्रातःस्थेन सहित शौरिरायतने ययौ ॥५५७।। प्रियङ्सुन्दरीं तत्र पूर्वायातामुपायत । गान्धर्वेण विवाहेन यादवः परया मुदा ॥५५८।।
देवीदत्तवरं शौरिं स द्वा:स्थोऽष्टादशे दिने । राज्ञे व्यजिज्ञपद् राजाऽप्यानैषीत् तं स्ववेश्मनि ॥५५९।। पाइतश्च वैतादयगिरौ पुरे गन्धसमृद्धके । गन्धारपिङ्गलो राजा तस्य कन्या प्रभावती ॥५६०॥
सा भ्रमन्ती सुवर्णाभे नगरेऽगाद् ददर्श च । सोमश्रियं सखीत्वेन सपदि प्रत्यपादि च ॥५६१।। तस्याश्च पतिविरहं ज्ञात्वोवाच प्रभावती । मा ताम्य सखि ! भर्तारमानयामि तवाऽधुना ॥५६२॥ ऊचे निःश्वस्य सोमश्रीर्वेगवत्यानयद् यथा । आनेष्यसि तथैव त्वं नाथं मे रूपमन्मथम् ॥५६३।। न ह्यहं वेगवत्यस्मीत्युदित्वा च प्रभावती । श्रावस्त्यामेत्य वार्ष्णेयं गृहीत्वा तत्र चाऽऽनयत् ॥५६४॥ कृतान्यरूपस्तत्राऽस्थात् शौरिः सोमश्रिया समम् । ज्ञातो मानसवेगेन बद्धश्चाऽन्येधुरेत्य सः ॥५६५।। जाते कलकले शौरिर्मोचितो वृद्धखेचरैः । तेन मानसवेगेन विवादश्च प्रचक्रमे ॥५६६।। वैजयन्त्यां ततः पुर्यां बलसिंहनृपान्तिके । 'तौ वादेऽधिष्ठितौ तत्र ते चेयुः सूर्पकादयः ॥५६७।। ऊचे मानसवेगः प्राक् सोमश्रीर्मम कल्पिता । अनेन हि च्छेलादूढा मददत्ता च मत्स्वसा ।।५६८॥ उवाच शौरिः सोमश्रीर्मयोढा पितृकल्पिता । तां जहेऽसौ वेगवत्याः सर्वं वेत्ति जनोऽपि तत् ॥५६९।। एवं मानसवेगस्तु जितो युद्धार्थमुत्थितः । नीलकण्ठोऽङ्गारकश्च सूर्पकाद्याश्च खेचराः ॥५७०॥ ददौ वेगवतीमाताऽङ्गारवत्यथ शौरये । दिव्यं धनुर्निषङ्गौ च प्रज्ञप्ती तु प्रभावती ॥५७१।। विद्या-दिव्यास्त्रपुष्टौजा बिडौजा इव यादवः । एकोऽपि खेचरान् सर्वानजैषील्लीलयैव तान् ॥५७२॥ बद्ध्वा मानसवेगं चाऽक्षिपत् सोमश्रियः पुरः । श्वश्र्वा अङ्गारवत्याश्च गिरा शौरिर्मुमोच तम् ॥५७३।। वृतो मानसवेगाथै त्यीभूतैः स खेचरैः । सोमश्रीयुग् विमानस्थो महापुरपुरं ययौ ॥५७४॥ तत्र सोमश्रिया सार्धं विललास यद्वहः । अन्येधुः सूर्पकेणाऽश्वीभूय जहे स मायिना ।।५७५।। ज्ञात्वा च मुष्टिना शौरिस्ताडयामार
पूर्पकेण ततो मुक्तः सोऽपतज्जाह्नवीजले ॥५७६।। १. बालकम् पा० आ० । २. एणीरूपा खं० २ । ३. स्वयम् पु०सं० । ४. जहे सू० । ५. जातोऽस्मिन् खं० १ । ६. आदां खं० १। ७. राज्ञा तेना० ला० । ८. ०द्रङ्गरक्षितः खं० १ ला० । ०दङ्गरक्षितः खं० २। ९. ०वदीत् खं० १ । १०. गन्धर्वेण खं० २ । ११. राज्ञो० खं० २ । १२. अन्विष्यसि ला० । १३. वसुदेव-मानसवेगौ । १४. चैयुः मु० । १५. बला० ला० । १६. वेगवत्या सर्वं र.। १७. ० त्यभूतैः खं० १ ।
॥जयामास सप
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org