________________
द्वितीयः सर्गः)
श्रीत्रिषष्टिशलाकापुरुषचरितम् ।
३३
पाश्रुत्वा मदनवेगां च प्रदत्तां भूचराय ताम् । क्रोधाध्मातस्त्रिशिखरः स्वयं योद्धमुपाययौ ॥४४६।। मायामयं स्वर्णतुण्डं स्यन्दनं खेचरार्पितम् । आरूढो युयुधे शौरिर्वतो दधिमुखादिभिः ॥४४७॥ ऐन्द्रेणाऽस्त्रेण वार्ष्णेयस्त्रिशिखरशिरोऽच्छिदत् । अमोचयच्च श्वशुरं दिवस्तिलकमेत्य तम् ॥४४८।। एत्य च श्वशुरपुरे शौरेविलसतः सतः । पत्न्यां मदनवेगायामनाधृष्टिः सुतोऽभवत् ॥४४९।। पासिद्धायतनयात्रां सोऽन्येधुश्चके सखेचरः । खेचरीभिर्वीक्ष्यमाणः सरांगाभिर्मुहर्मुहः ॥४५०॥ यात्रायाश्चाऽऽययौ शौरिरेहि वेगवतीति च । व्याहार्षीन् मदनवेगां तल्पं साऽपि जेही कुधा ॥४५॥ तदा त्रिशिखरपत्न्या सूर्पणख्या तदालयम् । निर्दह्य मदनवेगारूपयाऽहारि वृष्णिसूः ॥४५२॥ तया जिघांसया व्योम्नो मुक्तो राजगृहान्तिके । तृणपुञ्जस्योपरिष्टात् पपात च यदद्वहः ॥४५३।। गीयमाने जरासन्धे ज्ञात्वा राजगृहं पुरम् । गतः शौरिः स्वर्णकोटिं जित्वाऽक्षरर्थिनां ददौ ॥४५४॥ बध्वाऽऽर: पगृहं ततः शौरिरनीयत । विनाऽपराधं कि बद्धोऽस्मीत्यपृच्छच्च तान् महान् ॥४५५॥ तेऽप्यूचुर्ज्ञानिनाऽऽख्यातं जरासन्धस्य यः प्रगें । कोटि जित्वाऽर्थिनां दाता तत्सूनुर्वधकस्तव ॥५६॥ सोऽसि राजाज्ञया तेन निरागैस्कोऽपि मार्यसे । इत्युक्त्वा वसुदेवं ते मध्येभस्त्रं प्रचिक्षिपुः ॥४५७॥ अपवादभयात् छन्नं ते वार्ष्णेयं जिघांसवः । अंगुरलोठयन् वेगवत्या धात्र्यग्रहीच्च तम् ॥४५८॥ नीयमानस्तया शौरिर्दध्यावित्यहमप्यहो ! । मन्ये गृहीतो भारुण्डैश्चारुदत्त इवाऽम्बरे ॥४५९॥ मुक्तश्च पर्वतेऽपश्यद् वेगवत्याः पदद्वयम् । उपलक्ष्य च भस्त्राया निर्ययौ यदुपुङ्गवः ॥४६०॥ नाथ ! नाथेति रुदैती सुदतीमालिलिङ्ग ताम् । त्वया कथमहं प्राप्त इत्यपृच्छच्च यादवः ॥४६॥ अश्रूण्युन्मृज्य साऽवोचच्छंयनोत्थितया मया । तदा तल्पे न दृष्टोऽसि स्वामिन् ! भाग्यविपर्ययात् ॥४६२॥ सममन्तःपुरस्त्रीभी रुदैत्याः करुणं मम । प्रज्ञप्त्या विद्ययाऽऽख्यातं हरणं पतनं च ते ॥४६३॥ ततः परमजानाना व्यमृशं यत्पतिर्मम । पार्वे कस्याऽप्यूषेविद्या नोऽऽचष्टे तत्प्रभावतः ॥४६४।। ततश्च त्वद्वियोगार्ता स्थित्वा कालं कमप्यहम् । त्वामन्वेष्टुं जगद् भ्रान्ता स्वामिन् ! भूपत्यनुज्ञया ।