________________
॥ द्वितीयः सर्गः ॥
इतश्च भरतेऽत्राऽस्ति मथुरेति वरा पुरी । नद्या यमुनया नीलसंव्यानेनेव शोभिता ॥१॥ तस्यां पुर्यां हरिवंश्याद् वसुपुत्राद् बृहद्ध्वजात् । गतेषु भूयःसु नृपेष्वभून्नाम्ना यदुनृपः ॥२॥ यदोरप्यभवत् सूनुः शूरः सूरसमद्युतिः । शूरस्यापि सुतौ शौरि-सुवीरौ वीरकुञ्जरौ ॥३॥
शौरि राज्ये यौवराज्ये सुवीरं न्यस्य शूरराट् । जातसंसारवैराग्य: परिव्रज्यामुपाददे ॥४॥ पाशौरिस्तु मथुराराज्यं सुवीरायाऽनुजन्मने । दत्त्वा कुशार्तदेशेऽगात् तत्र शौर्यपुरं न्यधात् ॥५।। सूनवोऽन्धकवृष्णयाद्या जज्ञिरे शौरिभूभुजः । सुवीरस्य पुनर्भोजवृष्ण्याद्या अमितौजसः ॥६॥ सुवीरो मथुराराज्यं स्वं दत्त्वा भोजवृष्णये । पुरं सिन्धुषु सौवीरं निधायाऽस्थान्महाभुजः ॥७॥ "विन्यस्याऽन्धकवृष्णि स्वे राज्ये शौरिर्महाभुजः । सप्रतिष्ठमनेः पार्श्वे प्रव्रज्य प्रययौ शिवम् ॥८॥ पाभोजवृष्णोर्मथुरायां राज्यं पालयत: सतः । उग्रसेनोऽभवत् सूनुरुदग्रभुजविक्रमः ॥९॥
जज्ञिरेऽन्धकवृष्णेश्च समुद्रायां दशाऽऽत्मजाः । समुद्रविजयोऽक्षोभ्यः स्तिमितः संगरोऽपि च ॥१०॥ हिमवानचलश्चैव धरणः पूरणस्तथा । अभिचन्द्रो 'वसुदेवो दशार्हाख्या दशाऽपि ते ॥११॥ युग्मम् ॥ तेषामभूतामनुजे कुन्ती मद्री च नामतः । पाण्डवेऽदात् पिता कुन्ती दमघोषाय चाऽपराम् ॥१२॥ अन्येधुरन्धकवृष्णिरवधिज्ञानिनं मुनिम् । सुप्रतिष्ठं प्रणम्यैवमपृच्छद्रचिताञ्जलिः ॥१३॥ स्वामिन् ! सूनुर्मे दशमो वसुदेवोऽभिधानतः । अत्यन्तरूप-सौभाग्य: कलावान् विक्रमी च किम् ? ॥१४॥ पाआख्यच्च सुप्रतिष्ठर्षिरासीन् मगधमण्डले । नन्दिग्रामे द्विजो रोरस्तस्य भार्या च सोमिला ॥१५॥ नन्दिषेणस्तयोः सूनुर्बालस्यापि हि तस्य तु । पितरौ तौ विपेदाते मन्दभाग्यशिरोमणेः ॥१६॥ तुन्दिलो दन्तुरश्चलश्चतुरस्रशिरास्तथा । कुरूपोऽन्येषु चाङ्गेषु सोऽत्याजि स्वजनैरपि ॥१७॥ जीवन्मूल्येनाऽपरेधुर्जगृहे मातुलेन सः । मातुलस्य तु तस्याऽऽसत्रुद्वाह्याः सप्त कन्यकाः ॥१८॥ एकां दास्यामि ते कन्यामित्यूचे मातुलश्च तम् । तद्वेश्मकर्म तल्लोभादशेषं च चकार सः ॥१९॥ तत्राऽद्योद्यौवना कन्या तज्ज्ञात्वोवाच मां यदि । प्रदास्यति पिताऽमुष्मै तन्मरिष्यामि निश्चितम् ॥२०॥ शुश्राव नन्दिषेणस्तद्विषण्णो मातुलेन तु । ऊचे सुतां द्वितीयां ते दास्ये मा खेदमुद्वह ॥२१॥ श्रुत्वा द्वितीयपुत्र्याऽपि तद्वच्चक्रे प्रतिवः । अन्यपुत्रीभिरप्येवं प्रतिषिद्धः क्रमेण सः ॥२२॥ ततस्तं मातुलोऽवोचत् पुत्रीमन्यस्य कस्यचित् । याचित्वा ते प्रदास्यामि वत्स ! मा भूस्त्वमाकुलः ॥२३॥ पानन्दिषेणस्ततो दध्यौ निजा नेप्सन्ति माममूः । ईप्सिष्यन्ति कथं त्वन्यकन्या मां रूपदूषितम् ? ॥२४॥ इति निःसृत्य वैराग्याद् ययौ रत्नपुरे पुरे । दम्पतीन् क्रीडतस्तत्र "निरीक्ष्य स्वं निनिन्द सः ॥२५॥ मुमूर्षः सोऽथ वैराग्याद् ययावुपवनान्तरे । सुस्थितं नाम तर्षि ददर्श प्रणनाम च ॥२६॥ ज्ञात्वा ज्ञानेन, तद्भावं स साधुस्तमवोचत । मा मृत्युसाहसं कार्षीरधर्मस्य फलं ह्यदः ॥२७॥ कार्यः सुखाथिना धर्म आत्मघातात् सुखं न हि । स तु प्रव्रज्यया धर्मः सुखहेतुर्भवे भवे ॥२८॥ श्रुत्वैवं च प्रतिबुद्धस्तत्पादान्तेऽग्रहीद् व्रतम् । गीतार्थश्चाभिजग्राह वैयोवृत्त्यं स साधुषु ।।२९।। पाबाल-ग्लानादिसाधूनां वैयोवृत्त्यकरं च तम् । अनिविण्णं सभामध्ये प्रशशंस पुरन्दरः ॥३०॥ १. नीलोत्तरीयवस्त्रेणेव । २.यदोरथाभवत् मु० । ३. सूरः खं०२, ता०सं० । ४. सूर० खं० २ । ५. शौरिपुरं सू० । ६. दत्त्वा भोजकवृष्णये मु० । ७. विधाया० ता०सं० । ८. निधायान्धक० मु० । ९. ०मुनिपार्वे खं० २ । १०. पुत्राः । ११. दरिद्रः । १२. बृहदुदरवान् । १३. दन्तुरचिल्ल० पु० दीर्घदन्तः । १४. 'क्लिन्ननेत्रः' लाटि. । १५. ०श्चतुरश्र० खं० १ । चतुष्कोणशिराः । १६. परिणयनयोग्याः । १७. तत्राद्या यौवना मु० । १८.प्रतिज्ञा । १९. निरूप्य की० पु० । २०. वैयावृत्तिं सं० । वैयावृत्तं की० । २१. वैयावृत्तिकरं सं० । २२. उपविष्टः पु०; खेदरहितम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org