________________
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं
(अष्टमं पर्व
अश्रद्दधत् शक्रवचो ग्लानसाधुवपुर्धरः । सुरो रत्नपुराभ्य॑र्णेऽरण्ये कोऽपि समाययौ ॥३१॥ द्वितीयसाधुवेषं च कृत्वा तद्वसतिं ययौ । कवले पारणायाऽऽत्ते नन्दिषेणं जगाद च ॥३२॥ वैयाँवत्त्यं प्रतिज्ञाय कथं भो । भोक्ष्यसेऽधना? । यदहिः क्षत्तषाकान्तो मनिरस्त्यतिसारकी ॥३३॥ मुक्त्वाऽन्नं पानमन्वेष्टं नन्दिषेणोऽथ निर्ययौ । अनेषणीयं तच्छक्त्या देवः कर्तुं प्रचक्रमे ॥३४॥ मुनेर्लब्धिमतस्तस्य प्रभावात् तद्विजृम्भितम् । न प्राभवत् ततः प्राप शुद्ध पानं स कुत्रचित् ॥३५।। जगाम नन्दिषेणश्च ग्लानर्षेस्तस्य सन्निधौ । स तेन मायामुनिना चुकुशे परुषाक्षरम् ॥३६।। अहमीदृगवस्थोऽस्मि त्वं तु भोजनलम्पटः । न शीघ्रमागास्तद्धिक् ते वैयावृत्त्यप्रतिश्रवम् ॥३७॥ नन्दिषेणोऽप्यवोचत् तं सहस्वाऽऽग इदं मम । सज्जं त्वां विदधाम्येष इदं पानं तवोचितम् ॥३८|| पाययित्वा स तं पानमुत्तिष्ठेति जगाद च । ग्लानोऽप्युवाच धिग् मुण्ड ! किं मां नोऽक्षममीक्षसे ? ॥३९।। पाअथ मायामुनि स्कन्धमारोप्य प्रचलंस्ततः । आचुकुशे नन्दिषेण: स तेनैवं पदे पदे ॥४०॥
अरे ! शीघ्रं व्रजन् किं मां दुनोयन्दोलनैर्भृशम् ? । शनैः शनैर्गच्छ सत्यं वैयोवृत्त्यकरोऽसि चेत् ॥४१॥ इत्युक्तोऽतिशनैः सोऽगात् तस्योपरि च सोऽमरः । वर्चश्चक्रेऽब्रवीच्चैवं वेगभङ्गं करोषि किम् ? ॥४२।। अयं महर्षिरुल्लाघः कथं स्यादिति चिन्तयन । नाऽजीगणत तद्वचांसि नन्दिषेणः कटन्यपि ॥४३॥ वर्षोऽपहृत्याऽथ मुनौ पुष्पवृष्टिं व्यधात् मुदा । त्रिस्तं प्रदक्षिणीकृत्य दिव्यरूपोऽनमच्च सः ॥४४॥ तां प्रशंसां शककृतां तस्मै देवः शशंस सः । क्षमयित्वा तुभ्यमहं किं ददामीत्युवाच च ॥४५।। ऊचे मुनिर्मया लब्धो धर्मः परमदुर्लभः । सारं नाऽतः परं किञ्चिदिह त्वत्तो यदर्थये ॥४६॥ इत्युक्तो द्यां ययौ देवः स्वाश्रयं मुनिरप्यगात् । पृष्टश्च साधुभिः सर्वमनुत्सिक्तः शशंस सः ॥४७।। द्वादशाब्दसहस्राणि तपस्तेपे स दुस्तपम् । विहितानशनश्चाऽन्ते निजं दौर्भाग्यमस्मरत् ॥४८।। तपसाऽनेन भूयासं रमणीजनवल्लभः । एवं निदानं कृत्वा स महाशुक्रे सुरोऽभवत् ॥४९॥ ततश्च्युत्वा नन्दिषेणस्तव सूनुरभूदसौ । वसुदेवस्तन्निदानाद् रमणीनां मनोहरः ॥५०॥ ततो राज्येऽन्धकवृष्णि: समुद्रविजयं न्यधात् । स्वयं तु सुप्रतिष्ठान्ते प्रव्रज्य प्रययौ शिवम् ॥५१॥ पाप्रावाजीद् भोजवृष्णिश्च मथुरायां ततोऽभवत् । उग्रसेनो नृपस्तस्य महिषी धारिणी पुनः ॥५२॥ उग्रसेनोऽन्यदा गच्छन् बहि: कमपि तापसम् । स्थितं क्वाऽपि रहो देशेऽद्राक्षीन्मासोपवासिनम् ॥५३॥ तस्य चैषोऽभिग्रहोऽभून्मासोपवासपारणम् । करिष्याम्येकवेश्मात्तभिक्षया नाऽन्यथा पुनः ॥५४॥ मासे मासे पारणं स कृत्वैकगृहभिक्षया । रहःप्रदेशं तमगान्न पुनः सदनान्तरे ।।५५।।। पारणायोग्रसेनस्तं निमन्त्र्य प्रययौ गृहम् । अन्वागात् तापसः सोऽपि विस्मृतश्च महीपतेः ।।५६।। अभुक्त एव स मुनिर्निजमेवाऽऽश्रयं ययौ । तथैव मासक्षमणं भूयोऽपि प्रत्यपद्यत ॥५७|| कथञ्चित् तत्र चाऽऽयातो राजाऽपश्यत् पुनश्च तम् । स्मृत्वा निमन्त्रणं तच्च क्षमयामास चाटुभिः ॥५८ पुननिमन्त्रयामास विसस्मार पुनस्तथा । आगत्याऽभुक्त एव स्वं स्थानं स पुनरभ्यगात् ॥५९।। स्मृत्वा भूयोऽपि तं राजा क्षमयामास पूर्ववत् । न्यमन्त्रयत भूयोऽपि चुकोपाऽथ स तापसः ॥६०॥ तपसाऽनेन भूयासं वधायाऽस्य भवान्तरे । एवं कृत्वा निदानं सोऽनशनेन व्यपद्यत ॥६१॥ पासोऽथोग्रसेनभाया धारिण्या उदरेऽभवत् । तस्याश्च दोहदो जज्ञे पत्युः पलेलभक्षणे ॥६२।। १. ०भ्यारण्ये मु० र० । २. द्वितीयः खं०२, ला०, र० । द्वितीयं खं० १ । ३. पारणायत्ते मु० । ४. वैयावृत्ति सं० । ५. अतिसार-रोगी । ६. पानं गवेषयामीति ला० सू० । ७. ०प्रतिग्रहम् ला० र० । ०प्रतिश्रुतम् की० । ८. आग:-अपराधम् । ९. पाययिष्याम्यहं ला० । १०. नाऽसमर्थम् । ११. दुनोष्यान्दो० मु० । १२. वैयावृत्यं करोषि मु० । १३. विष्ठाम् । १४. नीरोगः । १५. तं त्रिः खं० २ । १६. वरं ता.सं. । १७. निर्गर्वः । १८. ततश्च्युत्वा सूर्यपुरे रूपसौन्दर्यभूरसौ की० पु० । १९. च खं०२ । २०. एकान्ते । २१. ०वाश्रमं खं० १,ला०,मु० । २२.०क्षपणं खं० २, सू० । २३. मांसभक्षणे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org