________________
(२३)
विषयः
श्लोकाः
|
पृष्ठम्
अथाऽग्रे गतेन तेन नदीमुत्तीर्य उद्वसे पुरे वंशजालिकायामसि-वसुनन्दौ दृष्ट्वा ग्रहणं, असिना च वंशजालच्छेदने कस्यचिन्मस्तके छिने तेन सम्यक् दृष्ट्वा शोककरणं, ततो नगरे प्रविष्टस्य तस्य सप्तभूमिकं प्रासादं दृष्ट्वा तत्राऽऽरोहणं, तत्र च निषण्णामेकां नारी वीक्ष्य तस्यै पृच्छनम्
२१४-२२३ | १५७-१५८ तया च पृष्टे तेन स्ववृत्तकथनं, तच्छ्रुत्वा तस्या हर्षः, स्वपरिचयं च दत्त्वा ततो द्वयोरपि गान्धर्वविवाहः | २२४-२३५/ १५८ प्रभाते ब्रह्मदत्तस्य पुष्पवत्या सङ्केतेन ततो निर्गमनं, तत एकं महासरस्ती| तत्तटे च पुष्पाणि विचिन्वत्याः कन्याया रूपं दृष्ट्वा विस्मितस्य तस्य नृपेण स्वपुत्र्या तद्विवाहकरणम्
२३६-२६८ | १५८-१५९ अथाऽन्यदा पल्लीपतिना सह ग्रामघातार्थ ब्रह्मदत्ते गते तत्र सरस्तटे वरधनुमेलनं, तेन च स्ववृत्तान्तकथनम् २६९-३०१ | १५९-१६० ततो दीर्घराजस्य भटानायातान् ज्ञात्वा द्वयोस्ततः पलायनं, ततोऽटतोस्तयोः ब्रह्मदत्तस्याऽन्यान्यकन्यापरिणयनं वरधनुं च कुत्रचिद् गतं मृतं ज्ञात्वा राजगृहे तत्प्रेतकार्यकरणप्रवृत्ते ब्रह्मदत्ते वरधनोस्तत्राऽऽगमनं स्ववृत्तकथनं च
३०२-४०९ | १६०-१६३ अन्यदोन्मत्तहस्तिनं वशं कुर्वतस्तस्याऽऽकृत्यादि दृष्ट्वा विस्मितेन राज्ञा तत्परिचयज्ञानेन बह्वीभिः कन्याभिस्तत्परिणयकरणं, वरधनोश्च मन्त्रिकन्यया परिणयः
४१०-४२५ १६३-१६४ तयोर्बलं संचित्य वाराणसीगमनं, वाराणसीशेन ब्रह्मदत्तस्य स्वकन्यया विवाहकरणं, सेनादानं च, ततो धनुर्मन्त्रिणोऽन्येषां च नृपाणां साहाय्यं लब्ध्वा ब्रह्मदत्तस्य दीर्घ पराभवितुं प्रयाणं, दूतस्य चोत्तरदानं, काम्पील्यरोधनं च
४२६-४३६ १६४ दीर्घस्य युद्धायाऽऽगमनं, चुलन्या वैराग्याद्दीक्षा, युद्धे च ब्रह्मदत्तेन दीर्घस्य हननं, काम्पील्यं प्रविश्य कुरुमत्या स्त्रीरत्नत्वेन प्रतिष्ठापनम्
| ४३७-४४८ | १६४-१६५ ततस्तस्य षट्खण्डभरतक्षेत्रसाधनं, काम्पील्यमागतस्य तस्य चक्रित्वेनाऽभिषेकः
४४९-४७० १६५ अभिषेके च प्रवर्तमाने पूर्वपरिचितद्विजस्य तत्राऽऽगतस्याऽन्तः प्रवेशमलभमानस्य द्वारे स्थित्वैव नृपं सेवमानस्य प्रत्यभिज्ञानेन ब्रह्मदत्तेन तस्मै सर्वत्र भरतक्षेत्रे भोजनादि दापनम्
