________________
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं
(अष्टमं पर्व
मूच्छितोत्थापिता सा च शौरिणा जलसेकतः । ततः प्रदक्षिणीकृत्य वसुदेवमवोचत ॥४७६।। पासिद्धा विद्यास्त्वत्प्रभावान्ममाद्य शृणु चापरम् । वैताढ्याद्रावस्ति पुरं नाम्ना गगनवल्लभम् ॥४७७॥ विद्युदंष्ट्रो नमिवंश्यो राजाऽभूत् तत्र सोऽन्यदा । प्रत्यग्विदेहे प्रतिमास्थितं मुनिमुदैक्षत ॥४७८।। भोः ! कोऽप्ययमुत्पातस्तन्नीत्वैनं वरुणाचले । हतेत्युक्त्वाऽताडयत् तं विद्युइंष्ट्रो नभश्चरैः ॥४७९।। शुक्लध्यानजुषस्तस्य मुनेज॑ज्ञे च केवलम् । केर्वेलिमहिमार्थं च धरणेन्द्रः समाययौ ।।४८०॥ तस्यर्षेः प्रत्यनीकांस्तान् विलोक्य धरण: कुधा । भ्रष्टविद्यांश्चकाराऽऽशु दीनास्ते चैवमूचिरे ॥४८१॥ कोऽप्येष इति नो विद्मो विद्युइंष्ट्रेण केवलम् । उत्पातोऽसाविति प्रेर्य कर्मेदं कारिता मुनौ ॥४८२॥ धरणेन्द्रोऽप्युवाचाऽस्य केवलोत्सवहेतवे । अहमागामरे पापा ! अज्ञानान्धाः ! करोमि किम् ? ॥४८३।। भूयः क्लेशेन विद्या वः सेत्स्यन्ति परमाहताम् । साधूनां तच्छितानां च द्विषं मोक्ष्यन्ति ताः क्षणात ॥४८४|| रोहिण्याद्या महाविद्या विद्युदंष्ट्रस्य दुर्मतेः । न सेत्स्यन्त्यस्य सन्ताने पुरुषस्य स्त्रिया अपि ॥४८५।। अथ सेत्स्यन्ति ता: साधोर्महापुंसश्च दर्शनात् । इत्युदित्वा धरणेन्द्रो ययौ निजनिकेतनम् ।।४८६।।। पाइह विद्याः साधयन्ती कन्या तद्वंशसम्भवा । विष्णुना पुण्डरीकेणोदूढा केतुमती पुरा ॥४८७॥ सिद्धविद्या त्वत्प्रभावात् तद्वंश्याऽहं च कन्यका । बालचन्द्रेति चन्द्रास्य ! मामद्वह वशंवदाम ॥४८८। किं विद्यासिद्धिहेतोस्ते यच्छामीति तयोदितः । वेगवत्यै देहि विद्यामित्यूचे वृष्णिनन्दनः ॥४८९।। सा गृहीत्वा वेगवतीं ययौ गगनवल्लभे । जगाम वसुदेवस्तु तापसाश्रममेव तम् ॥४९०॥ सद्य आत्तव्रतौ भूपौ निन्दन्तौ निजपौरुषम् । तत्राऽऽयातौ प्रेक्ष्य शौरिः पप्रच्छोद्वेगकारणम् ॥४९१।। पातावूचतुश्च श्रावस्त्यामस्ति राजा महाभुजः । एणीपुत्रः पवित्रात्मा चरित्रैरतिनिर्मलैः ॥४९२॥
