________________
३५
द्वितीयः सर्गः)
श्रीत्रिषष्टिशलाकाफुरुषचरितम् । तौ त्रिपृष्ठा-ऽचलाभ्यां च हतौ सप्तममीयतुः । नरकं तत उद्वृत्तौ भ्रमतुर्बहुधा भवम् ।।५१०॥ अश्वग्रीवस्ततः सोऽहमभूवम् तव नन्दनः । हरिश्मश्रुर्महिषोऽभूत् तद्वैराच्च हतो मया ॥५११।। मृत्वाऽभवल्लोहिताक्षाभिधोऽयमसुराग्रणीः । वन्दितुं मां समायातो भवनाटकमीदृशम् ॥५१२॥ तं नत्वर्षि लोहिताक्षस्तस्यर्षेः श्रेष्ठिनोऽपि च । त्रिपदो महिषस्यापि रत्नमूर्तीरिहाऽकरोत् ॥५१३।। पा श्रेष्ठिनः कामदेवस्य वंशे तस्योऽस्ति सम्प्रति । कामदत्त इति श्रेष्ठी तस्य बन्धुमती सुता ॥५१४।। श्रेष्ठिना तद्वरौर्थे च पृष्टो ज्ञान्याख्यदत्र य: । उद्घाटयेन् मुखद्वारं स भावी त्वत्सुतावरः ॥५१५।। वसुदेवस्तदाकर्ण्य तद्वारमुदघाटयत् । श्रेष्ठी तत्रैत्य तां कन्यां ददौ तस्मै तदैव हि ॥५१६।। तं द्रष्टुं कौतुकाद् राजपुत्री पित्रा सहाऽऽगता । प्रियङ्गसुन्दरी दृष्ट्वा चाऽनङ्गार्ताऽभवत् क्षणात् ॥५१७॥ द्वा:स्थ: प्रियङ्गसुन्दर्यास्तां दशां वृष्णिजन्मने । एणीपुत्रचरित्रं चाऽकीर्तयद् रचिताञ्जलिः ॥५१८॥ गृहे प्रियङ्गसुन्दर्या अवश्यं प्रातरापतेः । इत्युक्त्वा स ययौ द्वाःस्थः शौरिस्त्वैक्षिष्ट नाटकम् ॥५१९।। पतत्राऽ श्रौषीन्नमिपुत्रो वासवः खेचरोऽभवत् । तद्वंश्या वासवाश्चाऽन्ये पुरुहूतश्च तद्भवः ॥५२०।। पर्यटन् द्विपमारूढः पुरुहूतोऽन्यदैवत । अहल्यां गौतमभार्यां रमयामास चाऽऽश्रमे ॥५२१।। तदा तया॑ऽपविद्यस्य पुल्लिङ्गं गौतमोऽच्छिदत् । तच्छ्रुत्वा यादवो भीतो नाऽगात् प्रियङ्गसुन्दरीम् ॥५२२।। बन्धुमत्या समं शौरिः सुप्तो निद्रात्यये च सः । निशि देवी ददशैकां काऽसाविति विचिन्तयन् ॥५२३।। किं चिन्तयसि वत्सेति जल्पन्ती साऽपि देवता । पाणौ गृहीत्वाऽनैषीत् तमशोकवनिकान्तरे ।।५२४।। पाइत्यूचे चाऽत्र भरते श्रीचन्दनपुरे पुरे । अमोघरेता भूपोऽभूत् तस्य चारुमती प्रिया ॥५२५।।
चारुचन्द्रः सुतो वेश्याऽनङ्गसेनेति नामतः । तस्याः कामपताकेति पुत्री चाऽऽसीत् सुलोचना ॥५२६।। राज्ञो यज्ञेऽथ तस्येयुस्तापसास्तेषु कौशिकः । तृणबिन्दुश्चोपाध्यायौ फलान्यापर्यतामुभौ ॥५२७॥ कुत: फलांनीदृशानि पृष्टौ राज्ञोचतुश्च तौ । हरिवंशोत्पत्त्यानीतकल्पद्रोरादितः कथाम् ।।५२८॥ छुर्या तदा च नृत्यन्ती जहे कामपताकिका । चारुचन्द्रकुमारस्य कौशिकर्षेश्च मानसम् ।।५२९।। यज्ञे वृत्ते कुमारस्तामात्मसादकरोद् द्रुतम् । स तापसः कौशिकस्तु पार्थिवात् तामयाचत ॥५३०॥ ऊचे राजा कुमारेण गृहीता श्राविका त्वसौ । प्रतिपन्ने सति पत्यौ न द्वितीयं पतिं भजेत् ।।५३१॥ एवं राज्ञा प्रतिषिद्धः सङ्क्रुद्धः कौशिकोऽशपत् । रमयिष्यति चेन्नारी तत् तदैव मरिष्यति ॥५३२।। राजाऽथ चारुचन्द्राय दत्त्वा राज्यं स्वसूनवे । प्रपेदे तापसीभूय वनवासं महामतिः ।।५३३॥ अज्ञातगर्भा तद्राज्ञी वनं तेन समं ययौ । कालेन प्रकटे गर्भे पत्युः शङ्काच्छिदेऽवदत् ॥५३४|| तया च सुषवेऽन्येधुऋषिदत्तेति कन्यका । क्रमेण श्राविका साऽभूच्चारणश्रमणान्तिके ।।५३५।। सा प्राप यौवनं तस्या मातृ-धात्र्योऽम्रियन्त च । तत्राऽन्येधुर्भगव्येनाऽऽययौ राजा शिलायुधः ।।५३६।। तदर्शनात् कामवशस्तदातिथ्यं प्रपद्य च । नीत्वैकान्तेऽरमयत् तां नानाभङ्ग्या शिलायुधः ॥५३७।। साऽप्यूचेऽहमतुस्नाता गर्भः स्याच्चेत् कथञ्चन । आख्याहि कुलकन्यायास्तदा का नाम मे गतिः ? ॥५३८।। सोऽप्युवाचाऽहमैक्ष्वाकः श्रावस्त्यां पुरि पार्थिवः । शिलायुधो नामधेर्यात् शतायुधनृपात्मजः ॥५३९॥ यदि ते जायते पुत्रः श्रावस्त्यां स ममान्तिके । त्वयाऽऽनेयो मया कार्यः स एव नृपतिस्तदा ॥५४०।। इत्युक्ते तद्बलान्येयुस्तामापृच्छ्य ययौ च सः । तत् साऽपि पितुराचख्यौ क्रमाच्च सुषुवे सुतम् ।।५४१।।
तेन प्रसवरोगेण ऋषिदत्ता व्यपद्यत । ज्वलनप्रभनागस्याऽग्रमहिषी बभूव च ॥५४२।।। १. उद्धृतौ मुर. । २. तत्रास्ति ला० । ३. तद्वरार्थेन खं० १ । ४. वासवा जज्ञे पुरु० ला० । ५. गोतम० खं० १-२, सू० । ६. तस्याप्यविद्यस्य सू० । तस्योप० खं० २ । तस्योपविष्टस्य ला० । ७. गोतमो० खं० १-२, सू० । ०मोऽच्छिनत् ता०सं० । ८. तस्यैयु० मु० । ९. फलानीदेशीति ता.सं. खं० २, ला० । १०. ०वंश्योत्पन्नानीतिकल्प० ला० । ११. छुर्या की०र० । १२. समाहितः खं० १ । १३. समाययौ की० । १४. ०काऽथाभू० ला० । १५. ०{गयया० ला० । १६. ०धेयच्छत्रायुध० ला० । ०धेयच्छता० खं० २१ १७. सा ता० सं० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org