४७१-४८४ | १६५-१६६ अन्यदा जातिस्मृति प्राप्य पूर्वजन्मसहोदरशुद्धिकृते ब्रह्मदत्तेन जनेभ्यः श्लोकार्धसमस्यार्पणं, चित्रजीवमुनिना तत्पूरणे तस्य पार्वे गमनं, देशनाश्रावणं, मुनये च भोगार्थमामन्त्रणदानं, मुनिना च तस्य प्रतिबोधनं, ब्रह्मदत्तस्याऽबुद्धत्वं, मुनेश्च क्रमशः केवलज्ञान-निर्वाणादि
४८५-५१२ | १६६-१६७ अन्यदा यवनेशेन प्रेषितस्याऽश्वस्य परीक्षार्थं गतस्य ब्रह्मदत्तस्य तेनाऽश्वेनाऽतिदूरे नयनं, तत्रैकसरस्तटे एकस्या नागकन्याया नागरूपेण व्यन्तरेण साकं रमणं वीक्ष्य तयोः शिक्षादानं, नगर्यां निवर्तनं, नागकन्यया च स्वपतयेऽलीककथनं, तच्छ्रुत्वा ब्रह्मदत्तमारणेच्छयाऽऽगतेन नागकुमारेण ब्रह्मदत्त-तन्महिष्योः संलापं श्रुत्वा प्रकटीभूय तत्प्रशंसनं, 'किञ्चिद् याचस्वे'ति कथनं च, ब्रह्मदत्तेन 'सर्वप्राणिभाषामहं जानीया'मिति याचनं, तदा नागेना'ऽन्येषां न शंस्य'मिति कथयित्वा तस्मै वरदानम्
५१३-५५१ १६७-१६८ प्रसाधनगृहे गृहगोलदम्पत्योर्वातां श्रुत्वा हसतो राज्ञो महिष्या तत्कारणपृच्छनं, राज्ञा 'अकथनीयं तद्, अन्यथा मरिष्येऽह'मिति कथितेऽपि तस्या दुराग्रहेण राज्ञा स्मशाने चितां कारयित्वा 'तत्रैव कथयिष्ये' इति तस्यै कथनं, तदा राज्ञः कुलदेवतया छागदम्पत्यो रूपं कृत्वा राज्ञः प्रतिबोधनं ।
५५२-५७० १६८ अन्यदा प्राक्परिचितेन द्विजेनाऽऽगत्य 'सकुटुम्बं मां भोजये'ति याचिते राज्ञा 'मदीयान्नं ते न जीर्यते' इति कथितेऽपि तदाग्रहेण सकुटुम्बस्य तस्य स्वगृहे भोजनकराणं, तद्भोजनमदेन स्मरातुरस्य द्विजकुटुम्बस्य पशुवदाचरणं, द्वितीयदिने द्विजेनाऽमर्षेण राज्ञो वैरसाधनायाऽजापालद्वारा तदक्षिस्फोटने कृते राज्ञा तस्य द्विजस्य सपरिवारस्य घातनं, ततः पुरोधःप्रभृतीनां सर्वेषां विप्राणां घातनं, 'तेषां नेत्राणां स्थालमापूर्य निधातव्य' इति आज्ञाकरणं च, अमात्यैस्तद्रौद्राध्यवसायं विज्ञाय श्लेष्मातकफलैः स्थालमापूर्य तत्पुरतो निधानं, ब्रह्मदत्तस्य नित्यं तेषां स्पर्शनमर्दनै रौद्राध्यवसायवृद्धिः, एवं षोडशवर्षाणि कृत्वा 'कुरुमती'ति ब्रुवाणस्य तस्य मृत्वा सप्तमनरकपृथिवीगमनम्
| ५७१-६०० १६९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org