पुत्र्याः प्रियङ्गसुन्दर्याः स्वयंवरकृते नृपाः । तेनाऽऽहूता न चैकोऽपि तद्दुहित्रा वृतो नृपः ॥४९३।। ततः सङ्ग्राम ऑरम्भि कुद्धैः सम्भूय पार्थिवैः । एकेनाऽपि हि तत्पित्रा जिताः सर्वेऽपि विद्रुताः ॥४९४।। गिरिषु प्राविशन् केऽपि केऽप्यरण्येऽप्सु केऽपि च । आवां तु तापसौ भूतौ धिग् नौ क्लीबौ वृथाभुजौ ॥४९५।। श्रुत्वेत्यबोधयत् तौ च जैनधर्मं यदूद्वहः । ततः प्राव्रजतां शौरिः श्रावस्त्यां तु स्वयं ययौ ॥४९६।। तत्रोद्याने देवगृहं त्रिद्वारं प्रेक्षते स्म सः । दुष्प्रवेशं मुखद्वारे दत्तद्वात्रिंशदर्गले ॥४९७।। पार्श्वद्वारा प्रविष्टः स प्रतिमास्तत्र चैक्षत । एकस्यहिणश्च त्रिपदो महिषस्य च ॥४९८॥ किमेतदिति तेनैक: पृष्टो विप्रोऽब्रवीदिति । जितशत्रुनृपोऽत्राऽऽसीत् तस्य सूनुर्मूगध्वजः ॥४९९।। श्रेष्ठी च कामदेवोऽभूत् स्वगोष्ठे सोऽन्यदा ययौ । जगदे दण्डकाख्येन गोपालेन निजेन च ॥५००॥ अस्या महिष्यास्तनयाः ञ्चि पूर्वं मया हताः । अयं तु षष्ठस्तनयो जातो भद्रतराकृतिः ।।५०१।। जातमात्रोऽपि मत्पादौ नमैति स्म चलेक्षणः । भयाद् वेपथुमांस्तेन त्रातोऽयं कृपया मया ॥५०२।। त्वमप्यस्याऽभयं देहि कोऽपि जातिस्मरो ह्ययम् । इत्युक्तो महिषं श्रेष्ठी श्रावस्त्यां कृपयाऽनयत् ।।५०३॥ राजा तस्याऽभयं तेन याचितः श्रेष्ठिना ददौ । श्रावस्त्यां निर्भयमसौ सर्वत्रापि भ्रमत्विति ॥५०४।। मगध्वजकुमारणांऽहिरेकस्तस्य चिच्छिदे । स तु निर्वासितो राज्ञा प्रव्रज्यां प्रत्यपद्यत ।।५०५।। व्यापादि महिषः सोऽष्टादशे च दिवसे ततः । मृगध्वजस्य द्वाविंशे दिने जज्ञे तु केवलम् ॥५०६।।
देवा-ऽसुर-नृपा-ऽमात्यास्तमागत्य ववन्दिरे । जितशत्रनपस्तुचे किं वैरं महिषेण वः ? ५०७।। पाशशंस केवली पूर्वमश्वग्रीवोऽर्धचत्र्यभूत् । तस्याऽमात्यो हरिश्मश्रुः कौलो धर्मं निनिन्द सः ॥५०८।।
राजा समर्थयामास सदा धर्मं स आस्तिकः । एवं विरोधो ववृधे तयोर्नृपति-मन्त्रिणोः ॥५०९॥ १. पश्चिममहाविदेहक्षेत्रे । २. हरे० ला० । ३. केवल० ला० २। ४. अज्ञानान् वः पा० । अज्ञानां वः मु० । ५. 'द्वेषकर्तारं' लाटि.। ६. विद्यासिद्धा सं० । ७. वरः मु० । ८. आरेभे खं० १, सू०ला० । ९. तौ च प्रा० खं० १, सू०ला० । १०. स्वगोष्ठं ला० । ११. नमते खं० १ । १२. इत्युक्त्वा ला० । १३. विपेदे पु.ला० । व्यापादितो महिषः सोऽष्टादशदिवसे मृतः ता०सं० । १४. ०ष्टादशमे दि० ला० । १५. कौलसम्प्रदायानुयायी । 'नास्तिकः' लाटि. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org