४६५।। दृष्टोऽसि सिद्धायतने समं मदनवेगया । तच्चैत्याच्च पुरे प्राप्तं त्वामनुप्रापमाश्वहम् ॥४६६॥ तत्र चाऽन्तर्हिताऽ श्रौषं मन्नामोदीरितं त्वया । चिरं विरह क्लेशं चाऽमुचं स्नेहतस्तव ॥४६७॥ , कुद्धा मदनवेगा द्राक् प्रविवेशाऽन्तरालय । कृतं प्रदीपनं चाऽथ सूर्पणख्यौषधीबलात् ॥४६८।। हतश्च मदनवेगारूपया त्वं तया ततः । तयोज्झ्यमानं त्वां धर्तुमन्वधावमहं द्रुतम् ॥४६९।। कल्पितमानसवेगारूपाऽधस्तात् स्थिता तया । अहं दृष्टा तर्जिती च विद्यौषधिसमर्थया ॥४७०॥ तस्याश्च नंष्ट्वा चैत्याय यान्ती मुनिमलङ्ग्यम् । मम विद्यास्ततो भ्रष्टा धात्री च मिलिता तदा ॥४७१।। चिन्तयन्ती क्व मे भर्तेत्यहं धात्रीं न्ययोजयम् । तया भ्रमन्त्या दृष्टस्त्वं निपतन् पर्वताग्रतः ॥४७२।। गृहीतश्च तया वेगात् त्वं भस्त्रान्तःस्थितः प्रभो ! । हीमत्तीर्थे पञ्चनदे समानीय व्यमुच्यथाः ॥४७३॥ इति श्रुत्वा सह तया तत्स्थेऽस्थात् तापसाश्रमे । कन्यां ददर्श सोऽन्येधुनद्यां पाशनियन्त्रिताम् ॥४७४||
भणितो वेगवत्या च स स्वयं च कृपापरः । कन्यकां तां नागपाशबन्धाच्छौरिरमोचयत् ॥४७५।। १. अयोमयं ला० । २. शिरोऽच्छिनत् ता.सं. । ३. प्रेक्ष्यमाणः ला०२। ४. सादराभि० खं० २। ५. ययौ मु०, खं० १ ला० २।६.०नख्या खं०१-२, ला०सू० । ७. ०रूपायाऽहारि खं०१। ८. द्यूतपाशैः । ९. प्रातः । १०. सोऽपि ला० । ११. राज्ञाऽऽज्ञया की.पा.ला० । १२. निरपराधी । १३. अद्रेरलोट० ता.सं.की.पा.ला २। १४. धात्र्या० खं० २, सू० । १५. पुरतोऽपश्य० की. । १६. रुदन्ती ला० । १७. सुदन्ती मु० । १८. ०च्छ्यानो० खं० १ । १९. समं ततः पुर० ता०सं० २०. रुदन्त्याः खं० २। २१. ०विद्यामाचष्टे मु० । २२. स्थिता मु० । २३. प्राप्ते त्वय्यनु० ला० । २४. अदृश्या । २५. विरहजक्लेशं खं० १ । २६. चामुञ्चं ला० । २७. क्रुधा मु०र०।२८. ०रालये ला० । २९. चक्रे सू० । ३०. सूर्पनख्यौ० खं १-२, ला०सू० । ३१. तयोह्यमानं पा०म० । उत्पाट्यमानं ला० । ३२. तर्किता खं० १-२, ला०, ता.सं.पा.आ. । ३३. नष्टा खं० १ विना । ३४. श्रीमत्तीर्थे ला० । हीमन्ताद्रेः पु० । ३५. विमु० ला० । ३६. ततोऽस्था० पु०ला० २ । तत्रास्था० खं० १-२, ला० सू०म० । ३७. चाऽन्येद्यु० ला०मु०, खं० १-२, ला०सू० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org